________________
दयः षट् कायाः-पृथिवीकायादयः, षट् च लेश्या:-कृष्णादयः, अपरे च पञ्चास्तिकाया-धर्मास्तिकायादयः, तथा पञ्चशब्दस्य प्रत्येक.. मत्रापि योजनात्पञ्च व्रतभेदाः-प्राणिवधविरमणादयः, पञ्च समितिभेदा-ईर्यासमित्यादयः, पञ्च गतिभेदा-नरकगत्यादयः, पञ्च ज्ञानभेदाः-मतिज्ञानादयः, पञ्च चारित्रभेदाः-सामायिकादयः, इत्येते पूर्वोक्ताः सर्वेऽपि पदार्थास्त्रिभुवनमहितैः-त्रिलोकार्चितैरहद्भिः-तीर्थ करैरीशैः-स्वाभाविककर्मक्षयजन्यसुरविरचितचतुस्त्रिंशदतिशयस्वरूपपरमैश्वर्योपशोभितैर्मोक्षमूलं-निर्वाणकारणं प्रोक्तं-उपदिष्टं, अतो यः पुमान् मतिमान्-प्रवेकविवेककलित एतान् प्रत्येति-स्वरूपतोऽवगच्छति श्रद्दधाति-इदमेव तत्त्वमित्यात्मनो रोचयति स्पृशति च-यथा. यथं सम्यगासेवते स वै स्फुटं 'शुद्धदृष्टिः' शुद्धा-मिथ्यात्वमलानाविला दृष्टिः-सम्यक्त्वं यस्य स शुद्धदृष्टिरिति ॥ ९७१ ॥ अथैनं वृत्तं व्याचिख्यासुः कालत्रिकं प्रतिपादयन्नाह–'एये'त्यादि, एतस्य-पूर्वोक्तस्य त्रैकाल्यमित्यादेः स्रग्धरावृत्तस्येदं-वक्ष्यमाणं विवरणंव्याख्यानं विज्ञेयमिति शेषः, तत्र त्रैकाल्यमतीतवर्तमानाभ्यां भविष्यद्युक्ताभ्यां भवति, अतीतवर्तमानभविष्यल्लक्षणास्त्रयः काला इत्यर्थः, तत्रातिशयेन इतो-तोऽतीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, वर्तत इति वर्तमानः-साम्प्रतमुत्पन्नः सर्वसूक्ष्मनिरंशसमयमात्रमान इति भावः, भविष्यतीति भविष्यन्-वर्तमानत्वं न प्राप्तोऽनागत इति हृदयं, द्रव्यषट्कं पुनरिद-वक्ष्यमाणं ॥ ९७२ ॥ तदेवाह-'धम्मे'त्यादि, धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायकालपुद्गलास्तिकायजीवास्तिकायस्वरूपाणि षड़ द्रव्याणि, तत्र जीवानां पुद्गलानां च स्वत एव गतिक्रियापरिणतानां तत्स्वभावधरणात्-तत्वभावपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां काय:-सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, सकललोकव्यापी असंख्येयप्रदेशात्मकोऽमूों द्रव्यविशेष इत्यर्थः । जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावेऽधरणादधर्मः स चासावस्तिकायश्चाधर्माखिकायः, किमुक्तं भवति-जीवपुलानां स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भकोऽमूर्तो लोकव्यापी असंख्येयप्रदेशात्मकोऽधर्मास्तिकायः, लोकमात्रत्वं चानयोरेतदवष्टम्भकाकाशदेशस्यैव लोकत्वात् , अलोकव्यापित्वे त्वनयोर्जीवपुद्गलानामपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकत्वप्राप्तेरिति । तथा आङिति मर्यादया तत्संयोगेऽपि स्वकीयस्वकीयखरूपेऽवस्थानतः सर्वथा तत्स्वरूपाप्राप्तिलक्षणया काशन्ते-खभावलाभेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशं यदा त्वमिविधावाङ् तदाऽऽङिति सर्वभावाभिव्याप्त्या काशते-प्रतिभासते इत्याकाशं तच्च तदस्तिकायश्चाकाशास्तिकायो, लोकालोकव्यापी अनन्तप्रदेशात्मको द्रव्यविशेष इत्यर्थः। तथा कलनं-समस्तवस्तुस्तोमस्य सङ्ख्यानमिति कालः, अथवा कलयन्ति-समयोऽस्यानेन रूपेणोत्पन्नस्यावलिका मुहूर्तादि वा इत्यादिप्रकारेण सर्वमपि सचेतनाचेतनं वस्त्ववगच्छन्ति केवल्यादयोऽनेनेति काल:-समयावलिकारूपो द्रव्यविशेषः। तथा पूरणगलनधर्माणः पुद्गलाः-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, एते हि