Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 203
________________ क्तत्वेन शरीरविरहितत्वान्न विद्यते इन्द्रियं-स्पर्शनादि येषां ते अनिन्द्रियाः-सिद्धाः । तथा षट् कायाः पृथ्वीजलानलवायुवनस्पतित्रसभेदात्, पृथ्वीकायजलकायानलकायवायुकायवनस्पतिकायत्रसकायलक्षणाः षट् काया इत्यर्थः, तत्र पृथिवी-काठिन्यादिलक्षणा सैव कायः-शरीरं येषां ते पृथिवीकायाः जलं-पानीयं तदेव कायः-शरीरं येषां ते जलकायाः, अनलो-वह्निः स एव काय:-शरीरं येषां तेऽनलकायाः, वायुः-पवनः स एव काय:-शरीरं येषां ते वायुकायाः, वनस्पतिः-लतादिरूपः स एव काय:-शरीरं येषां ते वनस्पतिकायाः, सनशीलानसाः-चलनधर्माणः कायाः-शरीराणि येषां ते त्रसकायाः ॥९७५॥ अथ लेश्याषट्कमस्तिकायपञ्चकं चाह'छल्लेसे'त्यादि, लिश्यते-श्लिष्यते कर्मणा सह जीवो यकाभिस्ता लेश्या:-कृष्णनीलकापोततेजःपद्मशुक्लवर्णद्रव्यसाहाय्याजीवस्याशुभाः शुभाश्च परिणामविशेषाः, उक्तं च-'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥' कृष्णादिद्रव्याणि च केचिद् 'योगपरिणामो लेश्या' इतिवचनाद्योगान्तर्गतद्रव्याण्याहुः, अन्ये तु 'सकलकर्मप्रकृतिनिःस्यन्दरूपाणि' अपरे पुनः 'कार्मणशरीरवत्पृथगेव कर्माष्टकात्कार्मणवर्गणानिष्पन्नानि कृष्णादिद्रव्याणी'ति प्रतिपादयन्ति, तत्त्वं तु तीर्थकृतो विदन्तीति, एताश्च परिणामविशेषात्मिका लेश्याः षड् भवन्ति, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या 'सिय'त्ति सितलेश्या शुक्कुलेश्येत्यर्थः, तत्र कृष्णद्रव्यात्मिका कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्येत्यर्थः, एवं नीललेश्येत्यादिपदेष्वपि भावनीयं, तासु चाद्यास्तिस्रोऽशुभाः अपरास्तु तिस्रः शुभाः, एतासां च विशेषतः स्वरूपनिरूपणार्थ जम्बूखादकषटपुरुषीदृष्टान्तो प्रामघातकदृष्टान्तश्चोच्यते, तथाहि केचित् कस्मिंश्चित्कानने क्षुत्क्षामकुक्षयः षट् पुरुषाः सुपरिपक्कसरसफलभरावनमितसकलशाखं कल्पशाखिसदृक्षमेकं जम्बूवृक्षमद्राक्षुः, ततः सर्वैरपि प्रमुदितैः प्रोक्तं-अहोऽवसरप्राप्तमस्य दर्शनं अपनयामो बुभुक्षा भक्ष्यामः खेच्छयाऽतुच्छान्यस्य स्वादुफलानीत्यैकमत्ये सति तन्मध्ये क्लिष्टपरिणामेनैकेनोक्तं-युक्तमिदं केवलमस्मिन्ननोकहे दुरारोहे समारोहतां जीवितव्यस्यापि संशयः, तस्मात्तीक्ष्णधारैः कुठारैरमुं मूलत एव कर्तयित्वा तिर्यक्प्रपात्य सुखेनैव सकलानि फलान्यभ्यवहरामः, एप एवंजातीयः कृष्णलेश्यापरिणाम:, द्वितीयेन तु किञ्चित्सशूकेनोक्तं-किमस्माकमेतेनातिमहता पादपेन छिन्नेन ?, महीयसीमस्य शाखामेवैकां कर्तयित्वा फलान्याखादयामः, एवंप्रकारो नीललेश्यापरिणामः, तृतीयः पुनः प्राह-किमेतया महाशाखया छिन्नया?, तदेकदेशभूताः प्रशाखा एव कर्तयामः, इत्येवंविधः कापोतलेश्यापरिणामः, चतुर्थश्चोवाच-किमामिरपि वराकीमिः कर्तितामिः ?, तत्पर्यन्तवर्तिनः कांश्चिद्गुच्छानेव छिंदः, एष तैजसलेश्यापरिणामः, पञ्चमः पुनः प्रोवाच-गुच्छैरपि किं नश्छिन्नैः ?, तन्मध्यात्सुपकानि भक्षणोचितानि कानिचित्कलान्येव गृहीम इत्यसौ पद्मलेश्यापरिणामः, षष्ठस्तु बभाषे-किं तैरपि त्रोटितैः ?, यावत्प्रमाणैः प्रयोजनमस्माकं तावत्प्रमाणानि फलान्यधस्तादपि पतितान्यस्य विटपिनः प्राप्यन्ते, तद्वयममीभिरेव प्राणवृत्तिं विदध्मः किमुन्मूलनादिनाऽस्य शाखिनः खेदेन ? इत्ययं शुक्ललेश्यापरिणाम इति ॥ प्रामघातकदृष्टान्तस्तु कस्मिंश्चिद् प्रामे धनधान्यादिलुब्धैः षड्विस्तस्करस्वामिमिर्मिलित्वा धाटी प्रक्षिप्ता, तत्रैकेनोक्तं यत्किमपि द्विपदचतुष्पदपुरुषस्त्रीबालवृद्धादिकं पश्यथ तत्सर्व मारयत ?, इत्येवंजातीयः कृष्णलेश्यापरिणामः, द्वितीयस्तु नीललेश्यापरिणामवर्ती बभाषे-मानुषाण्येव मारयत किं तिर्यग्भिरिति, तृतीयः पुनः कापोतलेश्यायुक्तो जगाद-पुरुषानेव व्यापादयत ?, किं स्त्रीमिरिति, चतुर्थस्तु तैजसलेश्यापरिणामान्वितः प्राह-पुरुषेष्वपि सप्रहरणानेव निशुम्भत, किं निष्प्रहरणैरपि ?, पञ्चमः पुनः पद्मलेश्यापरिणामसम्पन्नः प्रोवाच-सायुधेष्वपि युध्यमानानेव विनाशयत किमन्यैर्निरपराधैरिति, षष्ठस्तु शुक्ललेश्यापरिणामपरिगतः प्रतिपादयति स्म-अहो महदसमजसं यदेकं तावद् द्रव्यमपहरथ अपरं च वराकमेनं जनं विनाशयथ, तस्माद्यद्यपि द्रव्यमपहरथ तथापि प्राणांस्तावत्सर्वस्यापि लोकस्य रक्षतेति ।। तथा कालविहीनं-काललक्षणद्रव्यरहितं पूर्वोक्तं द्रव्यषट्कमेवास्तिकायाः-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायपुद्गलास्तिकायजीवास्तिकायलक्षणाः प्रागुक्तस्वरूपाः पञ्चास्तिकाया इत्यर्थः, अथ यथा धर्मास्तिकाय इत्युक्तं तथा कालास्तिकाय इति कस्मानोच्यते ? इति चेत्, नैवं, प्रदेशबहुत्व एवास्तिकायत्वोपपत्तेः, अत्र च तन्नास्ति, अतीतानागतसमया(ग्रन्थाग्रं१२०००)नां विनष्टानुत्पन्नत्वेन प्रज्ञापकप्ररूपणाकाले वर्तमानसमयरूपस्यैकस्यैव कालप्रदेशस्य सद्भावादिति, यद्येवमावलिकामुहूर्तदिवसादिप्ररूपणाया अप्यभावप्रसङ्गः प्राप्नोति, आवलिकादीनामप्यसङ्ख्येयसमयाद्यात्मकत्वेन प्रदेशबहुत्व एवोपपत्तेः, सत्यमेतत् , केवलं स्थिरस्थूलकायत्रयवर्तिवस्त्वभ्युपगमपरव्यवहारनयमतमवलम्ब्याऽऽवलिकादिकालप्ररूपणा, निश्चयनयमतेन तु तदभाव एवेति न कालेऽस्तिकायता ॥ ९७६ ॥ पञ्च ब्रतान्याह-'पाणिवहे'त्यादि, व्रतं-शास्त्रविहितो नियमः तस्य च प्रत्येकमभिसम्बन्धात्प्राणिवधव्रतमृषावादब्रतादत्तादानव्रतमैथुनव्रतपरिग्रहवतैरिह-जिनसिद्धान्ते पञ्च व्रतानि भणितानि। इतः पञ्च समिती: 'साहेमि'त्ति कथयामि, ॥९७७॥ ता एवाह-'इरियेत्यादि पूर्वार्ध, ईर्यासमिति षासमितिरेषणासमितिम्रहणसमितिः आदाननिक्षेपसमितिरित्यर्थः परिष्ठापनासमितिश्चेत्येताः पञ्च समितयः । प्रतसमितिस्वरूपं च षषष्टे सप्तषष्टे च द्वारे विस्तरेणोक्तमिति । अथ पञ्च गतीराह-पंचे'त्यादि उत्तरार्ध, नारकगतितिर्यग्गतिनरगतिसुरगतिसिद्धगतिनामिकाः पञ्च गतयः, तत्र गम्यते-प्राप्यते स्वकर्मरज्जूसमाकृष्टैर्जन्तुभिरिति गतिः नारकाणां गति रकगतिः, तिरश्चां-एकेन्द्रियादीनां गतिस्तिर्यग्गतिः, नराणां-मनुष्याणां गतिर्नरगतिः, सुराणां-देवानां गतिः सुरगतिः, सिद्धगतिस्तु कर्मजन्या शास्त्रपरिभाषिता न भवति केवलं गम्यत इति गतिरिति व्युत्पत्तिसाम्यमात्रादिहोपातेति ॥ ९७८ ॥ अथ पञ्च ज्ञानानि चारित्राणि चाह-नाणाई' इत्यादि, मतिश्रुतावधिमनःपर्ययकेवललक्षणैर्भेदैः पञ्च ज्ञानानि, एतानि चाने व्याख्यास्यन्ते, तथा चर्यते-ाम्यते 194

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310