________________
मिकं सम्यक्त्वमेषां न लभ्यते इति कार्मग्रन्थिकाः, सैद्धान्तिकास्तु मन्यन्ते-क्षायोपशमिकसम्यक्त्वसंयुक्ता अपि बद्धायुष्का अमी केचिदेतेषूत्पद्यन्ते इति पारभविकमपि क्षायोपशमिकं सम्यक्त्वममीषां लभ्यते, असाहयेयवर्षायुष्कतिरश्वां पुनस्त्रीण्यपि सम्यक्त्वान्यसहयेयवर्षायुष्कमनुष्यवद्वाच्यानि, शेषाणामाद्यपृथिवीत्रयव्यतिरिक्तानां नारकाणां पङ्कप्रभाद्यधस्तनपृथिवीचतुष्टयनारकाणामित्यर्थः 'तिरियत्थीणं च'त्ति असङ्ख्येयवर्षायुष्कसंज्ञिपञ्चेन्द्रियतिरश्चां तत् स्त्रीणां च, तथा त्रिविधदेवानां-भवनपतिव्यन्तरज्योतिष्कलक्षणानां नास्त्येव क्षायिकं सम्यक्त्वं, क्षायिकं हि सम्यक्त्वमेतेषु ताद्भविकं तावन्न भवति, सङ्ख्येयवर्षायुष्कमनुष्यस्यैव क्षायिकसम्यक्त्वारम्भकत्वात् , पारभविकमपि न भवति क्षायिकसम्यग्दृष्टेरेतेष्वनुत्पत्तेः, औपशमिकक्षायोपशमिके तु भवत इति, 'सम्म अन्नेसिं चेव जीवाणं'ति अन्येषां पुनर्जीवानां सम्यक्त्वमेव नास्ति चः पुनरर्थे, एवोऽवधारणे मिन्नक्रमः स च योजित एव, एतदुक्तं भवति-एकद्वित्रिचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां तद्भवं परभवं वा अपेक्ष्य प्रस्तुतसम्यक्त्वत्रयमध्य एकमपि न सम्भवति, सास्वादनसम्यक्त्वं पुनर्बादरपृथिव्यम्बुवनस्पतिद्वित्रिचतुरिन्द्रियाशिसंज्ञिपञ्चेन्द्रियेष्वपर्याप्तावस्थायां पारभविकं, पर्याप्तसंज्ञिपञ्चेन्द्रियेषु तु ताद्भविकमवाप्यते, सूक्ष्मैकेन्द्रियबादरतेजोवायुषु पुनः सम्यक्त्वलेशवतामप्युत्पादाभावात् सास्वादनं नास्तीत्येष कार्मप्रन्थिकामिप्रायः, सूत्राभिप्रायेण तु पृथिव्यायेकेन्द्रियाणां सास्वादनसम्यक्त्वं नास्ति, यदुक्तं प्रज्ञापनायां-"पुढविकाइयाणं पुच्छा, गोयमा! पुढविकाइया नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छदिट्ठी, एवं जाव वणप्फइकाइया" इति ॥ ९६१ ॥ ९६२ ॥ १४९॥ इदानीं 'कुलकोडीणं संखा जीवाणं'ति पञ्चाशदधिकशततमं द्वारमाह
वारस सत्त य तिन्नि य सत्त य कुलकोडिसयसहस्साई । नेया पुढविदगागणिवाऊणं चेव परिसंखा ॥ ९६३ ॥ कुलकोडिसयसहस्सा सत्तट्ट य नव य अहवीसं च । बेइंदियतेइंदियचउरिदियहरियकायाणं ॥ ९६४ ॥ अद्धत्तेरस वारस दस दस नव चेव सयसहस्साइं । जलयरपक्खिचउप्पयउरभुयसप्पाण कुलसंखाः ॥ ९६५ ॥ छबीसा पणवीसा सुनेरइयाण सयसहस्साइं । बारस य सयसहस्सा कुलकोडीणं मणुस्साणं ॥९६६॥ एगा कोडाकोडी सत्ताणउई भवे सयसहस्सा।
