________________
ल्लेसा हवंति एयाओ । भावपरावत्तिइ पुण सुरनेरइयाण छल्लेसा ॥ १॥ [देवानां नारकाणां च द्रव्यलेश्या भवन्त्येताः। भावपरावृत्ती पुनः सुरनैरयिकाणां षट् लेश्याः ॥१॥] इति वचनात् , तस्मादेता नारकाणां वक्ष्यमाणाश्च सुराणां बाह्यवर्णरूपा एवेति, तदेतदयुक्तमभिप्रायापरिज्ञानात् , लेश्याशब्दो हि शुभाशुभे परिणामविशेषे व्याख्यातः, तस्य च परिणाम विशेषस्योत्पादकानि कृष्णादिरूपाणि द्रव्याणि जन्तूनां सदा संनिहितानि सन्ति, एतैश्च कृष्णादिद्रव्यैर्जीवस्य ये परिणामविशेषा जन्यन्ते मुख्यतया त एव लेश्याशब्देनोच्यन्ते, गौणवृत्त्या पुनः कारणे कार्योपचारलक्षणया एतान्यपि कृष्णादिरूपाणि द्रव्याणि लेश्याशब्देन व्यपदिश्यन्ते, ततश्च नारकाणां देवानां च या लेश्यास्ता द्रव्यलेश्या द्रष्टव्याः, तत्तल्लेश्याद्रव्याणि तस्य तस्य नारकस्य देवस्य वा सर्वदैवावस्थितोदयानि द्रष्टव्यानीति तात्पर्य, न पुनर्बाह्यवर्णरूपाः, तानि च लेश्याद्रव्याणि तिर्यङ्मनुष्याणामन्यलेश्याद्रव्योपधाने विशुद्धवस्त्रमिव मजिष्ठादिरागयोगे सर्वथा स्वरूपत्यागात्तद्रूपेणैव परिणमन्ते, अन्यथैतल्लेश्यायाः पल्योपमत्रयस्थितेरपि सम्भवादुत्कर्षतोऽप्यन्तर्मुहूर्तमागमोक्तं विरुध्येत, नारकदेवलेश्याद्रव्याणां तु तदन्यलेश्याद्रव्यसम्पर्के तदाकारमात्रं तत्प्रतिबिम्बमानं वा जायते, न पुनः स्वस्वरूपपरिहारेण तद्रूपता, तथाहि-यथा वैडूर्यादिमणेः प्रोतकृष्णादिसूत्रसम्पर्कादस्पष्टं किञ्चित्तदाकारभावमात्रं भवति स्फटिकोपलस्य वा जपाकुसुमादिसन्निधानतः स्पष्टं तत्प्रतिबिम्बमात्रं, न तूभयत्रापि तद्रूपतापत्तिः, तथा कृष्णादिलेश्याद्रव्याण्यपि नीलादिलेश्याद्रव्यौघं प्राप्य कदाचिदस्पष्टं तदाकारभावमात्रं कदाचित्स्पष्टं तत्प्रतिबिम्बमात्र प्रतिपद्यन्ते, न पुनस्तद्वर्णगन्धरसस्पर्शतया परिणम्य नीलादिलेश्याद्रव्यरूपाण्येव भवन्ति, न चैतन्निजमनीषाविजृम्भितं, प्रज्ञापनायां लेश्यापदे इत्थमेव प्रतिपादितत्वात् , तत्सूत्रं च विस्तरभयान लिखितमिति । एवं च सप्तमपृथिव्यामपि यदा कृष्णलेश्या तेजोलेश्यादिद्रव्याणि प्राप्य तदाकारमात्रेण तत्प्रतिबिम्बमात्रेण वाऽन्विता भवन्ति तदा सदावस्थितकृष्णलेश्याद्रव्ययोगेऽपि साक्षात्तेजोलेश्यादिद्रव्यसाचिव्ये इव शुभः परिणामो नारकस्य जायते जपोपरक्तस्फटिकसन्निधाने स्फटिकस्य रक्ततावत् , तत्परिणामे चास्य सम्यक्त्वावाप्तिरविरुद्धेति, न चैवमपि तेजोलेश्यादिसद्भावे सप्तमपृथिव्यां केवलकृष्णलेश्याभिधायिनः सूत्रस्य व्याघातः, यतस्तस्यां कृष्णव सदावस्थायिनी तेजस्यादिका त्वाकारमात्रादिना कदाचिदेव जायते, न च जातापि चिरमवतिष्ठते, न चावस्थितायामपि तस्यां कृष्णलेश्यादिद्रव्याणि सर्वथा स्वस्वरूपं त्यजन्ति, ततोऽधिकृतसूत्रे कृष्णैव सप्तम्यामुक्तेत्येवं सर्वत्र भावनीयं, अत एव सङ्गमकादीनामप्याकारमात्रादिना कृष्णलेश्यासम्भवादुपपद्यते त्रिभुवनगुरावुपसर्गविधातृत्वं, या अपि भावपरावृत्त्या सुरनारकाणां पडपि लेश्या उक्तास्ता अपि प्रागुक्तेनैवाकारभावमात्रादिना प्रकारेण घटन्ते नान्यथा, लेश्यात्रयनियमस्तु सदावस्थितोदयलेश्याद्रव्यापेक्षत्वादविरुद्ध इति, किंच-आसां बाह्यवर्णरूपत्वे प्रज्ञयादिषु- नेरइया णं भंते! सव्वे समवन्ना?, गोयमा! नो इणढे समढे, से केणटेणं भंते ! एवं वुच्चइ?, गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा-पुव्वोववन्नगा य पच्छोववन्नगा य, तत्थ णं जे ते पुवोववन्नगा ते णं विसुद्धवन्नतरागा, जे ते पच्छोववन्नगा ते णं अविसुद्धवन्नतरागा, से एणटेणं गोयमा! एवं वुच्चइ-नो नेरइया सव्वे समवन्ना" इति वर्णमुक्त्वा "नेरइया णं भंते! सव्वे समलेसा?, गोयमा! नो इणहे समढे, से केणटेणं भंते! एवं वुच्चइ ?, गोयमा! नेरइया दुविहा पन्नत्ता, तंजहा-पुन्वोववन्नगा पच्छोववन्नगा य, तत्थ णं जे ते पुव्वोववन्नगा ते णं विसुद्धलेसतरागा, जे ते पच्छोववन्नगा ते णं अविसुद्धले. सतरागा, से एएणटेणं गोयमा! एवं वुच्चइ-नो नेरइया सव्वे समलेस्सा" इति लेश्योक्तिरतिरिच्येत, वर्णानामेव लेश्यात्वाभ्युपगमात् , तेषां च पूर्वसूत्रेणैव प्रतिपादितत्वादिति १७८ ॥ ८३ ॥ सम्प्रति 'अवहि'त्ति एकोनाशीत्यधिकशततमं द्वारमाह
चत्तारि गाउयाई १ अछुट्टाई २ तिगाउयं चेव ३। अट्ठाइज्जा ४ दोन्नि य ५ दिवङ ६ मेगं च ७
नरयोही ॥ ८४॥ इह रत्नप्रभायां नरकावासेषु नारकाणां चत्वारि गव्यूतात्यवधिः-उत्कृष्टमवधिक्षेत्रप्रमाणं भवति, शर्कराप्रभायां तु अर्ध चतुर्थस्य येषु तान्यर्धचतुर्थानि गव्यूतानि, साध गव्यूतत्रयमित्यर्थः, वालुकाप्रभायां गव्यूतत्रयं, पङ्कप्रभायामधं तृतीयस्य येषु तान्यर्धतृतीयानि गव्यू. तानि, धूमप्रभायां द्वे गव्यूते, तमायां द्वितीयस्यार्ध यत्र तद् व्यर्ध गव्यूतं, सप्तमपृथिव्यां पुनरेकं गव्यूतमुत्कृष्टमवधिप्रमाणं, तथा सप्तखपि पृथिवीषु प्रत्येकमुत्कृष्टादवधिक्षेत्रप्रमाणादर्धगव्यूते व्यपनीते जघन्यमवधिक्षेत्रप्रमाणं भवति, तथाहि-प्रथमायां पृथिव्यां सार्धानि त्रीणि गव्यूतानि द्वितीयायां त्रीणि गव्यूतानि तृतीयायामर्धतृतीयानि गव्यूतानि चतुर्था द्वे गव्यूते पञ्चम्यां साध गव्यूतं षष्ठयामेकं गव्यूतं सप्तम्यामर्धगव्यूतमिति, उक्तं च-"अद्भुट्ठगाउयाई जहन्नयं अद्धगाउयंता" [अध्युष्ठगव्यूतादिको जघन्योऽर्धगव्यूतान्तः] इति १७९ ।। ८४ ॥ सम्प्रति 'परमाहम्मिय'त्यशीत्यधिकशततमं द्वारमाह__ अंबे १ अंबरिसी २ चेव, सामे य ३ सबलेइ य ४। रुद्दो ५ वरुद्द ६ काले य ७, महाकालित्ति ८
आवरे ॥ ८५॥ असिपत्ते ९ धणू १० कुंभे ११, वालू १२ वेयरणी इय १३ । खरस्सरे १४ महाघोसे १५, पन्नरस परमाहम्मिया ॥ ८६ ॥ परमाश्च ते अधार्मिकाश्च सष्ट्रिपरिणामत्वात् परमाधार्मिका-असुरविशेषाः, ते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र यः परमाधार्मिको देवो नारकानम्बरतले नीत्वा निःशवं विमुञ्चति सोऽम्ब इत्यभिधीयते १ यस्तु नारकानिहतान् कल्पनिकामिः खण्डशः
214
९