कुतश्चिद् द्रव्याद्गलन्ति-वियुज्यन्ते किञ्चित्तु द्रव्यं स्वसंयोगतः पूरयन्ति-पुष्टं कुर्वन्ति, पुद्गलाश्च तेऽस्तिकायश्च पुद्गलास्तिकायः। तथा जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवास्ते च तेऽस्तिकायश्च जीवास्तिकायः, प्रत्येकमसङ्ख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः, अत्र च जीवपुद्गलानां गत्यन्यथानुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथानुपपत्तेरधर्मास्तिकायस्य जीवादिपदार्थानामाधारान्यथानुपपत्तेराकाशास्तिकायस्य बकुलाशोकचम्पकादिपुष्पफलप्रदाननैयत्यान्यथाऽनुपपत्तेः कालस्य घटादिकार्यान्यथानुपपत्तेः पुद्गलास्तिकायस्य प्रतिप्राणि स्वसंवेदनसिद्धचैतन्यान्यथानुपपत्तेश्च जीवास्तिकायस्य सत्त्वं समवसेयमिति ॥९७३॥ अथ नव पदान्याह-'जीवे'त्यादि, जीवाः-सुखदुःखोपयोगलक्षणाः अजीवाः-तद्विपरीता धर्मास्तिकायादयः पुण्यं-शुभप्रकृतिरूपं कर्म पाप-तद्विपरीतं कर्मैव आश्रवति-आगच्छति कर्मानेनेत्याश्रवः शुभाशुभकर्मोपादानहेतुः हिंसादिः संवरणं संवरो-गुप्त्यादिभिराश्रवनिरोधः निर्जरणं निर्जरा-विपाकात्तपसो वा कर्मणां देशतः क्षपणं बन्धोजीवकर्मणोरत्यन्तसंश्लेषः मोक्षः-कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं, इत्येतानि नवसङ्ख्यानि पदानि-तत्त्वानि जिनमते-अर्हत्प्रवचने विज्ञेयानीति, इह च आश्रवबन्धपुण्यपापानि मुख्य संसारकारणमिति हेयानि, संवरनिर्जरे मुख्यं मोक्षकारणं, मोक्षस्तु मुख्यं साध्यमित्येतानि त्रीण्यप्युपादेयानीत्येवं शिष्यस्य हेयोपादेयतापरिज्ञानार्थ मध्यमप्रस्थानापेक्षया नवेत्युक्तं, अन्यथा सङ्केपापेक्षया जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसंभवाद् द्वित्वसङ्ख्ययैवाभिधेयं स्यात् , तथा चोक्तं स्थानाङ्गे-'जदथि च णं लोए तं सव्वं दुपडोयारं, तंजहा-जीवा चेव अजीवा चेव'त्ति, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽऽनन्त्यमेव स्यात् , अथ कथं जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसम्भव इति चेदुच्यते-पुण्यपापे कर्मणी बन्धोऽपि तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिध्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं पुद्गलांश्च मुक्त्वा कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽपि सकलकर्मविरहित आत्मैवेति, अन्यत्र पुनः पुण्यपापयोर्बन्धेऽन्तर्भावात् सप्तैव तत्त्वान्युक्तानि ।। ९७४ ॥ अथ जीवषटकायषट्के प्राह-'इगे'त्यादि, इन्द्रियशब्दस्य प्रत्येकममिसम्बन्धादेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियस्वरूपं जीवषटकं, तत्र एक-स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः-पृथिव्यम्बुतेजोवायुवनस्पतयः द्वे स्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः-शङ्कशुक्तिकाचन्दनककपर्दकजलूकाकृमिगण्डोलकपूतरकादयः त्रीणि स्पर्शनरसनघ्राणलक्षणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः-यूकामत्कुणगर्दभकेन्द्रगोपककुन्थुमकोटपिपीलिकोपदेहिकाकार्पासास्थित्रपुसबीजकतुम्बरकादयः चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः-भ्रमरमक्षिकादंशमशकवृश्चिककीटपतङ्गादयः पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रिया:-करिमकरमयूरमनुजादयः निखिलकर्मेनिमें
193