Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 202
________________ दयः षट् कायाः-पृथिवीकायादयः, षट् च लेश्या:-कृष्णादयः, अपरे च पञ्चास्तिकाया-धर्मास्तिकायादयः, तथा पञ्चशब्दस्य प्रत्येक.. मत्रापि योजनात्पञ्च व्रतभेदाः-प्राणिवधविरमणादयः, पञ्च समितिभेदा-ईर्यासमित्यादयः, पञ्च गतिभेदा-नरकगत्यादयः, पञ्च ज्ञानभेदाः-मतिज्ञानादयः, पञ्च चारित्रभेदाः-सामायिकादयः, इत्येते पूर्वोक्ताः सर्वेऽपि पदार्थास्त्रिभुवनमहितैः-त्रिलोकार्चितैरहद्भिः-तीर्थ करैरीशैः-स्वाभाविककर्मक्षयजन्यसुरविरचितचतुस्त्रिंशदतिशयस्वरूपपरमैश्वर्योपशोभितैर्मोक्षमूलं-निर्वाणकारणं प्रोक्तं-उपदिष्टं, अतो यः पुमान् मतिमान्-प्रवेकविवेककलित एतान् प्रत्येति-स्वरूपतोऽवगच्छति श्रद्दधाति-इदमेव तत्त्वमित्यात्मनो रोचयति स्पृशति च-यथा. यथं सम्यगासेवते स वै स्फुटं 'शुद्धदृष्टिः' शुद्धा-मिथ्यात्वमलानाविला दृष्टिः-सम्यक्त्वं यस्य स शुद्धदृष्टिरिति ॥ ९७१ ॥ अथैनं वृत्तं व्याचिख्यासुः कालत्रिकं प्रतिपादयन्नाह–'एये'त्यादि, एतस्य-पूर्वोक्तस्य त्रैकाल्यमित्यादेः स्रग्धरावृत्तस्येदं-वक्ष्यमाणं विवरणंव्याख्यानं विज्ञेयमिति शेषः, तत्र त्रैकाल्यमतीतवर्तमानाभ्यां भविष्यद्युक्ताभ्यां भवति, अतीतवर्तमानभविष्यल्लक्षणास्त्रयः काला इत्यर्थः, तत्रातिशयेन इतो-तोऽतीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, वर्तत इति वर्तमानः-साम्प्रतमुत्पन्नः सर्वसूक्ष्मनिरंशसमयमात्रमान इति भावः, भविष्यतीति भविष्यन्-वर्तमानत्वं न प्राप्तोऽनागत इति हृदयं, द्रव्यषट्कं पुनरिद-वक्ष्यमाणं ॥ ९७२ ॥ तदेवाह-'धम्मे'त्यादि, धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायकालपुद्गलास्तिकायजीवास्तिकायस्वरूपाणि षड़ द्रव्याणि, तत्र जीवानां पुद्गलानां च स्वत एव गतिक्रियापरिणतानां तत्स्वभावधरणात्-तत्वभावपोषणाद्धर्मः अस्तयश्चेह प्रदेशास्तेषां काय:-सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः, सकललोकव्यापी असंख्येयप्रदेशात्मकोऽमूों द्रव्यविशेष इत्यर्थः । जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्स्वभावेऽधरणादधर्मः स चासावस्तिकायश्चाधर्माखिकायः, किमुक्तं भवति-जीवपुलानां स्थितिपरिणामपरिणतानां तत्परिणामोपष्टम्भकोऽमूर्तो लोकव्यापी असंख्येयप्रदेशात्मकोऽधर्मास्तिकायः, लोकमात्रत्वं चानयोरेतदवष्टम्भकाकाशदेशस्यैव लोकत्वात् , अलोकव्यापित्वे त्वनयोर्जीवपुद्गलानामपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकत्वप्राप्तेरिति । तथा आङिति मर्यादया तत्संयोगेऽपि स्वकीयस्वकीयखरूपेऽवस्थानतः सर्वथा तत्स्वरूपाप्राप्तिलक्षणया काशन्ते-खभावलाभेनावस्थितिकरणेन च दीप्यन्ते पदार्थसार्था यत्र तदाकाशं यदा त्वमिविधावाङ् तदाऽऽङिति सर्वभावाभिव्याप्त्या काशते-प्रतिभासते इत्याकाशं तच्च तदस्तिकायश्चाकाशास्तिकायो, लोकालोकव्यापी अनन्तप्रदेशात्मको द्रव्यविशेष इत्यर्थः। तथा कलनं-समस्तवस्तुस्तोमस्य सङ्ख्यानमिति कालः, अथवा कलयन्ति-समयोऽस्यानेन रूपेणोत्पन्नस्यावलिका मुहूर्तादि वा इत्यादिप्रकारेण सर्वमपि सचेतनाचेतनं वस्त्ववगच्छन्ति केवल्यादयोऽनेनेति काल:-समयावलिकारूपो द्रव्यविशेषः। तथा पूरणगलनधर्माणः पुद्गलाः-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, एते हि कुतश्चिद् द्रव्याद्गलन्ति-वियुज्यन्ते किञ्चित्तु