SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ प्राप्यते भवोदधेः परकूलमेभिरिति चरणानि-चारित्राणि, तानि च पञ्च सामायिकं पदैकदेशेऽपि पदसमुदायोपचारात् छेदोपस्थापनिक परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं चेति, तत्र समो-रागद्वेषरहितत्वाद् अयो-गमनं समायः, एष चान्यासामपि साधुक्रियाणामुपलक्षणं, सर्वासामपि साधुक्रियाणां रागद्वेषरहितत्वात् , समायेन निवृत्तं समाये वा भवं सामायिकं, यद्वा समानां-ज्ञानदर्शनचारित्राणामायो-लाभः समायः समाय एव सामायिक, विनयादेराकृतिगणतया स्वार्थे इकण्, तच सर्वसावद्यविरतिरूपं, यद्यपि च सर्वमपि चारित्रमविशेषतः सामायिकं तथापि छेदादिविशेषैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, प्रथमं पुनरविशेषणात्सामान्यशब्द एवावतिष्ठते सामायिकमिति, तच्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालभावि इत्वरं, इदं च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितमहाव्रतस्य शैक्षस्य विज्ञेयं, अत्र जन्मनि यावज्जीवितकथाऽस्त्यात्मनस्तावत्कालभावि यावत्कथं तदेव यावत्कथिकं आभववर्तीत्यर्थः, एतच्च भरतैरावतभाविमध्यमद्वाविंशतितीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च मुनीनामवसेयं, तेषामुपस्थापनाया अभावात् , ननु चेत्वरमपि सामायिक करोमि भदंत ! सामायिकं यावज्जीवं' इत्येवं व्रतग्रहणकाले यावदायुरागृहीतं तत उपस्थापनाकाले तत्परित्यजतः कथं न प्रतिज्ञाभङ्गः?, उच्यते, ननु प्रागेवोक्तं सर्वमेवेदं चारित्रमविशेषतः सामायिकं, सर्वत्रापि सावधयोगविरतिसद्धा. वात् , केवलं छेदादिविशुद्धिविशेषैविशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, ततो यथा यावत्कथिक सामायिकं छेदोपस्थापनं वा परमविशुद्धिविशेषरूपसूक्ष्मसम्परायादिचारित्रावाप्तौ न भङ्गमङ्गीकरोति तथा इत्वरमपि सामायिकं विशुद्धिरूपच्छेदोपस्थापनावाप्तौ, यदि हि प्रव्रज्या परित्यज्यते तर्हि तद्भङ्ग आपद्यते न तु तस्यैव विशुद्धिविशेषावाप्ताविति, तथा छेदः पूर्वपर्यायस्य उपस्थापना च महाव्रतेषु यस्मिन् चारित्रे तच्छेदोपस्थापनं तदेव छेदोपस्थापनिकं तदेव वा विद्यते यत्र तच्छेदोपस्थापनिकं, तच द्विधा-सातिचारं निरति. चारं च, तत्र निरतिचारं यदित्वरसामायिकवतः शैक्षस्यारोप्यते, तीर्थान्तरसक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रामतः पचयामधर्मप्रतिपत्तौ, सातिचारं यन्मूलगुणघातिनः पुनर्वतारोपणं, तथा परिहरणं परिहार:-तपोविशेषस्तेन विशुद्धिः-कर्मनिर्जरारूपा यस्मिन् चारित्रे तत्परिहारविशुद्धिकं, तच द्विधा-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानका-विवक्षितचारित्रासेवकाः