Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 215
________________ दारिकादिसप्तकस्वभावत्वेन परिभुज्य २ परित्यक्तास्तावान् कालविशेषो बादरद्रव्यपुद्गलपरावर्तः, आहारकशरीरं चोत्कृष्टतोऽप्येकजीवस्य वारचतुष्टयमेव सम्भवति ततस्तस्य पुद्गलपरावर्त प्रत्यनुपयोगान्न ग्रहणं कृतमिति ॥४१॥ अथ मतान्तरेण द्रव्यपुद्गलपरावर्तमाह'अहवे'त्यादि, अथवा-अन्येषामाचार्याणां मतेनौदारिकवैक्रियतैजसकार्मणशरीरचतुष्टयरूपतया निःशेषद्रव्यग्रहणे-एकजीवेन सर्वलोकपुद्गलानां परिभुज्य २ परित्यजनेऽयं बादरः-स्थूलः पुद्गलपरावर्तो भवति, किंविशिष्टः ?-द्रव्यादिः, द्रव्यशब्द आदिर्यस्य पुद्गलपरावतस्य स द्रव्यादिः, द्रव्यपुद्गलपरावर्त इत्यर्थः ॥ ४२ ॥ सूक्ष्म द्रव्यपुद्गलपरावर्तमाह-'दो' इत्यादि, अथ द्रव्ये-द्रव्यविषयः सूक्ष्मः पुरलपरावर्तो भवति यथा औदारिकादिशरीराणामेकेन-अन्यतमेन शरीरेण एको जीवः संसारे परिभ्रमन् सर्वानपि पुद्गलान् स्पृष्टवापरिभुज्य २ मुश्चति, इयमत्र भावना-यावता कालेन सर्वेऽपि लोकाकाशभाविनः परमाणव औदारिकाद्यन्यतमैकविवक्षितशरीररूपतया परिभुज्य २ निष्ठां नीयन्ते तावान् कालविशेषः सूक्ष्मद्रव्यपुद्गलपरावर्तः, पुद्गलानां-परमाणूनामौदारिकादिरूपतया विवक्षितैकशरीररूपतया वा सामस्त्येन परावर्तः-परिणमनं यावति काले स तावान् कालः पुद्गलपरावतः, इदं च शब्दस्य व्युत्पत्तिनिमित्तं, अनेन च व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिप्रवृत्तिनिमित्तमनन्तोत्सर्पिण्यवसर्पिणीमानस्वरूपं लक्ष्यते, तेन क्षेत्रपुद्गलपरावर्चादौ पुद्गलपरावर्तनाभावेऽपि प्रवृत्तिनिमित्तस्यानन्तोत्सर्पिण्यवसर्पिणीमानस्वरूपस्य विद्यमानत्वात्पुद्गलपरावर्तशब्दः प्रवर्तमानो न विरुद्ध्यते, यथा गोशब्दः पूर्व गमने व्युत्पादितः, तेन च गमनेन व्युत्पत्तिनिमित्तेन स्खैकार्थसमवायिखुरककुदलाङ्कलसानादिमत्त्वरूपं प्रवृत्तिनिमित्चमुपलक्ष्यते, ततो गमनरहितेऽपि गोपिण्डे प्रवृत्तिनिमित्तसद्भावाद्गोशब्दः प्रवर्तते इति, 'अणुक्कमेणं नणु गणेज'त्ति एतांश्च पुद्गलान् अनुक्रमेण-विवक्षितैकशरीरस्पृष्टतारूपया परिपाट्या ननु-निश्चितं गणयेत्, इदमत्र तात्पर्य एतस्मिन् सूक्ष्मे द्रव्यपुद्गलपरावर्ते विवक्षितैकशरीरव्यतिरेकेणान्यशरीरतया ये परिभुज्य २ परित्यज्यन्ते ते न गण्यन्ते, किन्तु प्रभूतेऽपि काले गते सति ये च विवक्षितैकशरीररूपतया परिणम्यन्ते त एव परमाणवो गण्यन्त इति, प्रथमपक्षाभिप्रायेण तु औदारिकादिसप्तकमध्यादन्यतमेनैकेन केनचित्यूवॉक्तिरीत्या सर्वपुद्गलस्पर्शने सूक्ष्मपुद्गलपरावर्तो भवतीति ॥ ४३ ॥ अथ बादरक्षेत्रपुद्गलपरावर्तमाह-लोगे'त्यादि, लोकस्य-चतुर्दशरज्ज्वात्मकस्याकाशप्रदेशा-निर्विभागा नभोभागा यदा म्रियमाणेनात्र-जगति जीवेन स्पृष्टा-व्याप्ताः क्रमेण-तदनन्तरभावलक्षणेनोक्रमेण वा-अर्दवितर्दमरणाक्रान्तक्षेत्रप्रदेशरूपेण तदा क्षेत्रपुद्गलपरावर्तो भवेत् स्थूलो-बादरः, किमुक्तं भवति?-यावता कालेनैकेन जीवेन क्रमेण उत्क्रमेण वा यत्र तत्र म्रियमाणेन सर्वेऽपि लोकाकाशप्रदेशा मरणे संस्पृष्टाः क्रियन्ते स तावान् कालविशेषो बादरः क्षेत्रपुद्गलपरावर्तः॥४४॥ सम्प्रति सूक्ष्मक्षेत्रपुद्गलपरावर्तमाह-'जीवो' इत्यादिगाथाद्वयं, एकः कश्चिजन्तुरनन्तभवभ्रमणपरो यदा एकस्मिन् क्षेत्रप्रदेशेऽधिगते-प्राप्ते सति, तत्र स्थित इत्यर्थः, कल्पनया न परमार्थेन, असङ्ख्यातप्रदेशावगाढवाजीवस्य, म्रियते-प्राणान परित्यजतिपुनरपि तस्य-प्रथममरणस्पृष्टप्रदेशस्यानन्तरे-अव्यवहिते द्वितीये प्रदेशे यदि म्रियते पुनरप्यनन्तरे तृतीये प्रदेशे यदि म्रियते, एवं तर, तमयोगेन-अनन्तरानन्तरप्रदेशमरणलाभलक्षणेन सर्वस्मिन्नपि क्षेत्रे-लोकाकाशे मृतो भवति तदा सूक्ष्मः क्षेत्रपुद्गलपरावर्तो ज्ञेयः, अत्र च क्षेत्रप्रदेशान् अनुक्रमेणैव-प्रथमप्रदेशानुबद्धप्रदेशपरम्परापरिपाट्यैव गणयेत्, न पुनः पूर्वस्पृष्टान् व्यवहितान् वा प्रदेशान् गणयेत्, इयमत्र भावना-यद्यपि जीवस्यावगाहना जघन्याऽप्यसङ्ख्येयप्रदेशात्मिका भवति तथापि विवक्षिते कस्मिंश्चिद्देशे म्रियमाणस्य विवक्षितः कश्चिदेकः प्रदेशोऽवधिभूतो विवक्ष्यते, ततस्तस्मात्प्रदेशादन्यत्र प्रदेशान्तरे ये नभःप्रदेशा मरणेन व्याप्यन्ते ते न गण्यन्ते, किन्त्वनन्तेऽपि काले गते सति विवक्षितात्प्रदेशादनन्तरो यः प्रदेशो मरणेन व्याप्तो भवति स गण्यते, तस्मादप्यनन्तरो यः प्रदेशो मरणे व्याप्तः स गण्यते, एवमानन्तर्यपरम्परया यावता कालेन सर्वलोकाकाशप्रदेशा मरणेन स्पृष्टा भवन्ति तावान् कालविशेषः सूक्ष्मक्षेत्रपुद्गलपरावर्तः, अन्ये तु व्याचक्षते-येष्वाकाशप्रदेशेष्ववगाढो जीवो मृतस्ते सर्वेऽप्याकाशप्रदेशा गण्यन्ते, न पुनस्तन्मध्यवर्ती विवक्षितः कश्चिदेक एवाकाशप्रदेश इति ॥ ४५ ॥ ४६॥ अथ बादरं कालपुद्गलपरावर्तमाह-'ओसप्पी'त्यादि, अवसर्पिण्या उपलक्षणत्वादुत्सर्पिण्याश्च यावन्तः समयाः-परमसूक्ष्माः कालविभागास्ते यदा एकजीवेन निजमरणेन क्रमेणोत्क्रमेण वा स्पृष्टा भवन्ति तदा कालपुद्गलपरावतों भवेत् स्थूलः, अयमर्थः-यावता कालेनैको जीवः सर्वानप्यवसर्पिण्युत्सर्पिणीसमयान् क्रमेणोत्क्रमेण वा मरणेन व्याप्ताम् करोति तावान् कालविशेषो बादरः कालपुद्गलपरावर्तः ॥ ४७ ।। सूक्ष्मं कालपुद्गलपरावर्तमाह-'सुहुमो' इत्यादिगाथाद्वयं, सूक्ष्मः पुनः कालपुद्गलपरावर्तो भवति, तद्यथा-एकः कश्चिज्जीवोऽवसर्पिण्याः प्रथमे समये यदि मृतो भवति पुनरपि तस्यावसर्पिणीप्रथमसमयस्यानन्तरे द्वितीये समये यदि म्रियते, एवं तरतमयोगेन-अनन्तरानन्तरसमयमरणलाभलक्षणेन एतेषु सर्वेष्वप्यवसर्पिण्युत्सर्पिणीसम्बन्धिषु समयेषु यदि प्राणपरित्यागं करोति तदा सूक्ष्मः कालपुद्गलपरावर्तो भवति, इहापि समयान अनुक्रमेणैव-प्रथमसमयानुगतसमयपरम्परापरिपाट्यैव गणयेत्, न पुमः पूर्वस्पृष्टान् व्यवहितान् वा समयान् गणयेदिति, अत्रापीयं भावना-इहावसर्पिणीप्रथमसमये कश्चिज्जीवो मृत्युमुपगतः, ततो यदि समयोनविंशतिसागरोपमकोटीकोटीमिरतिक्रान्तामिभूयोऽपि स जन्तुरवसर्पिणीद्वितीयसमये म्रियते तदा स द्वितीयः समयो मरणस्पृष्टो गण्यते, शेषास्तु समया मरणस्पृष्टा अपि सन्तो न गण्यन्ते, यदि पुनस्तस्मिन्नवसर्पिणीद्वितीयसमये न म्रियते किन्तु समयान्तरे तदा सोऽपि न गृह्यते, किन्त्वनन्तास्ववसर्पिण्युत्सर्पिणीषु गतासु यदाऽवसर्पिणीद्वितीयसमये एव मरिष्यति तदा स समयो गण्यते, एवमानन्तर्यप्रकारेण यावता कालेन सर्वेऽप्युत्सर्पिण्यवसर्पिणीसमया मरणव्याता भवन्ति तावान् कालविशेष: 206

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310