Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
मर्दकादिवत् अथ च धर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचित्तत्त्वानि जिनोक्तानि दीपयति-परस्य प्रकाशयति यस्मात्तस्मातत्सम्यक्त्वं दीपकमुच्यते, ननु स्वयं मिथ्यादृष्टिरथ च तस्य सम्यक्त्वमिति कथमुच्यते ? विरोधात्, उच्यते, मिथ्यादृष्टेरपि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपत्तॄणां सम्यक्त्वस्य कारणं, ततः कारणे कार्योपचारात् सम्यक्त्वमित्युच्यते, यथाऽऽयुर्घतमित्यदोषः ॥९४६॥ अथ चतुर्विधंसम्यक्त्वमाह-'खइये'त्यादि, तदेव क्षायिकादित्रिविधं सम्यक्त्वं सास्वादनसहितं चतुर्विधं विज्ञेयं, तत्पुनः सास्वादनमनन्तानुबन्धिकषायोदयेन सम्यक्त्वस्यौपशमिकाख्यस्य भ्रंशे-हासे मिथ्यात्वाप्राप्तिरूपमवसेयं, इयमत्र भावना-इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायामुत्कृष्टतस्तु षडावलिकाशेषायां वर्तमानस्य कस्यचिदनन्तानुबन्धिकषायोदयः सम्पद्यते, ततस्तेन कषायोदयेनौपशमिकसम्यक्त्वाश्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयमुत्कृष्टतस्तु षडावलिकाः सास्वादनसम्यक्त्वं भवति, परतस्त्वसौ नियमेन मिथ्यात्वोदयान्मिथ्यादृष्टिर्भवतीति ॥९४७॥ सम्प्रति पञ्चविधं सम्यक्त्वमाह-'वेयये'त्यादि, एतदेव पूर्वोक्तं चतुर्विधं सम्यक्त्वं वेदकसम्यक्त्वसंयुक्तं पुनः पञ्चधा-पञ्चविधं विनिर्दिष्टं-विशेषतः कथितं वीतरागैः, तच्च वेदकसम्यक्त्वं सम्यक्त्वपुजस्य बहतरक्षपितस्य चरमपुद्गलानां वेदनकाले-माससमये भवति, वेदयति-अनुभवति सम्यक्त्वपुद्गलान् इति वेदक:-अनुभविता, तदनर्थान्तरभूतत्वात् सम्यक्त्वमपि वेदकं, यथा आहियत इत्याहारकं तथा वेद्यत इति वेदकं, इदमत्र तात्पर्यम्-क्षपकश्रेणिं प्रतिपन्नस्यानन्तानुबन्धिकषायचतुष्टयमपि क्षपयित्वा मिथ्यात्वमिश्रपुजेषु सर्वथा क्षपितेषु सम्यक्त्वपुजमप्युदीर्योदर्यानुभवेन निर्जरयतो निष्टितोदीरणीयस्य चरमप्रासेऽवतिष्ठमानेऽद्यापि सम्यक्त्वपुजपुद्गलानां कियतामपि वेद्यमानत्वाद्वेदकं सम्यक्त्वमुपजायते इति । अत्राह-नन्वेवं सति क्षायोपशमिकेन सहास्य को विशेषः, सम्यक्त्वपुजपुद्गलानुभवस्योभयत्रापि समानत्वात् , सत्यं, किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तं, इतरत्तूदितानुदितपुद्गलस्यैतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदं, चरमग्रासशेषाणां पुद्गलानां क्षयाचरमग्रासवर्तिनांतु मिथ्यास्वभावापगमलक्षणस्योपशमस्य सद्भावादिति ॥९४८॥ अथ दशविधं सम्यक्त्वमाह-एय'मित्यादि, एतदेवानन्तरोदितं पञ्चविधं सम्यक्त्वं निसर्गाधिगमभेदाभ्यां दशधा भवति, क्षायिकक्षायोपशमिकऔपशमिकसास्वादनवेदकानां प्रत्येकं निसर्गतोऽधिगमतश्च जायमानत्वाद्दशविधत्वमित्यर्थः, अथवेति प्रकारान्तरोपदर्शनार्थः निसर्गरुचिरुपदेशरुचिरित्यादिरूपतया यदागमे-प्रज्ञापनादौ प्रतिपादितं तेन च दशविधत्वमवगन्तव्यम् ॥९४९॥ तदेवाह-'निसग्गु'इत्यादि, अत्ररुचिशब्दः प्रत्येकं योज्यते ततो निसर्गरुचिरुपदेशरुचिरिति द्रष्टव्यम् , अत्र निसर्ग:स्वभावस्तेन रुचि:-जिनप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः १ उपदेशो-गुर्वादिभिर्वस्तुतत्त्वकथनं तेन रुचिः-उक्तस्वरूपा यस्य स उपदेशरुचिः २ आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचि:-अभिलाषो यस्य स आज्ञारुचिः ३ 'सुत्तबीयरुइमेव'त्ति अत्रापि रुचिशब्दः प्रत्येकमभिसम्बध्यते, सूत्रं-आचाराद्यङ्गप्रविष्टं अङ्गबाह्यं चावश्यकदशकालिकादि तेन रुचिर्यस्य स सूत्ररुचिः ४ बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः ५, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये, 'अहिगमवित्थाररुइ'त्ति अत्रापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धः, ततोऽधिगमरुचिर्विस्ताररुचिश्व, तत्राधिगमो-विशिष्टं परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः६ विस्तारो-व्यासः सकलद्वादशाङ्गस्य नयैः पर्यालोचनमिति भावः तेनोपबृंहिता रुचिर्यस्य स विस्ताररुचिः ७ किरियासंखेवधम्मरुइ'त्ति रुचिशब्दस्यात्रापि प्रत्येकमभिसम्बन्धात् क्रियारुचिः सङ्केपरुचिर्धर्मरुचिरिति द्रष्टव्यं, तत्र क्रिया-सम्यक्संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः ८ सङ्केपः-सद्धहस्तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स सङ्केपरुचिः ९ धर्मे-अस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिः, यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्वख्यापनार्थमिति गाथासङ्केपार्थः॥९५०॥ व्यासार्थ तु स्वत एव सूत्रकृदाह-'जो'इत्यादि, यो जिनदृष्टान्-तीर्थकरोपलब्धान् भावान्-जीवादिपदार्थाश्चतुर्विधानद्रव्यक्षेत्रकालभावभेदतो नामस्थापनाद्रव्यभावभेदतो वा चतुष्प्रकारान् स्वयमेव-परोपदेशनिरपेक्षं जातिस्मरणप्रतिभादिरूपया स्वमत्यैव श्रद्दधाति, केनोल्लेखेन श्रद्दधाति ? तत आह-एवमेवैतत् जीवादि यथा जिनैदृष्टं नान्यथेति, चः समुच्चये, एष निसर्गरुचितिव्यः ॥९५१॥ उपदेशरुचिमाह-एए'इत्यादि, एतांश्चैव अनन्तरोक्तान तुः पूरणे भावान्-जीवादीनुपदिष्टान्-कथितान् परेण-अन्येन श्रद्दधाति-तथेति प्रतिपद्यते, कीदृशेन परेण ?-छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थ:-अनुत्पन्नकेवलस्तेन जयति रागादीनिति जिनस्तेन च-उत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाजिनस्य प्राचुर्येण वा तथाविधोपदेष्ट्रणां, स ईदृक्किमित्याह-उपदेशरुचिरिति ज्ञातव्यः॥९५२॥ आज्ञारुचिमाह-'रागो'इत्यादि, रागः-अभिष्वङ्गो द्वेषः-अप्रीतिः मोहः-शेषमोहनीयप्रकृतयः अज्ञानंमिथ्याज्ञानरूपं यस्यापगतं-नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दस्य लिङ्गविपरिणामतो रागादिमिः प्रत्येकमभिसम्बन्धः, एतदपगमाच्च 'आणाए'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव केवलया तीर्थकरादिसम्बन्धिन्या रोचमानः-क्वचिदपि कुग्रहाभावात् प्रवचनोक्तमर्थजातं तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु-निश्चितमाज्ञारुचिः नामेत्यभ्युपगमे ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः॥९५३॥ सूत्ररुचिमाह-"जो सुत्ते'इत्यादि, यः सूत्रं आगममधीयानः पठन् श्रुतेनेति-सूत्रेण तेनैवाधीयमामेन अङ्गेन-अङ्गप्रविष्टेनाचारादिना बाह्येन च-अङ्गबाह्येन आवश्यकादिना सम्यक्त्वमवगाहते-प्राप्नोति तुशब्दस्याधिकार्थसूचकत्वात्प्रसन्नप्रसन्नतराध्यवसायश्च भवति स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः॥९५४॥ बीजरुचिमाह-'एगे'त्यादि,एकेन पदेन प्रक्रमाज्जीवादिना अवगतेन अनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु-बहुषु पदेषु-जीवादिषु यः प्रसरति-व्यापितया गच्छति सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता
189

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310