निर्विष्टकायिका-आसेवितविवक्षितचारित्रकाः तव्यतिरेकाचारित्रमप्येवमुच्यते, इह नवको गणश्चत्वारो निर्विशमानकाश्चत्वारश्चानुचारिणः एकः कल्पस्थितो वाचनाचार्यः, एतत्स्वरूपं च सविस्तरमेकोनसप्ततिद्वारे प्रत्यपादि, तथा सम्पर्येवि-पर्यटति संसारमनेनेति सम्पराय:-कषायोदयः सूक्ष्मो-लोभांशावशेषः सम्परायो यत्र तत् सूक्ष्मसम्परायं, तच्च द्विधा-विशुध्यमानकं संलिश्यमानकं च, तत्र विशुद्ध्यमानकं आपकश्रेणिमुपशमश्रेणिं वा समारोहतः, सचिश्यमानं तूपशमश्रेणितः प्रच्यवमानस्य, तथा अथशब्दो-याथातथ्याथै आइ अभिविधौ, यथातथ्येन अभिविधिना वा यत् ख्यातं-कथितं अकषायचारित्रमिति तत् अथाख्यातं, यथाख्यातमिति द्वितीयं नाम, तस्यायमन्वर्थः-यथा सर्वस्मिन् जीवलोके ख्यातं-प्रसिद्धमकषायं भवति चारित्रमिति तथैव यत्तत् यथाख्यातं, इदं च द्विधा-छाग्रस्थिकं कैवलिकं च, तत्र छानस्थिकमुपशान्तमोगुणस्थानके क्षीणमोहगुणस्थानके वा, कैवलिकं सयोगिकेवलिभवमयोगिकेवलिभवं चेति १५२॥९७९॥ इदानीं 'सडपडिमाओ'त्ति त्रिपञ्चाशदधिकशततमं द्वारमाह दसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सचित्ते ७। आरंभ ८ पेस ९ उदिह १० वजए समणभूए ११ य ॥९८० ॥ जस्संखा जा पडिमा तस्संखा तीऍ हुँति मासावि । कीरंतीमुवि कब्जाउ तासु पुबुत्सकिरिया उ॥९८१॥ पसमाइगुणविसिहं कुग्गहसंकाइसल्लपरिहीणं । सम्मदसणमणहं ईसणपडिमा हवइ पढमा १॥९८२॥ बीयाणुषयधारी २ सामाइकडो य होइ तइयाए ३ । होइ चउत्थी चउद्दसीअहमिमाईसु दिवसेसु ॥९८३ ॥ पोसह चउविहंपि य पडिपुण्णं सम्म सो उ अणुपाले । बंधाई अइयारे पयत्तओ ववईमासु ॥९८४ ॥ सम्ममणुषयगुपवयसिक्खावयवं थिरो य नाणी य। अहमीचउद्दसीसुं पडिमं ठाएगराईयं ॥९८५ ॥ असिणाण वियडभोई मउलियडो दिवसबंभयारी य । रति परिमाणकडो पडिमावजेसु दिवसेसुं ॥९८६ ॥ झायइ पडिमाऍ ठिओ तिलोयपुज्जे जिणे जियकसाए । नियदोसपञ्चणीयं अन्नं वा पंच जा मासा ॥ ९८७ ॥ सिंगारकहविभूसुक्करिसं इत्थीकहं च वजितो । वजह अवंभमेगंतओ य छट्ठाइ छम्मासे ॥९८८ ॥ सत्तमि सत्त उ मासे नवि आहारइ सचित्तमाहारं । जं जं हेहिल्लाणं तं तं चरिमाण सबंपि ॥ ९८९ ॥ आरंभसयंकरणं अट्ठमिया अह मास वजेइ । नवमा नव मासे पुण पेसारंभेऽवि वजेइ ॥ ९९०॥ दसमा दस मासे पुण उद्दिढकयंपि भत्त नवि मुंजे । सो होइ उ छुरमुंडो सिहलिं वा धारए कोई ॥९९१ ॥ जं निहियमत्थजायं पुच्छंत सुयाण न. वरि सो तत्थ । जइ जाणइ तो साहइ अह नवि तो बेइ नवि याणे ॥ ९९२ ॥ खुरमुंडो लोएण व रयहरणं पडिग्गहं च गिणिहत्ता । समणो हूओ विहरह मासा एकारसुक्कोसं ॥ ९९३ ॥ ममकारेऽवोच्छिन्ने वच्चइ सन्नायपल्लि दटुं जे । तत्थवि साहुव जहा गिण्हइ फासुं तु आहारं ॥९९४॥ 195
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy