SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ लोकपूज्यान्-त्रिभुवनाभ्यर्चनीयान् जिनान-तीर्थकृतो जितकषायान्-निरस्तसमस्तद्वेषादिदोषान् अन्यद्वा जिनापेक्षया निजदोषप्रत्यनीकं -स्वकीयकामक्रोधप्रमुखदूषणप्रतिपक्षभूतं कामनिन्दाक्षान्तिप्रभृतिकं ध्यायति, कियत्प्रमाणेयं पञ्चमी प्रतिमेत्याह-पञ्च मासान् यावदिति ॥ ९८७॥ अथ षष्ठी प्रतिमामाह-'सिंगारे'त्यादि, शृङ्गारकथा-कामकथा तथा विभूषायाः-स्नानविलेपनधूपप्रभृतिकाया उत्कर्षःप्रकर्षः ततः समाहारद्वन्द्वः तद्वर्जयन्-परिहरन् , उत्कर्षग्रहणाच्छरीरमात्रानुगां विभूषां विधात्यपीति, तथा स्त्रिया-योषिता सह रहसि कथा-प्रणयवार्ता वर्जयन् , किमित्याह-वर्जयति अब्रह्म-मैथुनमेकं 'तओ यत्ति तक:-असौ प्रतिमाप्रतिपत्ता षष्ठयां-अब्रह्मवर्जनप्रतिमायां षण्मासान् यावत् , पूर्वस्यां हि प्रतिमायां दिवस एव मैथुनं प्रतिषिद्धं, रात्रौ पुनरप्रतिषिद्धमासीत् , अस्यां तु दिवापि रजन्यामपि च सर्वथापि मैथुनप्रतिषेधः, अत एवात्र चित्तविप्लुतिविधायिनां कामकथादीनामपि प्रतिषेधः कृत इति ॥ ९८८ ।। अथ सप्तमी प्रतिमामाह-'सत्तमी'त्यादि, सप्तम्यां-सचित्ताहारवर्जनप्रतिमायां सप्त मासान् यावत् सचित्तं-सचेतनमाहारं-अशनपानखादिमस्खादिमस्वरूपं नैवाहारयति-अभ्यवहरति, तथा यद्यस्तिनीनां-प्राक्तनीनां प्रतिमानामनुष्ठानं तत्तत्सर्वमपि-निरवशेषमुपरितनीनां-अप्रेतनप्रतिमानामवसेयं, एतच्च प्रागुक्तमपि विस्मरणशीलविनेयजनानुग्रहाय पुनरुपन्यस्तम् , एवमन्यत्रापि ॥९८९॥ अथाष्टमीनवम्यौ प्रतिमे प्रतिपादयितुमाह-'आरंभे'त्यादि, अष्टमी-स्वयमारम्भवर्जनप्रतिमा भवति यस्यामष्टौ मासान यावदारम्भस्य-पृथिव्याद्युपमर्दनलक्षणस्य स्वयं -आत्मना करणं-विधानं वर्जयति-परिहरति, स्वयमिति वचनाच्चैतदापन्नं-वृत्तिनिमित्तमारम्भेषु तथाविधतीव्रपरिणामरहितः परैः कर्मकरादिभिः सावद्यमपि व्यापारं कारयतीति, ननु स्वयमप्रवर्तमानस्याप्यारम्भेषु प्रेष्यान् व्यापारयतः प्राणिहिंसा तवस्थैव, सत्यं, किन्तु या सर्वथैव स्वयमारम्भाणां करणतः परैश्च कारणत उभयजन्या हिंसा सा स्वयमकरणतस्तावत्परिहृतैव, यतः स्वल्पोऽपि प्रारम्भः परिहियमाणः प्रोज्जम्ममाणमहाव्याधेः स्तोकतरस्तोकतमक्षय इव हित एव भवति, एषा पुनर्नवमी-प्रेष्यारम्भवर्जनप्रतिमा भवति, यस्यां नव मासान यावत् पुत्रभ्रातृप्रभृतिषु न्यस्तसमस्तकुटुम्बादिकार्यभारतया धनधान्यादिपरिग्रहेष्वल्पामिष्वङ्गतया च प्रेष्यैरपि-कर्मकरादिमिरपि आस्तां स्वयं आरम्भान्-सपापव्यापारान् महतः कृष्यादीनिति भावः, आसनदापनादिव्यापाराणां पुनरतिलघूनामनिषेध एव, तथाविधकर्मबन्धहेतुत्वाभावेनारम्भत्वानुपपत्तेः ॥ ९९० ॥ अथ दशमी प्रतिमामाह-'दसमे'त्यादि, दशमी पुनरुद्दिष्टभक्तवर्जनप्रतिमा दश मासान्' यावद्भवति, यस्यामुद्दिष्टं-उद्देशस्तेन कृतं-विहितमुद्दिष्टकृतं, तमेव श्रावकमुद्दिश्य संस्कृतमित्यर्थः, एवंखरूपं भक्तमपिओदमादिकं नैव मुखीत आस्तां तावदितरसावधव्यापारकरणमित्यपिशब्दार्थः, “सो होइ'त्ति स पुनर्दशमप्रतिमाप्रतिपत्ता कश्चित् क्षुरमुण्ड:-क्षुरमुण्डितमस्तको भवति 'सिहिलिं'ति शिखां वा शिरसि कोऽपि धारयतीति ॥ ९९१ ॥ तथा-'ज'मित्यादि, नवरं-केवलं स श्रावकस्तत्र-तस्यां दशमप्रतिमायां स्थितो यन्निहितं-भूम्यादौ निक्षिप्तमर्थजातं-द्रव्यं सुवर्णादिकं तत्पृच्छतां सुतानां-पुत्राणां उपलक्षणत्वाद्धात्रादीनां च यदि जानाति ततः कथयति, अकथने वृत्तिच्छेदप्राप्तेः, अथ नैव जानाति ततो ब्रूते-नैवाहं किमपि जानामिस्मरामीति, एतावन्मुक्त्वा नान्यत्किमपि तस्य गृहकृत्यं कर्तुं कल्पत इति तात्पर्यम् ॥ ९९२ ॥ अथैकादशी प्रतिमामाह-'खुरे'त्यादि, क्षुरेण मुण्डो-मुण्डितः क्षुरमुण्डो लोचेन वा-हस्तलुश्चनेन मुण्डः सन् रजोहरणं पतगृहं च उपलक्षणमेतत् सर्वमपि साधूपकरणं गृहीत्वा 'समणहूओ'त्ति श्रमणो-निर्ग्रन्थस्तद्वद् यस्तदनुष्ठानकरणात्स श्रमणभूतः साधुकल्प इत्यर्थः विहरेत्-गृहान्निर्गत्य निखिलसाधुसामाचारीसमाचरणचतुरः समितिगुप्त्यादिकं सम्यगनुपालयन् मिक्षार्थ गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय मिक्षा दत्तेति भाषमाणः, कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणो प्रामनगरादिष्वनगार इव मासकल्पादिना विचरेदेकादश मासान् यावदिति । एतबोत्कृष्टतः कालमानमुक्तं, जघन्यतः पुनरेकादशापि प्रतिमाः प्रत्येकमन्तर्मुहर्तादिमाना एव, तच मरणे वा प्रबजितत्वे वा सम्भवति, नान्यथेति ॥ ९९३ ॥ तथा-'ममे'त्यादि, ममेत्यस्य करणं ममकारस्तस्मिन्नव्यवच्छिन्ने-अनपगते सति, अनेन खजनदर्शमार्थित्वकारणमुक्तं, संज्ञाता:-खजनास्तेषां पल्ली-सन्निवेशस्तां संज्ञातपल्लीं ब्रजति-गच्छति द्रष्टुं-विलोकयितुं संज्ञातानिति गम्यते, जे इति पादपूरणे, तत्रापि-संज्ञातपल्यामपि, आस्तामन्यत्र, साधुरिव-संयत इव वर्तते, न पुनः स्वजनोपरोधेन गृहचिन्तादिकं कुर्यात् , यथा च साधुः प्रासुकमेषणीयं च गृहाति तथा सोऽपि श्रमणभूतप्रतिमाप्रतिपन्नः प्रासुकमेव-प्रगतासुकमेवाचेतनमेवोपलक्षणत्वावस्यैषणीयं चाहारं-अशनादिकं गृहातीति, ज्ञातयो हि स्नेहादनेषणीयं भक्तादि कुर्वन्ति आग्रहेण च तद् प्राहयितुमिच्छंति अनुवर्तनीयाश्च ते प्रायो भवन्तीति तद्ब्रहणं सम्भाव्यते तथापि तदसौ न गृह्णातीति भावः ॥ इह चोत्तरासु सप्तसु प्रतिमास्वावश्यकचूया प्रकारान्तरमपि दृश्यते, तथाहि-"राईभत्तपरिन्नाएत्ति पञ्चमी, सचित्ताहारपरित्राएत्ति षष्ठी, दिया ब्रह्मचारी, राओ परिमाणकडेत्ति सप्तमी, दियावि राओवि बंभयारी असिणाणए वोसट्टकेसमंसुरोमनहेत्ति अष्टमी, सारंभपरिन्नाएत्ति नवी, पेसारंभपरिन्नाएत्ति दशमी, उदिइन्नविवजए समणभूएत्ति एकादशी"ति १५३ ॥९९४॥ इदानीं 'धन्नाणमबीयत्त'ति चतुष्पञ्चाशदधिकशततमं द्वारमाह जव १ जवजव २ गोहुम ३ सालि ४ वीहि ५ धन्नाण कोट्टयाईसुं। खिविऊणं पिहियाणं लित्ताणं मुहियाणं च ॥ ९९५ ॥ उक्कोसेणं ठिक होइ तिनि वरिसाणि तयणु एएसिं । विद्धंसिजह जोणी तसो जायइ अबीयत्सं॥९९६॥ तिल १ मुग्ग २ मसुर ३ कलाय ४ मास ५चवलय ६ कुलत्थ 197
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy