Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
प्रतिपृथिव्युत्कर्षत उत्तरवैक्रियामवगाहनामाह-'जा जम्मी'त्यादि, सप्तसु नरकेषु-नरकपृथिवीषु मध्ये यस्मिन्नरके-नरकपृथिव्यामुत्कृष्टा भवधारणीया याऽवगाहना उक्ता सा द्विगुणा सती यावत्प्रमाणा भवति तावती तस्यां नरकपृथिव्यामुत्कृष्टा उत्तरवैक्रियरूपा अवगाहना बोद्धव्या, तद्यथा-रत्नप्रभायामुत्कृष्टा उत्तरवैक्रियावगाहना पञ्चदश धनूंषि द्वौ च साधौँ हस्तौ शर्कराप्रभायामेकत्रिंशद्धनूंषि एको हस्तः वालुकाप्रभायां द्वाषष्टिर्धनूंषि द्वौ च हस्तौ पङ्कप्रभायां पञ्चविंशं धनुःशतं धूपप्रभायां साधं द्वेशते तमःप्रभायां पच धनुःशतानि तमस्तमः प्रभायां धनुःसहस्रमिति ॥७९॥ सम्प्रति भवधारणीयामुत्तरवैक्रियां च जघन्यामाह-'भवेत्यादि, नरकेषु-सर्वासु नरकपृथिवीषु नारकाणां जघन्या भवधारणीया अङ्गुलस्यासोयो भागः, सा चोत्पत्तिसमये द्रष्टव्या, न त्वन्यदा, उत्तरवैक्रियरूपा पुनरवगाहना जघन्याऽङ्गुलसयेयभागमात्रा, साऽपि च प्रारम्भकाले द्रष्टव्या, केवलं सा प्रथमसमयेऽपि तथाविधप्रयत्नाभावादलसङ्ख्ययभागमात्रैव भवति न त्वसङ्ख्येयभागमात्रा, केचिच 'अंगुलअसंखभागो' इति पठन्तो जघन्यामुत्तरवैक्रियामप्यनुलासयातभागप्रमाणामाहुः, तदसङ्गतमेव समयविरोधात्, तथा च प्रज्ञापनासूत्रम्-"तत्थ णं जा सा उत्तरवेउन्विया सा जहनेणं अंगुलस्स संखेजइभागं उकोसेणं घणुसहस्स"मिति, तथा अनुयोगद्वारटीकायां हरिभद्रसुरिरप्याह-"उत्तरवैक्रिया तु तथाविधप्रयत्नाभावादाचसमयेऽप्यालसोयभागमात्रैवे"ति १७६ ॥ ८० ॥ इदानीं 'उप्पत्तिनासविरहो'त्ति सप्तसप्तत्यधिकशततमं द्वारमाह
चउवीसई मुहुत्ता १ सत्त अहोरत्त २ तह य पन्नरस शमासो य ४ दो य ५ चउरो ६ छम्मासा ७विरहकालो उ॥८१॥ उकोसो रयणाइसु सवासु जहन्नओ भवे समयो । एमेव य उच्चणसंखा पुण सुरवस्तुल्ला (राण समा)॥८२॥
.. इह नरकगतौ तिर्यखानुष्यगतिका जीवास्वावदनवरतं सदेवोत्पद्यन्ते कदाचित्त्वन्तरमपि भवति, तच सामान्येन सर्वामपि नरकगतिमाश्रित्य जघन्येनैकः समयः उत्कृष्टतस्तु द्वादश मुहूर्ताः, एतावन्तं कालमन्यत आगत्यैकोऽपि जन्तुर्नरकगतौ नोत्पद्यते इति भावः, इदं च सूत्रेऽनुक्कमपि स्वयमेव द्रष्टव्यं, यदुक्तम्-"निरइगई णं भन्ते! केवइयं कालं विरहिया उववाएणं पन्नचा?, गोयमा ! जहन्नेणं एक समयं उकोसेणं बारस मुहुत्त"त्ति, प्रतिपृथिवीपू(वितू)त्पादान्तरमुत्कृष्टवो रत्नप्रभायां चतुर्विशतिर्मुहूर्ताः शर्कराप्रभायां सप्ताहोरात्राः वालुकाप्रभायां पञ्चदश पङ्कप्रभायामेको मासः धूमप्रभायां द्वौ मासौ तमःप्रभायां चत्वारो मासाः तमस्तमःप्रभायां षण्मासा विरहकाल: अन्तरकाल उत्कृष्टतः, जघन्यतः पुनः सर्वावपि रत्नप्रभादिकासु पृथिवीषु प्रत्येकं भवत्येकः समयो विरहकालः, 'एवमेव य उबट्टण'त्ति यथोपपातविरहकाल उक्तः एवमेव उद्वर्तनविरहकालोऽपि जघन्यत उत्कर्षतश्च वाच्यः, किमुक्तं भवति ? नरकेभ्यो नारकाः प्रायः सततं च्यवन्ते कदाचिदेव