________________
कादिविधिश्व तत्रामिहितः, दर्शनमालिन्यं चोभयत्रेत्याशंक्याह - एते - अनंतरो के द्वे अपि-गृपृष्ठवैहायसाख्ये मरणे 'कारण'ति प्राकृ तत्वेन सप्तमीलोपात् कारणे - दर्शनमालिन्यपरिहारादिके जाते - समुत्पन्ने यद्वा कारणजाते - कारणप्रकारे सति उदायिनृपानुसृततथाविधगीतार्थाचार्यवदनुज्ञाते इत्यदोषः ॥ १६ ॥ सम्प्रति अन्त्यमरणत्रयमाह - 'मरण' मित्यादि, भक्तं - भोजनं तस्य परिज्ञानं परिक्षा, सा द्विधा - ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ज्ञपरिज्ञयाऽनेकविधमस्माभिर्भुक्तपूर्वमेतद्धेतुकं च सर्वमवद्यमिति परिज्ञानं प्रत्याख्यानपरिज्ञया च—“सव्वं च असणपाणं चउव्विहं जो य बाहिरो उवही । अब्भिन्तरं चउविहं जावज्जीवं च वोसिरइ ॥ १ ॥” [ सर्व चाशनपानं चतुर्विधं यश्च बाह्य उपधिः । अभ्यन्तरं चतुर्विधं यावज्जीवं च व्युत्सृजति ॥ १ ॥ ] इत्यागमवचनाच्चतुर्विधाहारस्य त्रिविधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, तथा इयते - प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी, भक्तपरिज्ञायां हि त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे शरीरपरिकर्म च स्वतः करोति परतश्च कारयति, इङ्गिन्यां तु नियमाचतुर्विधाहारविरतिः परपरिकर्मविवर्जनं च भवति, स्वयं पुनरिङ्गितदेशाभ्यन्तरे उद्वर्तनादिचेष्टात्मकं परिकर्म यथासमाधि विदधात्यपीति विशेष:, तथा पादैः - अधःप्रसर्पिमूलात्मकैः पिबतीति पादपो - वृक्षः, उपशब्दचौपम्ये उपमेयेऽपि सादृश्येऽपि च दृश्यते, ततश्च पादपमुपगच्छतिसादृश्येन प्राप्नोतीति पादपोपगमनं, किमुक्तं भवति ? - यथैव पादपः कचित्कथविन्निपतितः सममसमं वा अविभावयन् निश्चल एवास्ते तथा अयमपि भगवान् यद्यथा समविषमदेशेष्वङ्गमुपाङ्गं वा प्रथमतः पतितं न तत्ततश्चलयतीति, इह चैवंविधानशनोपलक्षितानि मरणान्यप्येवमुक्तानि अत एवाह - त्रीणि मरणानि, अथैतेषामेव त्रयाणां मरणानां किश्चित् स्वरूपमाह -- 'कन्नस' ति सूत्रत्वात् कनिष्ठं. लघु जघन्यमितियावत् मध्यमं - लघुज्येष्ठयोर्मध्यभावि ज्येष्ठं- अतिशयवृद्धमुत्कृष्टमित्यर्थः तत एतेषां द्वन्द्वे कनिष्ठमध्यमज्येष्ठानि यथा - येन त्रीण्यपि मरणान्यवसेयानि, तथा 'धिइति धृतिः - संयमं प्रति चित्तस्वास्थ्यं संहननं - शरीरसामर्थ्यहेतुर्ब्रऋषभनाराचादि ततः समाहारद्वन्द्वे धृतिसंहननं तेन विशिष्टान्येतानि, इदमुक्तं भवति - यद्यपि त्रितयमप्येतत् 'धीरेणवि मरियव्वं कापुरिसेणावि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खु धीरतणे मरिउं ॥ १ ॥ ' [ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यं तस्मादवश्यमरणे धीरत्वेनैव मर्त्तु वरं ॥ १ ॥ ] इत्यादिभावनातः शुभाशयवानेव प्रतिपद्यते फलमपि च वैमानिकता मुक्तिलक्षणं च त्रयस्यापि समानं, तथा चोक्तम् — “एयं पचक्खाणं अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्ज अहवावि सिज्झिज्जा ॥ १ ॥” [ एतत् प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् वैमानिको देवो वा भवेत् अथवापि सिध्येत् ॥ १ ॥ ] तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव च तत्प्राप्तिरिति ज्येष्ठत्वादिस्तद्विशेष उच्यते, तथाहि - भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति यत उक्तम्- "सव्वावि य अज्जाओ सब्वेवि य पढमसंघयणवज्जा । सव्वेवि देसविरया पञ्चक्खाणेण उ मरंति ॥ १ ॥ " [ सर्वा अप्यार्याः सर्वेऽपि च प्रथमसंहननवर्जा: । सर्वेऽपि च देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥ १ ॥ ] अत्र च प्रत्याख्यानशब्देन भक्तपरिचैव भणिता, तत्र प्राक् पादपोपगमादेरन्यथा भणनात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव भवतीत्यार्यिकादिनिषेधत एवावसीयते, पादपोपगमनं तु नानैव विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननिनामेव च भवति, उक्तं च – “पढमंमि य संघयणे वट्टंते सेलकुड्डसामाणा । तेसिंपि य वोच्छेओ चोइसपुव्वीण बोच्छेए ॥ १ ॥” [ प्रथमे च संहनने वर्त्तमाने शैलकुड्यसमानाः । तेषामपि च व्युच्छेदश्चतुर्दशपूर्विणां व्युच्छेदे ॥ १ ॥ ] इति, तीर्थकरसेवितत्वाश्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्च विशिष्टसाधुसेवितत्वादन्यथात्वं यतोऽभ्यधायि - " सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वगुरू सव्वमहिया सव्वे मेरुम्मि अमिसित्ता ॥ १ ॥ सव्वाहिं लद्धीहिं सव्वेऽवि परिसहे पराजित्ता । सव्वेविय तित्थयरा पाओवगया उ सिद्धिगया || २ || अवसेसा अणगारा तीयपडुप्पन्नऽणागया सव्वे । केई पाओवगया पञ्चक्खाणिंगिणी केई ॥ ३ ॥” [ सर्वे सर्वाद्धायां एते सर्वशाः सर्वकर्मभूमिषु सर्वगुरवः सर्वमहिताः सर्वे मेरौ अभिषिक्ताः ॥ १ ॥ सर्वामिर्लब्धिमिर्युक्ताः सर्वेऽपि च परिषदान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगताः सिद्धिगताः ॥ २ ॥ अवशेषा अनगाराः अतीतप्रत्युत्पन्नानागताः सर्वे । केचित् पादपोपगताः प्रत्याख्यानिन इङ्गिनश्च केचित् ॥ ३ ॥ ] इति, तस्माद्भक्तपरिज्ञानं कनिष्ठं इङ्गिनीमरणं मध्यमं पादपोपगमनं तु ज्येष्ठमिति १५७ ॥ १७ ॥ इदानीं 'पलिओवमं' इत्यष्टपश्चाशदधिकशततमं द्वारमाह
पलिओवमं च तिविहं उद्धारऽद्धं च खेप्तपलियं च । एक्केकं पुण दुविहं बायर सुहुमं च नायवं ॥ १८ ॥ जं जोयणविच्छिन्नं तं तिउणं परिरएण सविसेसं । तावइयं उधिद्धं पल्लं पलिओवमं नाम ॥ १९ ॥ गाहियबेहियतेहियाण उक्कोस सत्तरत्ताणं । सम्म संनिचियं भरियं वालग्गकोडीहिं ॥ २० ॥ ततो समए समए इक्किके अवहियंमि जो कालो । संखिजा खलु समया बायरउद्धारपलंमि ॥ २१ ॥ एक्केकमओ लोमं कट्टुमसंखिज्जखंडमद्दिस्सं । समछेयाणंतपएसियाण पल्लं भरिजाहि ॥ २२ ॥ तत्तो समए समए एक्केके अवहियंमि जो कालो । संखिज्ज वासकोडी सुहुमे उद्धारपल्लमि ॥ २३ ॥ वाससए वाससए एक्के बायरे अवहियंमि । बायर अद्धापलियं संखेज्जा वासकोडीओ ॥ २४ ॥ वाससए वाससए एक्केके अवहियम्मि सुहुमंमि । सुहुमं अडा
201