________________
७ तुवरीणं ८ । तह कसिणचणय ९ वल्लाण १० कोट्याईसु खिविऊणं ॥ ९९७ ॥ ओलित्ताणं पिहियाण लंछियाणं च मुद्दियाणं च । उक्किट्ठठिई वरिसाण पंचगं तो अबीयत्तं ॥ ९९८ ॥ अयसी १ लट्टा २ कंगू ३ कोड्सग ४ सण ५ वरह ६ सिद्धत्था ७ । कोद्दव ८ रालग ९ मूलग बीयाणं १० कोहईयासु ॥ ९९९ ॥ निक्खित्ताणं एयाणुकोसठिईऍ सत्त वरिसाई । होह जहनेण पुणो अंतमुत्तं समग्गाणं ॥ १००० ॥
'यवे' त्यादि, यवा गोधूमाश्च प्रतीताः यवयवा - यवविशेषाः शालयः - कलमादिविशेषाः श्रीहयः -- सामान्यतः, एतेषां धान्यानां कोष्ठ कादिषु—कुशूलपल्यप्रभृतिषु क्षित्वा - प्रक्षिप्य पिहितानां - तथाविधपिधानकेन स्थगितानां लिप्तानां द्वारदेशे पिधानेन सह गोमयादिना सर्वतोऽवलिप्तानां मुद्रितानां च - मृत्तिकादिमुद्रावतामुत्कर्षतस्त्रीणि वर्षाणि यावत् स्थिति:- अविनष्टयोनिकत्वेन अवस्थानं भवतीति, तदनु —ततः परमेतेषां—यवादीनां पञ्चानां धान्यानां योनिः - अङ्कुरोत्पत्तिहेतुर्विध्वस्यते - क्षीयते, ततो-योनिविध्वंसे सति जायतेऽबीजत्वं— तद्बीजमबीजं भवति, उप्तमपि नाङ्कुरमुत्पादयतीति भावः ।। ९९५ ।। ९९६ ॥ तथा - 'तिले 'त्यादि, तिलमुद्गमाषचवलकाः प्रतीताः मसूरो- वृत्ताकारो धान्यविशेष: ( प्रन्था० ७०० ) चनकिका इत्यन्ये कलाय :- त्रिपुटाख्यो धान्यविशेषः कुलत्थाः - चवलकाकाराश्चिपिटिका भवन्ति तुवर्य:- आढक्यः, वृत्तचणकाः- शिखारहिता वृत्ताकाराश्चणकविशेषाः वल्ला-निष्पावाः, एतेषां दशानां धान्यानां कोष्ठकादिषु क्षिप्त्वा पिहितानां ततोऽवलिप्तानां ततो लान्छितानां-रेखादिभिः कृतलान्छनानां मुद्रितानां चोत्कृष्टा स्थितिर्वर्षपञ्चकं यावद्भवति, ततोऽबीजत्वं जायते, छन्दोऽनुरोधाच पिहितावलिप्तयोर्व्यतिक्रमनिर्देशः ।। ९९७ । ९९८ ।। 'अयसी'त्यादि, अतसी-क्षुमा लट्टाकुसुंभं कङ्गुः -पीततण्डुलाः 'कोडूसग 'त्ति कोरदूषकाः- कोद्रवविशेषाः शणं-त्वक्प्रधानो धान्यविशेषः, 'बरठ'त्ति धान्यविशेषः, स बरठीति सपादलक्षादिषु प्रसिद्धः सिद्धार्थाः सर्षपाः कोद्रवाः प्रतीता एव रालकः कङ्गविशेषः मूलकं - शाकविशेषस्तस्य बीजानि मूलकबीजानि एतेषां दशानामपि धान्यानां कोष्ठकादिषु निक्षिप्तानां उपलक्षणमेतत् पिहितानामवलिप्तानां लाञ्छितानां मुद्रितानां चोत्कृष्टायां स्थितौ सप्त वर्षाणि भवन्ति, जघन्येन पुनः समग्राणां सर्वेषामपि पूर्वोक्तानां धान्यानामन्तर्मुहूर्त स्थितिर्भवति, अन्तर्मुहूर्ताश्च परतः स्वायुःक्षयादेवाचित्तता जायते, सा च परमार्थतोऽतिशयज्ञानेनैव सम्यक्परिज्ञायते न छास्थिकज्ञानेनेति न व्यवहारपथमवतरति, अव एव च पिपासापीडितानामपि साधूनां स्वभावतः स्वायुः क्षयेणाचित्तीभूतमपि तडागोदकं पानाय वर्धमानस्वामी भगवान् नानुज्ञातवान् : इत्थंभूतस्याचित्तीभवनस्य छद्मस्थानां दुर्लक्षत्वेन मा भूत्सर्वत्रापि तडागोदके सचित्तेऽपि पाश्चात्यसाधूनां प्रवृत्तिप्रसङ्ग इति कृत्वा १५४ ॥ ९९९ ॥ १००० ॥ इदानीं 'खेत्ताइयाणऽचित्तं 'ति पञ्चपञ्चाशदधिकशततमं द्वारमाह
जोयस तु गंता अणहारेणं तु भंडसंकंती । वायागणिधूमेहि य विद्धत्थं होइ लोणाई ॥ १००१ ॥ हरियालो मणसिल पिप्पली उ खज्जूर मुद्दिया अभया । आइन्नमणाइन्ना तेऽवि हु एमेव नायवा ॥ २ ॥ आरुहणे ओरुहणे निसियण गोणाइणं च गाउम्हा । भोम्माहारच्छेओ उवकमेणं तु परिणामो ॥ ३ ॥
एकं योजनशतं गत्वा-अतिक्रम्य लवणादि विध्वस्तम् - अचित्तं भवति, केनेत्याह- अनाहारेण – स्वदेशजसाधारणाहाराभावेन, अयमर्थःविवक्षितक्षेत्रादन्यत्र क्षेत्रे लवणादिकं यदा नीयते तदा तत्प्रतिदिनं विध्वस्यमानं २ तावद्गच्छति यावद्योजनशतं, योजनशतादूर्द्ध पुन र्भिन्नाहारत्वेन शीतादिसम्पर्कतश्चावश्यमचित्तीभवति, केचित्तु योजनशतस्थाने गव्यूतशतं पठन्ति यदुक्तं निशीथचूर्णी - 'केई पठंति गाउयसयगाहा' इति, तथा 'भंडसंकंती 'ति प्राकृतत्वेन विभक्तिव्यत्ययात् भाण्डसङ्क्रान्त्या - पूर्वभाजनादपरभाजनप्रक्षेपणेन पूर्वभाण्डशालाया वाऽन्यभाण्डशालासंचारणेन वाताग्निधूमैश्व योजनशतमगतमपि स्वस्थानेऽन्तरे वा वर्तमानं लवणादिकमचित्तं भवतीति । इत्थं च क्षेत्रादिक्रमेणाचित्तीभवनं पृथिवीकायिकानां वनस्पतिपर्यन्तानां सर्वेषामपि प्रतिपत्तव्यम् ॥ १००१ ॥ अत एवाह - 'हरियाले 'त्यादि, हरितालादयः प्रतीता एव, नवरं मुद्रिका - द्राक्षा अभया - हरितकी, एतेऽप्येवमेव ज्ञातव्याः, योजनशतात्परतः पूर्वोक्तैरेव हेतुभिरचित्तीभवन्तीति भावः, 'आइन्नमणाइन्न' चि योजनशतादागता अपि केचिदाचीर्णाः केचित्पुनरनाचीर्णाः, तत्र पिप्पलीहरितक्यादय आचीर्णा अतो गृह्यन्ते खर्जूरद्राक्षादयः पुनरनाचीर्णास्ततोऽचित्ता अपि न गृह्यन्ते इति ॥ २ ॥ अथ लवणादीनामेवाचित्तताकारणाभिव्यञ्जनायाह - 'आरुहणे' इत्यादि, तेषां लवणादीनामारोहणे - शकटगवादिपृष्ठादिष्वधिरोपणे सति तथा अवरोहणेशकटादिभ्य एवावतारणे तथा निषीदन्तीति नन्द्यादेराकृतिगणत्वाद्युप्रत्यये निषदना - लवणाद्युपरि निविष्टपुरुषाः तेषां गवादीनां च गात्रोष्मणा, तथा यो यस्य लवणादेराहारो भौमादिः - पार्थिवादिस्तस्य व्यवच्छेदे च - अभावे सति तथा उपक्रम्यते - बहुकालवेद्यमप्यायुः स्तोकेनैव कालेन निष्ठां नीयते अनेनेत्युपक्रमः - स्वकायशास्त्रादिः, तथाहि - किश्चित्कस्यचित् स्वकायशस्त्रं यथा क्षारोदकं मधुरोदकस्य किञ्चित्परकायशस्त्रं यथा ज्वलनो वनस्पतेः किश्वित्तूभयशस्त्रं यथा मृत्तिकामिश्रमुदकं शुद्धोदकस्य, तेन च परिणाम :- अचित्तता भवति, सचित्तमप्येमिः कारणैरचित्ततारूपेण परिणमतीत्यर्थः १५५ ॥ ३ ॥ इदानीं च 'धन्नाई चरबीसं 'ति षट्पश्वाशदधिकशततमं द्वारमाह
ari aari जव १ गोहुम २ सालि ३ वीहि ४ सट्ठी ५ य । कोद्दव ६ अणुया ७ कंगू ८
198