त्वन्तरं, तच्च सामान्येन नरकगतिमाश्रित्य जघन्यत एकः समयः, उत्कृष्टतस्तु द्वादश मुहूर्ताः। विशे. पचिन्तायां तु जघन्यतः सर्वास्वपि पृथिवीषु उद्वर्तनाविरहकाल एकः समयः, उत्कर्षतो रत्नप्रभायां चतुर्विशतिर्मुहूर्ताः शर्कराप्रभायां सप्त दिना वालुकाप्रभायां पक्षः पङ्कप्रभायां मासः धूमप्रभायां द्वौ मासौ तमःप्रभायां चत्वारो मासाः तमस्तमःप्रभायां पण्मासाः, एकस्मिन्नारके उद्धृत्चे पुनरियता कालेनान्यो नारक उद्वर्तत इति भावः । 'संखा पुण सुरवरतुल्ल'त्ति उपपातोद्वर्तनयोः सङ्ख्या पुनरेकस्मिन् समये कियन्तो नारका उत्पद्यन्ते च्यवन्ते चेत्येवंलक्षणा सुरवरैस्तुल्या यथा सुराणां वक्ष्यते तथैव द्रष्टव्या, तद्यथा-एकस्मिन् समये नारका उत्पद्यन्ते च्यवन्ते च जघन्यत एको द्वौ वा उत्कर्षतस्तु सङ्ख्याता असङ्ख्याता वेति १७७ ।। ८१ ॥ ८२ ॥ सम्प्रति 'लेसा'त्ति अष्टसप्तत्यधिकशततमं द्वारमाह
काऊ १ काऊ २ तह काऊनील ३ नीला ४ य नीलकिण्हा ५ य । किण्हा ६ किण्हा ७ य तहा ..
सत्तसु पुढवीसु लेसाओ ।। ८३॥ इह सामान्येन तावन्नारकाणां लेश्याषट्कमध्यादाद्याः कृष्णनीलकापोत्याख्यास्तिस्र एव लेश्या भवन्ति, ताश्च प्रतिपृथिवि प्रतिपाधन्ते, वत्र कापोतादयो लेश्याः सप्तस्वपि पृथिवीषु यथासोन भवन्ति, तथाहि-रत्नप्रभायामेका कापोतलेश्यैव भवति, शर्कराप्रभायामपि कापोतलेश्यैव, केवलं क्लिष्टतरा वेदितव्या, एवं सर्वत्र सजातीया विजातीया च लेश्याऽधोऽधः क्लिष्टतरा क्लिष्टतमा वाच्या, वालुकाप्रभायां कापोतनीला च लेश्या भवति, केषुचिदुपरितनेषु प्रस्तटेषु कापोतलेश्या केषुचिदधस्तनेषु नीललेश्येति भावः, पङ्कप्रभायां केवला नीललेश्यैव, धूमप्रभायां नीललेश्या कृष्णलेश्या च, केषुचिदुपरितनप्रस्तटेषु नीललेश्या शेषेष्वधस्तनप्रस्तटेषु कृष्णलेश्या भवतीत्यर्थः, तमःप्रभायामेकैव कृष्णलेश्या, तमस्तमःप्रभायामप्यतिसक्लिष्टतमा कृष्णलेश्यैवेति, इह च केचिदाचक्षते-यथैता नारकाणां वक्ष्यमाणाश्च देवानां बाह्यवर्णरूपाः किल द्रव्यलेश्या अवगन्तव्याः, अन्यथा सप्तमपृथिवीनारकाणां या सम्यक्त्वप्राप्तिः श्रुतेऽभिधीयते सा न युज्यते, तेजस्यादिलेश्यात्रय एव तदवातेरुक्तत्वात्, यदुक्तमावश्यके-"सम्मत्तस्स य तिसु उवरिमासु पडिवजमाणओ होइ। पुव्वपडिवनओ पुण अन्नयरीए उ लेसाए ॥१॥" [सम्यक्त्वस्य च तिसृषूपरितनीषु प्रतिपद्यमानको भवति । पूर्वप्रतिपन्नकोऽन्यतरस्यां पुनर्लेश्यायां ॥१॥] उपरितन्यश्च तिस्रो लेश्यास्तेषां न सन्ति, सप्तमपृथिव्यां कृष्णलेश्याया एवोक्तत्वात् , तथा सौधर्मे तेजोलेश्यैव केवला वक्ष्यते, अस्याश्च प्रशस्तपरिणामहेतुत्वेन सङ्गमकादीनां भुवनगुरौ रौद्रोपसर्गकर्तृत्वानुपपत्तिः, तथा-काऊ नीला कण्हा लेसाओ तिनि होंति नरएसु।[कापोती नीला कृष्णा लेश्यास्तिस्रो भवन्ति नरकेषु] इत्यादिरूपो नियमोऽपि विरुध्यते 'देवाण नारयाण य दव्व
213

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310