पन्नास च सहस्सा कुलकोडीणं मुणयबा ॥९६७॥ । 'बारसे'त्यादिगाथापञ्चकम् , पृथिव्युदकाग्निवायूनामेव कुलान्याश्रित्य परिसङ्ख्या यथाक्रमं शेया, तद्यथा-द्वादश कुलकोटिशतसहस्राणिलक्षाः पृथिवीकायिकानां सप्त उदकजीवानां त्रीण्यमिकायिकानां वायूनां पुनः सप्तैव कुलकोटिशतसहस्राणि ॥९६३॥ 'कुले'त्यादि, अत्रापि यथासयेन योजना, द्वीन्द्रियाणां सप्त कुलकोटिशतसहस्राणि अष्टौ त्रीन्द्रियाणां नव चतुरिन्द्रियाणां अष्टाविंशतिहरितकायिकाना-समस्तवनस्पतिकायिकानाम् ॥९६४॥ 'अद्धे'त्यादि, अत्रापि यथाक्रमं पदघटना, तत्र जले चरन्ति-पर्यटन्तीति जलचरा:-मत्स्यमकरादयः तेषामर्धत्रयोदश कुलकोटिशतसहस्राणि, सार्धा द्वादश कुलकोटिलक्षा इत्यर्थः, पक्षिणां-केकिकाकादीनां द्वादश चतुष्पदानां-जगर्दभादीनां दश उर:परिसर्पाणां-भुजगादीनां दश भुजपरिसर्पाणां-गोधानकुलादीनां नव कुलकोटिलक्षाणि भवन्ति ॥९६५॥ 'छवीसे'त्यादि, सर्वेषां भवनपत्यादिसुराणां षड्विंशतिः कुलकोटिलक्षाणि नारकाणां तु पञ्चविंशतिः मनुष्याणां पुनर्वादश कुलकोटीनां शतसहस्राणि भवन्तीति ॥९६६॥ अथ पूर्वोक्तानामेव कुलानां सर्वसङ्ख्यामाह-'एगे'त्यादि, सर्वसङ्ख्यया एका कुलकोटीकोटिः सप्तनवतिः कुलकोटीनां शतसहस्राणि पञ्चाशच सहस्राः कुलकोटीनां ज्ञातव्याः ॥९६७॥ १५०॥ इदानीं 'जोणिलक्ख चुलसी'त्येकपञ्चाशदधिकशततमं द्वारमाह
पुढविद्गअगणिमारुय एकके सत्त जोणिलक्खाओ । वणपत्तेयअणंते दस चउदस जोणिलक्खाओ॥९६८॥ विगलिदिएस दो दो चउरो चउरो य नारयसुरेसुं। तिरिएसुहोति चउरो चउदस लक्खा उ मणुएसु ॥ ९६९ ॥ समवन्नाइसमेया बहवोऽवि हु जोणिलक्खभेयाओ। सा
मन्ना धिप्पंतिह एक्कगजोणीह गहणेणं ॥९७०॥ 'यु मिश्रणे इत्यस्य धातोर्युवन्ति-भवान्तरसक्रमणकाले तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्यस्यामिति औणादिके निप्रत्यये योनिः जीवानामुत्पत्तिस्थानमित्यर्थः, तत्र पृथिव्युदकाग्निमरुतां सम्बन्धिन्येकैकस्मिन् समूहे सप्त सप्त योनिलक्षा भवन्ति, तद्यथा-सप्त पृथिवीनिकाये सप्तोदकनिकाये सप्ताग्निनिकाये सप्त वायुनिकाये, वनस्पतिनिकायो द्विविधस्तद्यथा-प्रत्येकोऽनन्तकायश्च, तत्र प्रत्येकवनस्पतिनिकाये दश योनिलक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश लक्षाः, विकलेन्द्रियेषु-द्वीन्द्रियादिषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपेषु प्रत्येकं द्वे द्वे योनिलक्षे, तद्यथा-वे योनिलक्षे द्वीन्द्रियेषु द्वे त्रीन्द्रियेषु द्वे चतुरिन्द्रियेषु, तथा चतस्रो योनिलझा नारकाणां, चतस्रो देवानां, तथा तिर्यक्षु पञ्चेन्द्रियेषु चतस्रो योनिलक्षाः, चतुर्दश योनिलक्षा मनुष्येषु, सर्वसङ्ख्यायाश्च मीलने चतुरशीतिर्योनिलक्षा भवन्तीति । न च वक्तव्यमनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो जीवानां सामान्याधारभूतो लोकोऽप्यसङ्ख्येयप्रदेशात्मक एव, विशेषाधाररूपाण्यपि नरकनिष्कुटदेवशयनीयप्रत्येकसाधारणजन्तुशरीराण्यसोयान्येव, ततो जीवानामानन्येऽपि कथमुत्पत्तिस्थानानामानन्त्यं ?, भवन्तु तीसोयानीति चेन्नैवं, यतो बहून्यपि तानि केवलिदृष्टेन केनचिद्वर्णादिना धर्मेण सदृशान्येकैव योनिरिष्यते, ततोऽनन्तानामपि जन्तुनां केवलि विवक्षितवर्णादिसादृश्यतः परस्परान्तर्भावचिन्तया चतुरशी
191