Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 200
________________ मिकं सम्यक्त्वमेषां न लभ्यते इति कार्मग्रन्थिकाः, सैद्धान्तिकास्तु मन्यन्ते-क्षायोपशमिकसम्यक्त्वसंयुक्ता अपि बद्धायुष्का अमी केचिदेतेषूत्पद्यन्ते इति पारभविकमपि क्षायोपशमिकं सम्यक्त्वममीषां लभ्यते, असाहयेयवर्षायुष्कतिरश्वां पुनस्त्रीण्यपि सम्यक्त्वान्यसहयेयवर्षायुष्कमनुष्यवद्वाच्यानि, शेषाणामाद्यपृथिवीत्रयव्यतिरिक्तानां नारकाणां पङ्कप्रभाद्यधस्तनपृथिवीचतुष्टयनारकाणामित्यर्थः 'तिरियत्थीणं च'त्ति असङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिरश्चां तत् स्त्रीणां च, तथा त्रिविधदेवानां-भवनपतिव्यन्तरज्योतिष्कलक्षणानां नास्त्येव क्षायिकं सम्यक्त्वं, क्षायिकं हि सम्यक्त्वमेतेषु ताद्भविकं तावन्न भवति, सङ्ख्येयवर्षायुष्कमनुष्यस्यैव क्षायिकसम्यक्त्वारम्भकत्वात् , पारभविकमपि न भवति क्षायिकसम्यग्दृष्टेरेतेष्वनुत्पत्तेः, औपशमिकक्षायोपशमिके तु भवत इति, 'सम्म अन्नेसिं चेव जीवाणं'ति अन्येषां पुनर्जीवानां सम्यक्त्वमेव नास्ति चः पुनरर्थे, एवोऽवधारणे मिन्नक्रमः स च योजित एव, एतदुक्तं भवति-एकद्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां तद्भवं परभवं वा अपेक्ष्य प्रस्तुतसम्यक्त्वत्रयमध्य एकमपि न सम्भवति, सास्वादनसम्यक्त्वं पुनर्बादरपृथिव्यम्बुवनस्पतिद्वित्रिचतुरिन्द्रियाशिसंज्ञिपञ्चेन्द्रियेष्वपर्याप्तावस्थायां पारभविकं, पर्याप्तसंज्ञिपञ्चेन्द्रियेषु तु ताद्भविकमवाप्यते, सूक्ष्मैकेन्द्रियबादरतेजोवायुषु पुनः सम्यक्त्वलेशवतामप्युत्पादाभावात् सास्वादनं नास्तीत्येष कार्मप्रन्थिकामिप्रायः, सूत्राभिप्रायेण तु पृथिव्यायेकेन्द्रियाणां सास्वादनसम्यक्त्वं नास्ति, यदुक्तं प्रज्ञापनायां-"पुढविकाइयाणं पुच्छा, गोयमा! पुढविकाइया नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छदिट्ठी, एवं जाव वणप्फइकाइया" इति ॥ ९६१ ॥ ९६२ ॥ १४९॥ इदानीं 'कुलकोडीणं संखा जीवाणं'ति पञ्चाशदधिकशततमं द्वारमाह वारस सत्त य तिन्नि य सत्त य कुलकोडिसयसहस्साई । नेया पुढविदगागणिवाऊणं चेव परिसंखा ॥ ९६३ ॥ कुलकोडिसयसहस्सा सत्तट्ट य नव य अहवीसं च । बेइंदियतेइंदियचउरिदियहरियकायाणं ॥ ९६४ ॥ अद्धत्तेरस वारस दस दस नव चेव सयसहस्साइं । जलयरपक्खिचउप्पयउरभुयसप्पाण कुलसंखाः ॥ ९६५ ॥ छबीसा पणवीसा सुनेरइयाण सयसहस्साइं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥९६६॥ एगा कोडाकोडी सत्ताणउई भवे सयसहस्सा। पन्नास च सहस्सा कुलकोडीणं मुणयबा ॥९६७॥ । 'बारसे'त्यादिगाथापञ्चकम् , पृथिव्युदकाग्निवायूनामेव कुलान्याश्रित्य परिसङ्ख्या यथाक्रमं शेया, तद्यथा-द्वादश कुलकोटिशतसहस्राणिलक्षाः पृथिवीकायिकानां सप्त उदकजीवानां त्रीण्यमिकायिकानां वायूनां पुनः सप्तैव कुलकोटिशतसहस्राणि ॥९६३॥ 