Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 218
________________ त्वात् , उपरितनास्तु चत्वारः शुद्धा नैश्चयिकत्वादिति, तदिदमत्र तात्पय-संरम्भसमारम्भारम्भलक्षणं त्रितयं नैगमादीनामेव त्रयाणां सम्मतं, व्यवहारपरतया तेषां मतेन त्रितयस्यापि सम्भवात्, ऋजुसूत्रादयस्तु हिंसाविचारप्रक्रमे न बाह्यवस्तुगतां हिंसामनुमन्यन्ते, यतस्तन्मतेनात्मैव तथाऽध्यवसायपरिकलितो हिंसा न बाह्यमनुष्यादिपर्यायविनाशनं, 'आया चेव उ हिंसा' इति वचनात् , ततः संरम्भ एव हिंसा, न समारम्भो नाप्यारम्भः, ऋजुसूत्रादीनां मतेनेति १६७ ॥६०॥ सम्प्रति 'बंभमदृदसभेयंति अष्टषष्यधिकशततमं द्वारमाह दिवा कामरइसुहा तिविहं तिविहेण नवविहा विरई । ओरालियाउवि तहा तं भं अट्ठदस भेयं ॥ ६१॥ दिवि भवं दिव्यं तच्च वैक्रियशरीरसम्भवं काम्यन्त इति कामा-विषयास्तेषु रतिः-अमिष्वङ्गस्तस्मात्सुखं कामरतिसुखं सुरतसुखमिति भावः तस्मादिव्यात्कामरतिसुखात् त्रिविधं यथा भवति कृतकारितानुमतिभिरित्यर्थः त्रिविधेन-मनोवाकायलक्षणेन करणेन नवविधा विरतिः, एवमौदारिकादपि तिर्यमनुष्यसम्भवात् तथा-त्रिविधंत्रिविधेन नवविधा विरतिः, इत्येवं तद्-ब्रह्मचर्यमष्टादशभेदं भवति, इयमत्र भावना-मनसाऽब्रह्म न करोमि न कारयामि कुर्वन्तमपि परं नानुमन्ये एवं वचसा कायेन चेति दिव्ये ब्रह्मणि नव भेदाः, एवमौदारिकेऽपीत्यष्टादशेति १६८ ॥६१॥ सम्प्रति 'कामाण चउबीसं'येकोनसप्तत्यधिकशततमं द्वारमाह कामो चउवीसविहो संपत्तो खलु तहा असंपत्तो । चउदसहा संपत्तो दसहा पुण होअसंपत्तो ॥ ६२॥ तत्थ असंपत्तेऽत्था १ चिंता २ तह सद्ध ३ संभरण ४ मेव । विक्कवय ५ लज्जनासो ६ पमाय ७ उम्माय ८ सम्भावो ९॥३॥ मरणं च होड दसमे १० संपसपि य समासओ वोच्छं। दिट्ठीए संपाओ १ दिट्ठीसेवा २ य संभासो ३ ॥ ६४ ॥ हसिय ४ ललिओ ५ वहिय ६ दंत ७ नहनिवाय ८ बुंवणं ९ चेव । आलिंगण १० मादाणं ११ कर १२ सेवण १३ ऽणंगकीडा १४ कामश्चतुर्विशतिविध:-चतुर्विशतिभेदो भवति, तत्र प्रथमं तावत्सामान्येन विधा-सम्प्राप्त:-कामिनामन्योऽन्यं सङ्गमसमुत्थः, तथा असम्प्राप्तश्च-विप्रलम्भखरूपः, तत्र सम्प्राप्तश्चतुर्दशधा-चतुर्दशप्रकारः दशधा पुन: दशप्रकारो भवत्यसम्प्राप्त इति ॥ ६२ ॥ तत्राल्पतरवक्तव्यत्वादसम्प्राप्तं तावदाह-तत्थे'त्यावि, तत्र-द्वयोः सम्प्राप्तासम्प्राप्तयोर्मध्ये असम्प्राप्तोऽयं-'अत्थे ति अर्थनमर्थः-अदृष्टेऽपि रम. ण्यादौ श्रुत्वा सदमिलापमानं १ चिन्ता-अहो रूपादयस्तस्या गुणा इत्यनुरागेण चिन्तनं २ तथा श्रद्धा-तत्सङ्गमामिलाषः ३ तथा संस्मरण-सङ्कल्पिततपस्यालेख्यादिदर्शनेनात्मनो विनोदनं ४ तथा विकृवता-तद्विरहदुःखातिरेकेणाहारादिष्वपि निरपेक्षता ५ तथा लजानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनं ६ तथा प्रमादः-तदर्थमेव सर्वारम्भेषु प्रवर्तनं ७ तथोन्मादो-नष्टचित्ततया आलजालजल्पनं ८ तथा तद्भावना-स्तम्भादीनामपि तदुख्याऽऽलिङ्गनाविचेष्टा ९ मरणं च भवति दशमोऽसम्प्राप्तकामभेदः १०, इदं च सर्वथा प्राणपरित्यागलक्षणं न ज्ञातव्यं, शृङ्गाररसभङ्गप्रसङ्गात्, किन्तु मरणमिव मरणं-निश्चेष्टावस्था मूर्छाप्राया काचिदित्यर्थः, इस्थमेवाभिनवगुप्तेन भरतवृत्तिकृताऽपि व्याख्यातत्वादिति । अथ संप्राप्तं काममाह-संपत्तंपी'त्यादि, संप्राप्तमपि कामं समासत:-सहेपेण वक्ष्ये, तदेवाह-दृष्टेः सम्पातः खीणां कुचाद्यवलोकनं १ तथा दृष्टिसेवा-हावभावसारं तद्दष्टेदृष्टिमीलनं २ तथा सम्भाषणं-उचितकाले स्मरकथामिजल्प: ३॥ ६३ ॥ ६४॥ हसितं च-वक्रोक्तिगर्भ हसनं ४ ललितं-पासकादिक्रीडा ५ उपगूढं-गाढतरपरिष्वकं ६ दन्तपातो-दशनच्छेदविधिः ७ नखनिपात:-कररुहविपाटनप्रकारा८चुम्बन-वकसंयोगः ९ आलिङ्गनं-ईषत्स्पर्शनं १० आदानं-कुचादिग्रहणं ११ 'करसेवणं'ति प्राकृतशैल्या करणासेवने, वत्र करणं-सुरतारम्भयत्रं चतुरशीतिभेदं वात्स्यायनप्रसिद्धं १२ आसेवनंमैथुनक्रिया १३ अनङ्गक्रीडा च-आस्यादावर्थक्रियेति १४ ॥ १६९ ॥ ६५ ॥ इदानी 'दस पाण'त्ति सप्तत्यधिकशततमं द्वारमाह- . इंदिय ५ बल ३ ऊसासा १ उ १ पाण चउ छक्क सत्त अढेव । इगि विगल असन्नी सन्नी नव दस . पाणा य योद्धचा ॥६६॥ इन्द्रियबलोच्छ्वासायूंषि प्राणा इत्यभिधीयन्ते, ते च दश, तत्रेन्द्रियाणि-स्पर्शनादीनि पश्च, बलं कायवाखानोभेदात् त्रिधा, उच्छ्रासशब्देनाविनाभावित्वानिःश्वासो गृह्यते तत उच्छासनिःश्वासरूप एको भेदः, आयुश्च दशममिति । सम्प्रति येषां जीवानां यावन्तः प्राणाः सम्भवन्तीत्येतदाह-चउछके'त्यादि, इह सूचकत्वात्सूत्रस्य 'इगि'त्ति एकेन्द्रिया: 'विकल'त्ति विकलेन्द्रियाः द्वित्रिचतुरिन्द्रिया इत्यर्थः, तत एकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां च यथासयं चत्वारः षट् सप्त अष्टौ च प्राणा भवन्ति, इयमत्र भावना-स्पर्शनेन्द्रियकायबलोच्छासायुर्लक्षणाश्चत्वारः प्राणा एकेन्द्रियाणां पृथिव्यादीनां, स्पर्शनेन्द्रियरसनेन्द्रियकायबलवाग्बलोच्छासायुःस्वरूपाः षट् प्राणा द्वीन्द्रियाणां, त एव घ्राणेन्द्रियसहिताः सप्त प्राणास्त्रीन्द्रियाणां, त एव सप्त चक्षुरिन्द्रियसहिता अष्टौ प्राणाश्चतुरिन्द्रियाणां, तथा असंझिनां संझिनां च नव दश प्राणा बोद्धव्याः, अत्राप्ययमर्थः-इन्द्रियपचककायवाग्बलोच्छासनिःश्वासायुर्लक्षणा नव प्राणा असंक्षिपञ्चेन्द्रियाणां, संझिपञ्चेन्द्रियाणां तु पूर्वोक्ता दशापि प्राणा भवन्तीति १७०॥६६॥ सम्प्रति 'दस कप्पदुम'त्येकसप्तत्यधिकशततमं द्वारमाह 209

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310