Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 209
________________ विधं, विशेषः पुनरयं-'नवि मरइ ताणि पुणो'त्ति अपिशब्दस्यैवकारार्थत्वान्नैव तानि-द्रव्यादीनि पुनर्मियते, अयमर्थः-यानि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय मरिष्यतीत्येवं यन्मरणं तद् द्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, एवं क्षेत्रादिष्वपि वाच्यम् ॥ ९॥ वलन्मरणमाह-संजमें'त्यादि, संयमयोगा:-संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयोगविषण्णा:-अतिदुश्चरं तपश्चरणमाचरितुमक्षमाः व्रतं च कुलादिलज्जया मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितः कष्टानुष्ठानान्मुक्तिर्भवत्विति विचिन्तयन्तो म्रियन्ते यच्च तद्बलतां-संयमानुष्ठानान्निवर्तमानानां मरणं वलन्मरणं, तुशब्दो विशेषणार्थो भनव्रतपरिणतीनां व्रतिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगानामेवासम्भवात् कथं तद्विषादः १ तदभावे च कथं तदिति ॥ वशार्तमरणमाह -'इंदियेत्यादि, इन्द्रियाणां-चक्षुरादीनां विषया-मनोज्ञरूपादय इन्द्रियविषयाः तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकावलोकनाकुलशलभवन्नियन्ते तद्वशार्तमरणं, वशेन-इन्द्रियविषयपारतत्र्येण ऋता:-पीडिता वार्ताः तेषां मरणमप्युपचाराद्वशातमुच्यते इति ॥ १० ॥ अन्तःशल्यमरणमाह-गारवे'त्यादि, गौरवं-सातद्धिरसगौरवात्मकं तदेव कालुष्यहेतुतया पङ्कःकर्दमः तस्मिन्निमग्नाः तत्क्रोडीकृततया अतिचार-अपराधं ये परस्य-आलोचनाहस्याचार्यादेनं कथयन्ति, मा भूदस्माकमालोचनाईमाचार्यादिकमुपसर्पतां तद्वन्दनादितदुक्ततपोऽनुष्ठानासेवनेन ऋद्धिरससाताभावसम्भव इति, उपलक्षणं चैतत् , ततो बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै वन्दनादिकं दास्यामि ? अयं च ज्ञानहीनोऽयं वा मम सम इत्यभिमानेन लज्जया वा-अनुचितानुष्ठानसंवरणस्वरूपया येऽतिचारं न कथयन्तीति, किंविषयमित्याह-दर्शनज्ञानचारित्रे-दर्शनज्ञानचारित्रविषयं, तत्र दर्शनविषयं शङ्कादि ज्ञानविषयं कालातिक्रमादि चारित्रविषय समित्यननुपालनादि, शल्यमिव शल्यं कालान्तरेऽप्यनिष्टफलविधानं प्रत्यवन्ध्यतया सह तेन सशल्यं तच्च तन्मरणं च सशल्यमरणम्-अन्तःशल्यमरणं भवति तेषां-गौरवपकनिमग्नानामिति ॥ ११ ॥ तद्भवमरणपाह –'मोत्तुं' इत्यादि, मुक्त्वा -अपहाय, कान् ?-अकर्मभूमिजाश्च ते देवकुरूत्तरकुर्वादिषूत्पन्नतया नरतियश्चश्चाकर्मभूमिजनरतिर्यञ्चस्तान , तेषां हि तद्भवानन्तरं देवेष्वेवोत्पादः, तथा सुरगणांश्च-सुरनिकायान् , किमुक्तं भवति ?-चतुर्निकायवर्तिनोऽपि देवान् , तथा निरयो-नरकस्तस्मिन् भवा नैरयिकास्तांश्च मुक्त्वेति सम्बन्धः, तेषां देवानां च तद्भवानन्तरं तिर्यग्मनुष्येष्वेवोत्पत्तेः, शेषाणां-एतदुद्धरितानां कर्मभूमिजनरतिरश्चां जीवाना-प्राणिनां तद्भवमरणं, तेषामेव पुनस्तत्रोत्पत्तेः, तद् विद्यते यस्मिन् भवे-तिर्यग्मनुष्यलक्षणे वर्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धा पुनस्तत्क्षयेण म्रियमाणस्य भवति, तुशब्दस्तेषामपि सङ्ख्येयवर्षायुषामेवेति विशेषख्यापकः, असङ्ख्येयवर्षायुषां हि युगलधार्मिकत्वादकर्मभूमिजानामिव देवेष्वेवोत्पादः, तेषामपि न सर्वेषां, किन्तु केषाञ्चित्तद्भवोपादानरूपमेवायुःकर्मोपचिन्वतामिति ॥ १२ ॥ अत्रान्तरे-आवीई इति गाथा सूत्रे दृश्यते न चास्या भावार्थः सम्यगवगम्यते नाप्यसावुत्तराध्ययनचूादिषु व्याख्यातेत्युपेक्ष्यते ॥ १३ ॥ सम्प्रति बालपण्डितमिश्रमरणान्याह-'अविरयेत्यादि, विरमणं विरतं-हिंसानृतादेरुपरमणं न विद्यते तद्येषां तेऽविरतास्तेषां--मृतिसमयेऽपि देशविरतिमप्यप्रतिपद्यमानानां मिथ्यादृशां सम्यग्दृशां वा मरणमविरतमरणं तद् बाला इव बाला:-अविरतास्तेषां मरणं बालमरणमिति ब्रुवते इति सम्बन्धः, तथा विरताना-सर्वसावद्यनिवृत्तिमभ्युपगतानां मरणं पण्डितमरणं ब्रुवते तीर्थकरगणधरादय इति, तथा जानीहि बालपण्डितमरणं-मिश्रमरणं, पुनःशब्दः पूर्वापेक्षया विशेषद्योतनार्थः, देशात्सर्वविरतविषयापेक्षया स्थूलप्राणिव्यपरोपणादेर्विरता देशविरतास्तेषां देशविरतानां ॥ १४ ॥ एवं चरणद्वारेण बालादिमरणत्रयमभिधाय ज्ञानद्वारेण छप्रस्थमरणकेवलिमरणे प्राह-'मणपजवो' इत्यादि, मनःपर्यायज्ञानिनोऽवधिज्ञानिनः श्रुतज्ञानिनो मतिज्ञानिनश्च नियन्ते ये श्रमणा:-तपस्विनः छायन्तीति छद्मानि-ज्ञानावरणादीनि कर्माणि तेषु तिष्ठन्तीति छद्मस्थास्तेषां मरणं छद्मस्थमरणमेतत् , इह च प्रथमतो मनःपर्यायनिर्देशाद्विशुद्धिकृतप्राधान्याङ्गीकारेण चारित्रिण एतदुपजायते इति खामिकृतप्राधान्यापेक्षया द्रष्टव्यं, एवमवध्यादिष्वपि यथायोगं स्वधियैव हेतुवाच्य इति, तथा केवलमरणं केवलिनः-उत्पन्नकेवलज्ञानस्य सकलकर्मपुद्गलशाटनतो म्रियमाणस्य भवतीति ॥ १४ ॥ साम्प्रतं वैहायसगृध्रपृष्ठमरणे अभिधातुमाह-'गिद्धाई'त्यादि, गृध्राः-प्रतीताः ते आदिर्येषां शकुनिकाशिवादीनां तैर्भक्षणं गम्यमानत्वादात्मनस्तदनिवारणादिना तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन च गृध्रादिभक्षणं, तत्किमुच्यते ? इत्याह-गिद्धपिट्ट'त्ति गृधैः स्पृष्टं-स्पर्शनं यस्मिन् तद् गृध्रस्पृष्टं यदिवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि च मर्तुर्यम्मिन् तद् गृध्रपृष्ठं, स ह्यलक्तकपूणिकापुटप्रदानेनात्मानं गृध्रादिभिः पृष्ठादौ भक्षयतीति, पश्चानिर्दिष्टस्यापि तस्य प्रथमतः प्रतिपादनमत्यन्तमहासत्त्वविषयतया कर्मनिर्जरां प्रति प्राधान्यख्यापनार्थम् , 'उब्बंधणाइ वेहासमिति उद्-ऊर्द्ध वृक्षशाखादी बन्धनमुद्बन्धनं तदादिर्यस्य तरुगिरिभृगुप्रपातादेरात्मनैव जनितस्य मरणस्य तदु बन्धनादि, 'वेहासमिति प्राकृतत्वाद्यलोपे विहायसि-व्योमनि भवं वैहायसं, उद्बद्धस्य हि विहायस्येव भवनमिति तत्प्राधान्यविवक्षयेत्थमुक्तमिति, नन्वेवं गृध्रपृष्ठस्याप्यात्मघातरूपत्वाद्वैहायस एवान्तर्भावः, सत्यमेतत् केवलमस्याल्पसत्त्वैर्विधातुमशक्यत्वख्यापनार्थ भेदोपन्यासः, ननु-भावियजिणवंयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणंमि परम्मि य तो वजे पीडमुभओऽवि ॥१॥' [भावितजिनवचनानां ममत्वरहितानां नास्त्येव विशेषः । आत्मनि च परस्मिंश्च ततो वर्जयेत् पीडामुभयोरपि ॥ १॥] इत्यागमः, एते चानन्तरोक्ते मरणे अत्यन्तमात्मपीडाकारिणी इति कथं नागमविरोधः ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय 'चत्तारि विचित्ताई। विगईनिज्जूहियाइं चत्तारि ॥ [चत्वारि (वर्षाणि) विचित्राणि विकृति नियूढानि चत्वारि ] इत्यादिसंलेखनाविधिः पान 200

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310