________________
प्युत्कृष्टतोऽपि पल्योपमासङ्ख्येयभागायुष्केष्वेव जायन्ते, नाधिकायुष्केष्विति ॥ ११ ॥ देवगतौ पुनरुत्पद्यमानानां विशेषमाह — 'तहे' - त्यादिगाथानवकं, तथा संमूर्छिमतिर्यश्वो देवेषूत्पद्यमाना भवनपतिव्यन्तरेष्वेव जायन्ते, न ज्योतिष्कादिषु, यस्मात्तेषां - सम्मूर्छिमतिरश्चां देवेषु पस्योपमासल्यात भागमात्रायुष्केष्वेवोपपातो, नाधिकस्थितिष्विति ॥ १२ ॥ पञ्चेन्द्रियतिरश्चामुत्कर्षत उपपातः सहस्रारं यावद्भवति, नरकेष्वपि समग्रेषु—सर्वास्वपि नरकपृथिवीषु, इदमत्र तात्पर्य - सङ्ख्यातायुष्कसंज्ञितिर्यक्पश्वेन्द्रियाश्चतसृष्वपि गतिषूत्पद्यन्ते, केवलं देवगतौ सहस्रारकल्पमेव यावदुत्पद्यन्ते, न तु परत आनतादिषु तथाविधयोग्यताऽभावादिति, तथा विकला - द्वित्रिचतुरिन्द्रिया युगल - वर्जेषु तिर्यक्षु मनुष्येषु चोत्पद्यन्ते, न देवनारकेषु ॥ १३ ॥ असङ्खयजीविनः - असङ्ख्यवर्षायुषो नरास्तिर्यश्वश्व ज्योतिष्कवर्जितेषु देवेषु यान्ति, देवगतिं विमुच्य शेषे गतिश्रये मोक्षे च नैव ते गच्छन्तीत्यर्थः, इह च यद्यपि सामान्येनासत्येयवर्षायुष्का नरतिर्यथ्वो भणितास्तथापि 'सूचकत्वात् सूत्रस्य' विशिष्टा एव खेचरतिर्यक्पश्वेन्द्रिया अन्तरद्वीपजतिर्यग्नराश्च वेदितव्याः, तथाहि -असत्येयवर्षायुषो देवेषूत्पद्यमाना निजायुषः समस्थितिषु हीनस्थितिषु चोत्पद्यन्ते, नाधिकस्थितिषु, ततः पत्योपमासज्येयभागमात्रेणासत्येयवर्षायुषः खेचरतिर्यक्पथ्येन्द्रिया अन्तरद्वीपजतिर्यमराश्च ज्योतिष्कवर्जेषु, उपलक्षणमेतत्, ज्योतिष्क सौधर्मेशान वर्जेषूत्पद्यन्ते, न ज्योतिष्कादिष्वपि, अधिकस्थितिपूत्पादाभावात्, ज्योतिष्केषु हि जघन्यतोऽपि पल्योपमाष्टमभागः सौधर्मेशानयोश्च पल्योपमं स्थितिरिति शेषास्त्वसज्येयवर्षायुषो हैमवतादिक्षेत्रभाविनस्तथा सुषमसुषमादिषु त्रिष्वरकेषु भरतैरवतभाविनश्च तिर्यग्मनुष्या निजायुषः समहीनायुष्केषु सर्वेष्वपीशानान्तेषु गच्छन्ति, तत ऊर्द्ध तु सर्वथा निषेधः, यत ईशानादूर्द्ध सनत्कुमारादिषु जघन्यतोऽपि सागरोपमद्वयादिकैव स्थितिः, असख्यातवर्षायुषां तिर्यङ्मनुष्याणां पुनरुत्कर्षतोऽपि त्रीण्येव पल्योपमानीति ॥ १४ ॥ तापसा - वनवासिनो मूलकन्दफलाहारा बालतपस्विनः तेषामुपपात उत्कर्षतो भवति यावज्ज्योतिष्काः, तत ऊर्द्ध नोत्पद्यन्त इति भाव:, तथा चरकपरिव्राजका - घाटि भैक्षोपजीविनत्रिदण्डिनः अथवा चरकाः - कच्छोटकादयः परिव्राजकाः- कपिलमुनिसूनवः चरकाश्च परिव्राजकाश्च तेषामुत्कर्षत उपपातो यावद्ब्रह्मलोक: ॥ १५ ॥ जिनोक्तानि यानि व्रतानि - प्राणातिपातविरमणादीनि यच्चोत्कृष्टं - विशिष्टमष्टमादितपो याश्च क्रिया:- प्रतिदिनानुष्ठेयप्रत्युपेक्षणादिकाः एतैः सर्वैरपि भव्यानामभव्यानां च मिथ्यादृशां जीवानां देवेषूत्पद्यमानानामुत्कृष्टा गतित्रैवेयकेषु, इयमत्र भावना - ये किल भव्या अभव्या वा सम्यक्त्वविकलाः सन्तः श्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणश्च तेऽपि केवलक्रियाकलापप्रभावत उपरितनमैवेयकान् यावदुत्पद्यन्ते एव, असंयताञ्चैते, सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वादिति, जघन्या तु गतिर्भवनपतिषु, एतच्च देवेषूत्पादापेक्षया द्रष्टव्यं ( प्रन्थानं ८०० ) अन्यथा देवत्वादन्यत्रापि यथाध्यवसायमुत्पादो भवतीति ॥ १६॥ छाद्यते--आत्रियते यथाऽवस्थितमात्मनः स्वरूपं येन तच्छद्म-ज्ञानावरणीयादिकर्म तस्मिन् तिष्ठन्तीति छद्मस्थाः ते च ते संयताश्च छद्मस्थसंयताः तेषामुत्कर्षत उपपातः सर्वार्थसिद्धे महाविमाने, श्रावकाणां - देशविरतिमनुष्याणां पुनरुपपात उत्कर्षतोऽच्युतं द्वादशदेवलोकं यावदिति ॥ १७ ॥ उपपातो लान्तके-षष्ठदेवलोके चतुर्दशपूर्वधरस्य जघन्यतो भवति, उत्कृष्टतस्तु सर्वार्थसिद्धे, अकर्मकस्य - क्षीणाष्टकर्मणः पुनश्चतुर्दशपूर्विणः उपलक्षणत्वादन्येषां मनुष्याणां क्षीणकर्मणां सिद्धिगमो - मोक्षावाप्तिर्भवतीति ॥ १८ ॥ साधोः प्रत्रज्याकाला'दारभ्याविराधितश्रामण्यस्य - अखण्डितसर्वविरतिरूपचारित्रस्य, श्रावकस्य चाविराधितश्रामण्यस्य - अखण्डितयथागृहीतदेशचारित्रस्य जघन्यत उपपातः सौधर्मे-प्रथमदेवलोके, केवलं तत्रापि साधोर्जघन्या स्थितिः पल्योपमपृथक्त्वं श्रावकस्य तु पल्योपममिति, तथा साधूनां श्रावकाणां च निजनिजत्रतभने जघन्यत उपपातो वनचरादिषु, वनचरा-व्यन्तरास्तेषामादयः - प्रथमाः, भवनपतिव्यन्तरादिक्रमेणागमे देवानां प्रसिद्धत्वात् भवनपतय इत्यर्थः तेषु तथा चोक्तं प्रज्ञापनायां – “विराहियसंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं सोहम्मे कप्पे” तथा “विराहियसंजमासंजमाणं जहन्नेणं भवणवासीसु उक्कोसेणं जोइसिएसु" ति अत्र च 'विराधितसंयमानां' विराधितःसर्वात्मना खण्डितो न पुनः प्रायश्चित्तप्रतिपत्त्या भूयः संधितः संयमः संयमासंयमश्च यैस्ते तथा तेषां ॥ १९ ॥ शेषाणां तापसादीनां -तापसचरकपरिव्राजकादीनां जघन्यत उपपातो जिनैः - तीर्थकरैर्भणितो व्यन्तरेषु प्रज्ञापनायां तु तापसादीनां 'जहनेणं भवणवासी सु' इत्युक्तं, स पुनरुपपातविधिर्निज क्रियास्थितानां - निज निजागमोक्तानुष्ठाननिरतानां न खाचारहीनानामिति १९० ॥ २० ॥ इदानीं 'एएसि जत्तो आगई 'त्ति एकनवत्यधिकशततमं द्वारमाह
नेरइयजुयलवज्जा एगिंदिसु इंति अवरगइजीवां । विगलत्तेणं पुण ते हवंति अनिरय अमरजुला ॥ २१ ॥ तिहु अमणतिरिच्छा नरतिरिया जुयलधम्मिए मोतुं । गन्भचउप्पयभावं पावंति अजुयलच उगइया || २२ || नेरइया अमरावि य तेरिच्छा माणवा य जायंति । मणुयत्तेणं वज्जित्तु जुयलधम्मियनरतिरिच्छे || २३ ॥
'नेरइये 'त्यादिगाथात्रयं, नैरयिकयुगलधार्मिकवर्जिता अपरगतिजीवाः सङ्ख्यातवर्षायुषः एकद्वित्रिचतुः पश्चेन्द्रियतिर्यस्नराः सनत्कुमारादिदेवानामेकेन्द्रियेष्वनुत्पादात् भवनपतिव्यन्तरज्योतिष्कसौधर्मेशान देवाश्च एकेन्द्रियेषु - पृथिव्यादिष्वागच्छन्ति, केवलं तथाभवस्खाभाव्याद्देवास्तेजोवायुवर्जितेषु पर्याप्तबादरेषु समायान्तीत्यवसेयं, तथा नैरयिकदेवयुगलधार्मिकवर्जितास्ते - तिर्यङ्नरजीवा विकलेन्द्रियत्वेन - द्वित्रिचतुरिन्द्रियत्वेन भवन्ति, द्वित्रिचतुरिन्द्रियेष्वागच्छन्तीति भावः ॥ २१ ॥ युगलधार्मिकांस्तिरो नरांश्च वर्जयित्वा शेषा नरा
220