'कुले'त्यादि, अत्रापि यथासयेन योजना, द्वीन्द्रियाणां सप्त कुलकोटिशतसहस्राणि अष्टौ त्रीन्द्रियाणां नव चतुरिन्द्रियाणां अष्टाविंशतिहरितकायिकाना-समस्तवनस्पतिकायिकानाम् ॥९६४॥ 'अद्धे'त्यादि, अत्रापि यथाक्रमं पदघटना, तत्र जले चरन्ति-पर्यटन्तीति जलचरा:-मत्स्यमकरादयः तेषामर्धत्रयोदश कुलकोटिशतसहस्राणि, सार्धा द्वादश कुलकोटिलक्षा इत्यर्थः, पक्षिणां-केकिकाकादीनां द्वादश चतुष्पदानां-जगर्दभादीनां दश उर:परिसर्पाणां-भुजगादीनां दश भुजपरिसर्पाणां-गोधानकुलादीनां नव कुलकोटिलक्षाणि भवन्ति ॥९६५॥ 'छवीसे'त्यादि, सर्वेषां भवनपत्यादिसुराणां षड्विंशतिः कुलकोटिलक्षाणि नारकाणां तु पञ्चविंशतिः मनुष्याणां पुनर्वादश कुलकोटीनां शतसहस्राणि भवन्तीति ॥९६६॥ अथ पूर्वोक्तानामेव कुलानां सर्वसङ्ख्यामाह-'एगे'त्यादि, सर्वसङ्ख्यया एका कुलकोटीकोटिः सप्तनवतिः कुलकोटीनां शतसहस्राणि पञ्चाशच सहस्राः कुलकोटीनां ज्ञातव्याः ॥९६७॥ १५०॥ इदानीं 'जोणिलक्ख चुलसी'त्येकपञ्चाशदधिकशततमं द्वारमाह पुढविद्गअगणिमारुय एकके सत्त जोणिलक्खाओ । वणपत्तेयअणंते दस चउदस जोणिलक्खाओ॥९६८॥ विगलिदिएस दो दो चउरो चउरो य नारयसुरेसुं। तिरिएसुहोति चउरो चउदस लक्खा उ मणुएसु ॥ ९६९ ॥ समवन्नाइसमेया बहवोऽवि हु जोणिलक्खभेयाओ। सा मन्ना धिप्पंतिह एक्कगजोणीह गहणेणं ॥९७०॥ 'यु मिश्रणे इत्यस्य धातोर्युवन्ति-भवान्तरसक्रमणकाले तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्यस्यामिति औणादिके निप्रत्यये योनिः जीवानामुत्पत्तिस्थानमित्यर्थः, तत्र पृथिव्युदकाग्निमरुतां सम्बन्धिन्येकैकस्मिन् समूहे सप्त सप्त योनिलक्षा भवन्ति, तद्यथा-सप्त पृथिवीनिकाये सप्तोदकनिकाये सप्ताग्निनिकाये सप्त वायुनिकाये, वनस्पतिनिकायो द्विविधस्तद्यथा-प्रत्येकोऽनन्तकायश्च, तत्र प्रत्येकवनस्पतिनिकाये दश योनिलक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश लक्षाः, विकलेन्द्रियेषु-द्वीन्द्रियादिषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपेषु प्रत्येकं द्वे द्वे योनिलक्षे, तद्यथा-वे योनिलक्षे द्वीन्द्रियेषु द्वे त्रीन्द्रियेषु द्वे चतुरिन्द्रियेषु, तथा चतस्रो योनिलझा नारकाणां, चतस्रो देवानां, तथा तिर्यक्षु पञ्चेन्द्रियेषु चतस्रो योनिलक्षाः, चतुर्दश योनिलक्षा मनुष्येषु, सर्वसङ्ख्यायाश्च मीलने चतुरशीतिर्योनिलक्षा भवन्तीति । न च वक्तव्यमनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो जीवानां सामान्याधारभूतो लोकोऽप्यसङ्ख्येयप्रदेशात्मक एव, विशेषाधाररूपाण्यपि नरकनिष्कुटदेवशयनीयप्रत्येकसाधारणजन्तुशरीराण्यसोयान्येव, ततो जीवानामानन्येऽपि कथमुत्पत्तिस्थानानामानन्त्यं ?, भवन्तु तीसोयानीति चेन्नैवं, यतो बहून्यपि तानि केवलिदृष्टेन केनचिद्वर्णादिना धर्मेण सदृशान्येकैव योनिरिष्यते, ततोऽनन्तानामपि जन्तुनां केवलि विवक्षितवर्णादिसादृश्यतः परस्परान्तर्भावचिन्तया चतुरशी 191

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310