________________
क्तत्वेन शरीरविरहितत्वान्न विद्यते इन्द्रियं-स्पर्शनादि येषां ते अनिन्द्रियाः-सिद्धाः । तथा षट् कायाः पृथ्वीजलानलवायुवनस्पतित्रसभेदात्, पृथ्वीकायजलकायानलकायवायुकायवनस्पतिकायत्रसकायलक्षणाः षट् काया इत्यर्थः, तत्र पृथिवी-काठिन्यादिलक्षणा सैव कायः-शरीरं येषां ते पृथिवीकायाः जलं-पानीयं तदेव कायः-शरीरं येषां ते जलकायाः, अनलो-वह्निः स एव काय:-शरीरं येषां तेऽनलकायाः, वायुः-पवनः स एव काय:-शरीरं येषां ते वायुकायाः, वनस्पतिः-लतादिरूपः स एव काय:-शरीरं येषां ते वनस्पतिकायाः, सनशीलानसाः-चलनधर्माणः कायाः-शरीराणि येषां ते त्रसकायाः ॥९७५॥ अथ लेश्याषट्कमस्तिकायपञ्चकं चाह'छल्लेसे'त्यादि, लिश्यते-श्लिष्यते कर्मणा सह जीवो यकाभिस्ता लेश्या:-कृष्णनीलकापोततेजःपद्मशुक्लवर्णद्रव्यसाहाय्याजीवस्याशुभाः शुभाश्च परिणामविशेषाः, उक्तं च-'कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥' कृष्णादिद्रव्याणि च केचिद् 'योगपरिणामो लेश्या' इतिवचनाद्योगान्तर्गतद्रव्याण्याहुः, अन्ये तु 'सकलकर्मप्रकृतिनिःस्यन्दरूपाणि' अपरे पुनः 'कार्मणशरीरवत्पृथगेव कर्माष्टकात्कार्मणवर्गणानिष्पन्नानि कृष्णादिद्रव्याणी'ति प्रतिपादयन्ति, तत्त्वं तु तीर्थकृतो विदन्तीति, एताश्च परिणामविशेषात्मिका लेश्याः षड् भवन्ति, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या 'सिय'त्ति सितलेश्या शुक्कुलेश्येत्यर्थः, तत्र कृष्णद्रव्यात्मिका कृष्णद्रव्यजनिता वा लेश्या कृष्णलेश्येत्यर्थः, एवं नीललेश्येत्यादिपदेष्वपि भावनीयं, तासु चाद्यास्तिस्रोऽशुभाः अपरास्तु तिस्रः शुभाः, एतासां च विशेषतः स्वरूपनिरूपणार्थ जम्बूखादकषटपुरुषीदृष्टान्तो प्रामघातकदृष्टान्तश्चोच्यते, तथाहि केचित् कस्मिंश्चित्कानने क्षुत्क्षामकुक्षयः षट् पुरुषाः सुपरिपक्कसरसफलभरावनमितसकलशाखं कल्पशाखिसदृक्षमेकं जम्बूवृक्षमद्राक्षुः, ततः सर्वैरपि प्रमुदितैः प्रोक्तं-अहोऽवसरप्राप्तमस्य दर्शनं अपनयामो बुभुक्षा भक्ष्यामः खेच्छयाऽतुच्छान्यस्य स्वादुफलानीत्यैकमत्ये सति तन्मध्ये क्लिष्टपरिणामेनैकेनोक्तं-युक्तमिदं केवलमस्मिन्ननोकहे दुरारोहे समारोहतां जीवितव्यस्यापि संशयः, तस्मात्तीक्ष्णधारैः कुठारैरमुं मूलत एव कर्तयित्वा तिर्यक्प्रपात्य सुखेनैव सकलानि फलान्यभ्यवहरामः, एप एवंजातीयः कृष्णलेश्यापरिणाम:, द्वितीयेन तु किञ्चित्सशूकेनोक्तं-किमस्माकमेतेनातिमहता पादपेन छिन्नेन ?, महीयसीमस्य शाखामेवैकां कर्तयित्वा फलान्याखादयामः, एवंप्रकारो नीललेश्यापरिणामः, तृतीयः पुनः प्राह-किमेतया महाशाखया छिन्नया?, तदेकदेशभूताः प्रशाखा एव कर्तयामः, इत्येवंविधः कापोतलेश्यापरिणामः, चतुर्थश्चोवाच-किमामिरपि वराकीमिः कर्तितामिः ?, तत्पर्यन्तवर्तिनः कांश्चिद्गुच्छानेव छिंदः, एष तैजसलेश्यापरिणामः, पञ्चमः पुनः प्रोवाच-गुच्छैरपि किं नश्छिन्नैः ?, तन्मध्यात्सुपकानि भक्षणोचितानि कानिचित्कलान्येव गृहीम इत्यसौ पद्मलेश्यापरिणामः, षष्ठस्तु बभाषे-किं तैरपि त्रोटितैः ?, यावत्प्रमाणैः प्रयोजनमस्माकं तावत्प्रमाणानि फलान्यधस्तादपि पतितान्यस्य विटपिनः प्राप्यन्ते, तद्वयममीभिरेव प्राणवृत्तिं विदध्मः किमुन्मूलनादिनाऽस्य शाखिनः खेदेन ? इत्ययं शुक्ललेश्यापरिणाम इति ॥ प्रामघातकदृष्टान्तस्तु कस्मिंश्चिद् प्रामे धनधान्यादिलुब्धैः षड्विस्तस्करस्वामिमिर्मिलित्वा धाटी प्रक्षिप्ता, तत्रैकेनोक्तं यत्किमपि द्विपदचतुष्पदपुरुषस्त्रीबालवृद्धादिकं पश्यथ तत्सर्व मारयत ?, इत्येवंजातीयः कृष्णलेश्यापरिणामः, द्वितीयस्तु नीललेश्यापरिणामवर्ती बभाषे-मानुषाण्येव मारयत किं तिर्यग्भिरिति, तृतीयः पुनः कापोतलेश्यायुक्तो जगाद-पुरुषानेव व्यापादयत ?, किं स्त्रीमिरिति, चतुर्थस्तु तैजसलेश्यापरिणामान्वितः प्राह-पुरुषेष्वपि सप्रहरणानेव निशुम्भत, किं निष्प्रहरणैरपि ?, पञ्चमः पुनः पद्मलेश्यापरिणामसम्पन्नः प्रोवाच-सायुधेष्वपि युध्यमानानेव विनाशयत किमन्यैर्निरपराधैरिति, षष्ठस्तु शुक्ललेश्यापरिणामपरिगतः प्रतिपादयति स्म-अहो महदसमजसं यदेकं तावद् द्रव्यमपहरथ अपरं च वराकमेनं जनं विनाशयथ, तस्माद्यद्यपि द्रव्यमपहरथ तथापि प्राणांस्तावत्सर्वस्यापि लोकस्य रक्षतेति ।। तथा कालविहीनं-काललक्षणद्रव्यरहितं पूर्वोक्तं द्रव्यषट्कमेवास्तिकायाः-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायपुद्गलास्तिकायजीवास्तिकायलक्षणाः प्रागुक्तस्वरूपाः पञ्चास्तिकाया इत्यर्थः, अथ यथा धर्मास्तिकाय इत्युक्तं तथा कालास्तिकाय इति कस्मानोच्यते ? इति चेत्, नैवं, प्रदेशबहुत्व एवास्तिकायत्वोपपत्तेः, अत्र च तन्नास्ति, अतीतानागतसमया(ग्रन्थाग्रं१२०००)नां विनष्टानुत्पन्नत्वेन प्रज्ञापकप्ररूपणाकाले वर्तमानसमयरूपस्यैकस्यैव कालप्रदेशस्य सद्भावादिति, यद्येवमावलिकामुहूर्तदिवसादिप्ररूपणाया अप्यभावप्रसङ्गः प्राप्नोति, आवलिकादीनामप्यसङ्ख्येयसमयाद्यात्मकत्वेन प्रदेशबहुत्व एवोपपत्तेः, सत्यमेतत् , केवलं स्थिरस्थूलकायत्रयवर्तिवस्त्वभ्युपगमपरव्यवहारनयमतमवलम्ब्याऽऽवलिकादिकालप्ररूपणा, निश्चयनयमतेन तु तदभाव एवेति न कालेऽस्तिकायता ॥ ९७६ ॥ पञ्च ब्रतान्याह-'पाणिवहे'त्यादि, व्रतं-शास्त्रविहितो नियमः तस्य च प्रत्येकमभिसम्बन्धात्प्राणिवधव्रतमृषावादब्रतादत्तादानव्रतमैथुनव्रतपरिग्रहवतैरिह-जिनसिद्धान्ते पञ्च व्रतानि भणितानि। इतः पञ्च समिती: 'साहेमि'त्ति कथयामि, ॥९७७॥ ता एवाह-'इरियेत्यादि पूर्वार्ध, ईर्यासमिति षासमितिरेषणासमितिम्रहणसमितिः आदाननिक्षेपसमितिरित्यर्थः परिष्ठापनासमितिश्चेत्येताः पञ्च समितयः । प्रतसमितिस्वरूपं च षषष्टे सप्तषष्टे च द्वारे विस्तरेणोक्तमिति । अथ पञ्च गतीराह-पंचे'त्यादि उत्तरार्ध, नारकगतितिर्यग्गतिनरगतिसुरगतिसिद्धगतिनामिकाः पञ्च गतयः, तत्र गम्यते-प्राप्यते स्वकर्मरज्जूसमाकृष्टैर्जन्तुभिरिति गतिः नारकाणां गति रकगतिः, तिरश्चां-एकेन्द्रियादीनां गतिस्तिर्यग्गतिः, नराणां-मनुष्याणां गतिर्नरगतिः, सुराणां-देवानां गतिः सुरगतिः, सिद्धगतिस्तु कर्मजन्या शास्त्रपरिभाषिता न भवति केवलं गम्यत इति गतिरिति व्युत्पत्तिसाम्यमात्रादिहोपातेति ॥ ९७८ ॥ अथ पञ्च ज्ञानानि चारित्राणि चाह-नाणाई' इत्यादि, मतिश्रुतावधिमनःपर्ययकेवललक्षणैर्भेदैः पञ्च ज्ञानानि, एतानि चाने व्याख्यास्यन्ते, तथा चर्यते-ाम्यते
194