Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 210
________________ कादिविधिश्व तत्रामिहितः, दर्शनमालिन्यं चोभयत्रेत्याशंक्याह - एते - अनंतरो के द्वे अपि-गृपृष्ठवैहायसाख्ये मरणे 'कारण'ति प्राकृ तत्वेन सप्तमीलोपात् कारणे - दर्शनमालिन्यपरिहारादिके जाते - समुत्पन्ने यद्वा कारणजाते - कारणप्रकारे सति उदायिनृपानुसृततथाविधगीतार्थाचार्यवदनुज्ञाते इत्यदोषः ॥ १६ ॥ सम्प्रति अन्त्यमरणत्रयमाह - 'मरण' मित्यादि, भक्तं - भोजनं तस्य परिज्ञानं परिक्षा, सा द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ज्ञपरिज्ञयाऽनेकविधमस्माभिर्भुक्तपूर्वमेतद्धेतुकं च सर्वमवद्यमिति परिज्ञानं प्रत्याख्यानपरिज्ञया च—“सव्वं च असणपाणं चउव्विहं जो य बाहिरो उवही । अब्भिन्तरं चउविहं जावज्जीवं च वोसिरइ ॥ १ ॥” [ सर्व चाशनपानं चतुर्विधं यश्च बाह्य उपधिः । अभ्यन्तरं चतुर्विधं यावज्जीवं च व्युत्सृजति ॥ १ ॥ ] इत्यागमवचनाच्चतुर्विधाहारस्य त्रिविधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, तथा इयते - प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी, भक्तपरिज्ञायां हि त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे शरीरपरिकर्म च स्वतः करोति परतश्च कारयति, इङ्गिन्यां तु नियमाचतुर्विधाहारविरतिः परपरिकर्मविवर्जनं च भवति, स्वयं पुनरिङ्गितदेशाभ्यन्तरे उद्वर्तनादिचेष्टात्मकं परिकर्म यथासमाधि विदधात्यपीति विशेष:, तथा पादैः - अधःप्रसर्पिमूलात्मकैः पिबतीति पादपो - वृक्षः, उपशब्दचौपम्ये उपमेयेऽपि सादृश्येऽपि च दृश्यते, ततश्च पादपमुपगच्छतिसादृश्येन प्राप्नोतीति पादपोपगमनं, किमुक्तं भवति ? - यथैव पादपः कचित्कथविन्निपतितः सममसमं वा अविभावयन् निश्चल एवास्ते तथा अयमपि भगवान् यद्यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयतीति, इह चैवंविधानशनोपलक्षितानि मरणान्यप्येवमुक्तानि अत एवाह - त्रीणि मरणानि, अथैतेषामेव त्रयाणां मरणानां किश्चित् स्वरूपमाह -- 'कन्नस' ति सूत्रत्वात् कनिष्ठं. लघु जघन्यमितियावत् मध्यमं - लघुज्येष्ठयोर्मध्यभावि ज्येष्ठं- अतिशयवृद्धमुत्कृष्टमित्यर्थः तत एतेषां द्वन्द्वे कनिष्ठमध्यमज्येष्ठानि यथा - येन त्रीण्यपि मरणान्यवसेयानि, तथा 'धिइति धृतिः - संयमं प्रति चित्तस्वास्थ्यं संहननं - शरीरसामर्थ्यहेतुर्ब्रऋषभनाराचादि ततः समाहारद्वन्द्वे धृतिसंहननं तेन विशिष्टान्येतानि, इदमुक्तं भवति - यद्यपि त्रितयमप्येतत् 'धीरेणवि मरियव्वं कापुरिसेणावि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खु धीरतणे मरिउं ॥ १ ॥ ' [ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यं तस्मादवश्यमरणे धीरत्वेनैव मर्त्तु वरं ॥ १ ॥ ] इत्यादिभावनातः शुभाशयवानेव प्रतिपद्यते फलमपि च वैमानिकता मुक्तिलक्षणं च त्रयस्यापि समानं, तथा चोक्तम् — “एयं पचक्खाणं अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्ज अहवावि सिज्झिज्जा ॥ १ ॥” [ एतत् प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् वैमानिको देवो वा भवेत् अथवापि सिध्येत् ॥ १ ॥ ] तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव च तत्प्राप्तिरिति ज्येष्ठत्वादिस्तद्विशेष उच्यते, तथाहि - भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति यत उक्तम्- "सव्वावि य अज्जाओ सब्वेवि य पढमसंघयणवज्जा । सव्वेवि देसविरया पञ्चक्खाणेण उ मरंति ॥ १ ॥ " [ सर्वा अप्यार्याः सर्वेऽपि च प्रथमसंहननवर्जा: । सर्वेऽपि च देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥ १ ॥ ] अत्र च प्रत्याख्यानशब्देन भक्तपरिचैव भणिता, तत्र प्राक् पादपोपगमादेरन्यथा भणनात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव भवतीत्यार्यिकादिनिषेधत एवावसीयते, पादपोपगमनं तु नानैव विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननिनामेव च भवति, उक्तं च – “पढमंमि य संघयणे वट्टंते सेलकुड्डसामाणा । तेसिंपि य वोच्छेओ चोइसपुव्वीण बोच्छेए ॥ १ ॥” [ प्रथमे च संहनने वर्त्तमाने शैलकुड्यसमानाः । तेषामपि च व्युच्छेदश्चतुर्दशपूर्विणां व्युच्छेदे ॥ १ ॥ ] इति, तीर्थकरसेवितत्वाश्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्च विशिष्टसाधुसेवितत्वादन्यथात्वं यतोऽभ्यधायि - " सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वगुरू सव्वमहिया सव्वे मेरुम्मि अमिसित्ता ॥ १ ॥ सव्वाहिं लद्धीहिं सव्वेऽवि परिसहे पराजित्ता । सव्वेविय तित्थयरा पाओवगया उ सिद्धिगया || २ || अवसेसा अणगारा तीयपडुप्पन्नऽणागया सव्वे । केई पाओवगया पञ्चक्खाणिंगिणी केई ॥ ३ ॥” [ सर्वे सर्वाद्धायां एते सर्वशाः सर्वकर्मभूमिषु सर्वगुरवः सर्वमहिताः सर्वे मेरौ अभिषिक्ताः ॥ १ ॥ सर्वामिर्लब्धिमिर्युक्ताः सर्वेऽपि च परिषदान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगताः सिद्धिगताः ॥ २ ॥ अवशेषा अनगाराः अतीतप्रत्युत्पन्नानागताः सर्वे । केचित् पादपोपगताः प्रत्याख्यानिन इङ्गिनश्च केचित् ॥ ३ ॥ ] इति, तस्माद्भक्तपरिज्ञानं कनिष्ठं इङ्गिनीमरणं मध्यमं पादपोपगमनं तु ज्येष्ठमिति १५७ ॥ १७ ॥ इदानीं 'पलिओवमं' इत्यष्टपश्चाशदधिकशततमं द्वारमाह पलिओवमं च तिविहं उद्धारऽद्धं च खेप्तपलियं च । एक्केकं पुण दुविहं बायर सुहुमं च नायवं ॥ १८ ॥ जं जोयणविच्छिन्नं तं तिउणं परिरएण सविसेसं । तावइयं उधिद्धं पल्लं पलिओवमं नाम ॥ १९ ॥ गाहियबेहियतेहियाण उक्कोस सत्तरत्ताणं । सम्म संनिचियं भरियं वालग्गकोडीहिं ॥ २० ॥ ततो समए समए इक्किके अवहियंमि जो कालो । संखिजा खलु समया बायरउद्धारपलंमि ॥ २१ ॥ एक्केकमओ लोमं कट्टुमसंखिज्जखंडमद्दिस्सं । समछेयाणंतपएसियाण पल्लं भरिजाहि ॥ २२ ॥ तत्तो समए समए एक्केके अवहियंमि जो कालो । संखिज्ज वासकोडी सुहुमे उद्धारपल्लमि ॥ २३ ॥ वाससए वाससए एक्के बायरे अवहियंमि । बायर अद्धापलियं संखेज्जा वासकोडीओ ॥ २४ ॥ वाससए वाससए एक्केके अवहियम्मि सुहुमंमि । सुहुमं अडा 201

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310