द्रव्यं स्वसंयोगतः पूरयन्ति-पुष्टं कुर्वन्ति, पुद्गलाश्च तेऽस्तिकायश्च पुद्गलास्तिकायः। तथा जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवास्ते च तेऽस्तिकायश्च जीवास्तिकायः, प्रत्येकमसङ्ख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः, अत्र च जीवपुद्गलानां गत्यन्यथानुपपत्तेधर्मास्तिकायस्य तेषामेव स्थित्यन्यथानुपपत्तेरधर्मास्तिकायस्य जीवादिपदार्थानामाधारान्यथानुपपत्तेराकाशास्तिकायस्य बकुलाशोकचम्पकादिपुष्पफलप्रदाननैयत्यान्यथाऽनुपपत्तेः कालस्य घटादिकार्यान्यथानुपपत्तेः पुद्गलास्तिकायस्य प्रतिप्राणि स्वसंवेदनसिद्धचैतन्यान्यथानुपपत्तेश्च जीवास्तिकायस्य सत्त्वं समवसेयमिति ॥९७३॥ अथ नव पदान्याह-'जीवे'त्यादि, जीवाः-सुखदुःखोपयोगलक्षणाः अजीवाः-तद्विपरीता धर्मास्तिकायादयः पुण्यं-शुभप्रकृतिरूपं कर्म पाप-तद्विपरीतं कर्मैव आश्रवति-आगच्छति कर्मानेनेत्याश्रवः शुभाशुभकर्मोपादानहेतुः हिंसादिः संवरणं संवरो-गुप्त्यादिभिराश्रवनिरोधः निर्जरणं निर्जरा-विपाकात्तपसो वा कर्मणां देशतः क्षपणं बन्धोजीवकर्मणोरत्यन्तसंश्लेषः मोक्षः-कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं, इत्येतानि नवसङ्ख्यानि पदानि-तत्त्वानि जिनमते-अर्हत्प्रवचने विज्ञेयानीति, इह च आश्रवबन्धपुण्यपापानि मुख्य संसारकारणमिति हेयानि, संवरनिर्जरे मुख्यं मोक्षकारणं, मोक्षस्तु मुख्यं साध्यमित्येतानि त्रीण्यप्युपादेयानीत्येवं शिष्यस्य हेयोपादेयतापरिज्ञानार्थ मध्यमप्रस्थानापेक्षया नवेत्युक्तं, अन्यथा सङ्केपापेक्षया जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसंभवाद् द्वित्वसङ्ख्ययैवाभिधेयं स्यात् , तथा चोक्तं स्थानाङ्गे-'जदथि च णं लोए तं सव्वं दुपडोयारं, तंजहा-जीवा चेव अजीवा चेव'त्ति, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽऽनन्त्यमेव स्यात् , अथ कथं जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसम्भव इति चेदुच्यते-पुण्यपापे कर्मणी बन्धोऽपि तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु मिध्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं पुद्गलांश्च मुक्त्वा कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽपि सकलकर्मविरहित आत्मैवेति, अन्यत्र पुनः पुण्यपापयोर्बन्धेऽन्तर्भावात् सप्तैव तत्त्वान्युक्तानि ।। ९७४ ॥ अथ जीवषटकायषट्के प्राह-'इगे'त्यादि, इन्द्रियशब्दस्य प्रत्येकममिसम्बन्धादेकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियानिन्द्रियस्वरूपं जीवषटकं, तत्र एक-स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः-पृथिव्यम्बुतेजोवायुवनस्पतयः द्वे स्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः-शङ्कशुक्तिकाचन्दनककपर्दकजलूकाकृमिगण्डोलकपूतरकादयः त्रीणि स्पर्शनरसनघ्राणलक्षणानि इन्द्रियाणि येषां ते त्रीन्द्रियाः-यूकामत्कुणगर्दभकेन्द्रगोपककुन्थुमकोटपिपीलिकोपदेहिकाकार्पासास्थित्रपुसबीजकतुम्बरकादयः चत्वारि स्पर्शनरसनघ्राणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः-भ्रमरमक्षिकादंशमशकवृश्चिककीटपतङ्गादयः पञ्च स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि इन्द्रियाणि येषां ते पञ्चेन्द्रिया:-करिमकरमयूरमनुजादयः निखिलकर्मेनिमें 193

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310