SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ मर्दकादिवत् अथ च धर्मकथया मातृस्थानानुष्ठानेनातिशयेन वा केनचित्तत्त्वानि जिनोक्तानि दीपयति-परस्य प्रकाशयति यस्मात्तस्मातत्सम्यक्त्वं दीपकमुच्यते, ननु स्वयं मिथ्यादृष्टिरथ च तस्य सम्यक्त्वमिति कथमुच्यते ? विरोधात्, उच्यते, मिथ्यादृष्टेरपि सतस्तस्य यः परिणामविशेषः स खलु प्रतिपत्तॄणां सम्यक्त्वस्य कारणं, ततः कारणे कार्योपचारात् सम्यक्त्वमित्युच्यते, यथाऽऽयुर्घतमित्यदोषः ॥९४६॥ अथ चतुर्विधंसम्यक्त्वमाह-'खइये'त्यादि, तदेव क्षायिकादित्रिविधं सम्यक्त्वं सास्वादनसहितं चतुर्विधं विज्ञेयं, तत्पुनः सास्वादनमनन्तानुबन्धिकषायोदयेन सम्यक्त्वस्यौपशमिकाख्यस्य भ्रंशे-हासे मिथ्यात्वाप्राप्तिरूपमवसेयं, इयमत्र भावना-इहान्तरकरणे औपशमिकसम्यक्त्वाद्धायां जघन्यतः समयशेषायामुत्कृष्टतस्तु षडावलिकाशेषायां वर्तमानस्य कस्यचिदनन्तानुबन्धिकषायोदयः सम्पद्यते, ततस्तेन कषायोदयेनौपशमिकसम्यक्त्वाश्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतः समयमुत्कृष्टतस्तु षडावलिकाः सास्वादनसम्यक्त्वं भवति, परतस्त्वसौ नियमेन मिथ्यात्वोदयान्मिथ्यादृष्टिर्भवतीति ॥९४७॥ सम्प्रति पञ्चविधं सम्यक्त्वमाह-'वेयये'त्यादि, एतदेव पूर्वोक्तं चतुर्विधं सम्यक्त्वं वेदकसम्यक्त्वसंयुक्तं पुनः पञ्चधा-पञ्चविधं विनिर्दिष्टं-विशेषतः कथितं वीतरागैः, तच्च वेदकसम्यक्त्वं सम्यक्त्वपुजस्य बहतरक्षपितस्य चरमपुद्गलानां वेदनकाले-माससमये भवति, वेदयति-अनुभवति सम्यक्त्वपुद्गलान् इति वेदक:-अनुभविता, तदनर्थान्तरभूतत्वात् सम्यक्त्वमपि वेदकं, यथा आहियत इत्याहारकं तथा वेद्यत इति वेदकं, इदमत्र तात्पर्यम्-क्षपकश्रेणिं प्रतिपन्नस्यानन्तानुबन्धिकषायचतुष्टयमपि क्षपयित्वा मिथ्यात्वमिश्रपुजेषु सर्वथा क्षपितेषु सम्यक्त्वपुजमप्युदीर्योदर्यानुभवेन निर्जरयतो निष्टितोदीरणीयस्य चरमप्रासेऽवतिष्ठमानेऽद्यापि सम्यक्त्वपुजपुद्गलानां कियतामपि वेद्यमानत्वाद्वेदकं सम्यक्त्वमुपजायते इति । अत्राह-नन्वेवं सति क्षायोपशमिकेन सहास्य को विशेषः, सम्यक्त्वपुजपुद्गलानुभवस्योभयत्रापि समानत्वात् , सत्यं, किन्त्वेतदशेषोदितपुद्गलानुभूतिमतः प्रोक्तं, इतरत्तूदितानुदितपुद्गलस्यैतन्मात्रकृतो विशेषः, परमार्थतस्तु क्षायोपशमिकमेवेदं, चरमग्रासशेषाणां पुद्गलानां क्षयाचरमग्रासवर्तिनांतु मिथ्यास्वभावापगमलक्षणस्योपशमस्य सद्भावादिति ॥९४८॥ अथ दशविधं सम्यक्त्वमाह-एय'मित्यादि, एतदेवानन्तरोदितं पञ्चविधं सम्यक्त्वं निसर्गाधिगमभेदाभ्यां दशधा भवति, क्षायिकक्षायोपशमिकऔपशमिकसास्वादनवेदकानां प्रत्येकं निसर्गतोऽधिगमतश्च जायमानत्वाद्दशविधत्वमित्यर्थः, अथवेति प्रकारान्तरोपदर्शनार्थः निसर्गरुचिरुपदेशरुचिरित्यादिरूपतया यदागमे-प्रज्ञापनादौ प्रतिपादितं तेन च दशविधत्वमवगन्तव्यम् ॥९४९॥ तदेवाह-'निसग्गु'इत्यादि, अत्ररुचिशब्दः प्रत्येकं योज्यते ततो निसर्गरुचिरुपदेशरुचिरिति द्रष्टव्यम् , अत्र निसर्ग:स्वभावस्तेन रुचि:-जिनप्रणीततत्त्वाभिलाषरूपा यस्य स निसर्गरुचिः १ उपदेशो-गुर्वादिभिर्वस्तुतत्त्वकथनं तेन रुचिः-उक्तस्वरूपा यस्य स उपदेशरुचिः २ आज्ञा-सर्वज्ञवचनात्मिका तस्यां रुचि:-अभिलाषो यस्य स आज्ञारुचिः ३ 'सुत्तबीयरुइमेव'त्ति अत्रापि रुचिशब्दः प्रत्येकमभिसम्बध्यते, सूत्रं-आचाराद्यङ्गप्रविष्टं अङ्गबाह्यं चावश्यकदशकालिकादि तेन रुचिर्यस्य स सूत्ररुचिः ४ बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचः तेन रुचिर्यस्य स बीजरुचिः ५, अनयोश्च पदयोः समाहारद्वन्द्वः तेन नपुंसकनिर्देशः, एवेति समुच्चये, 'अहिगमवित्थाररुइ'त्ति अत्रापि रुचिशब्दस्य प्रत्येकमभिसम्बन्धः, ततोऽधिगमरुचिर्विस्ताररुचिश्व, तत्राधिगमो-विशिष्टं परिज्ञानं तेन रुचिर्यस्यासावधिगमरुचिः६ विस्तारो-व्यासः सकलद्वादशाङ्गस्य नयैः पर्यालोचनमिति भावः तेनोपबृंहिता रुचिर्यस्य स विस्ताररुचिः ७ किरियासंखेवधम्मरुइ'त्ति रुचिशब्दस्यात्रापि प्रत्येकमभिसम्बन्धात् क्रियारुचिः सङ्केपरुचिर्धर्मरुचिरिति द्रष्टव्यं, तत्र क्रिया-सम्यक्संयमानुष्ठानं तत्र रुचिर्यस्य स क्रियारुचिः ८ सङ्केपः-सद्धहस्तत्र रुचिर्यस्य विस्तरार्थापरिज्ञानात् स सङ्केपरुचिः ९ धर्मे-अस्तिकायधर्मे श्रुतधर्मादौ वा रुचिर्यस्य स धर्मरुचिः, यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदनन्यत्वख्यापनार्थमिति गाथासङ्केपार्थः॥९५०॥ व्यासार्थ तु स्वत एव सूत्रकृदाह-'जो'इत्यादि, यो जिनदृष्टान्-तीर्थकरोपलब्धान् भावान्-जीवादिपदार्थाश्चतुर्विधानद्रव्यक्षेत्रकालभावभेदतो नामस्थापनाद्रव्यभावभेदतो वा चतुष्प्रकारान् स्वयमेव-परोपदेशनिरपेक्षं जातिस्मरणप्रतिभादिरूपया स्वमत्यैव श्रद्दधाति, केनोल्लेखेन श्रद्दधाति ? तत आह-एवमेवैतत् जीवादि यथा जिनैदृष्टं नान्यथेति, चः समुच्चये, एष निसर्गरुचितिव्यः ॥९५१॥ उपदेशरुचिमाह-एए'इत्यादि, एतांश्चैव अनन्तरोक्तान तुः पूरणे भावान्-जीवादीनुपदिष्टान्-कथितान् परेण-अन्येन श्रद्दधाति-तथेति प्रतिपद्यते, कीदृशेन परेण ?-छादयतीति छद्म-घातिकर्मचतुष्टयं तत्र तिष्ठतीति छद्मस्थ:-अनुत्पन्नकेवलस्तेन जयति रागादीनिति जिनस्तेन च-उत्पन्नकेवलज्ञानेन तीर्थकृदादिना, छद्मस्थस्य तु प्रागुपन्यासस्तत्पूर्वकत्वाजिनस्य प्राचुर्येण वा तथाविधोपदेष्ट्रणां, स ईदृक्किमित्याह-उपदेशरुचिरिति ज्ञातव्यः॥९५२॥ आज्ञारुचिमाह-'रागो'इत्यादि, रागः-अभिष्वङ्गो द्वेषः-अप्रीतिः मोहः-शेषमोहनीयप्रकृतयः अज्ञानंमिथ्याज्ञानरूपं यस्यापगतं-नष्टं भवति, सर्वथा चास्यैतदपगमासम्भवाद्देशत इति गम्यते, अपगतशब्दस्य लिङ्गविपरिणामतो रागादिमिः प्रत्येकमभिसम्बन्धः, एतदपगमाच्च 'आणाए'त्ति अवधारणफलत्वाद्वाक्यस्य आज्ञयैव केवलया तीर्थकरादिसम्बन्धिन्या रोचमानः-क्वचिदपि कुग्रहाभावात् प्रवचनोक्तमर्थजातं तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु-निश्चितमाज्ञारुचिः नामेत्यभ्युपगमे ततश्चाज्ञारुचिरित्यभ्युपगन्तव्यः॥९५३॥ सूत्ररुचिमाह-"जो सुत्ते'इत्यादि, यः सूत्रं आगममधीयानः पठन् श्रुतेनेति-सूत्रेण तेनैवाधीयमामेन अङ्गेन-अङ्गप्रविष्टेनाचारादिना बाह्येन च-अङ्गबाह्येन आवश्यकादिना सम्यक्त्वमवगाहते-प्राप्नोति तुशब्दस्याधिकार्थसूचकत्वात्प्रसन्नप्रसन्नतराध्यवसायश्च भवति स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः॥९५४॥ बीजरुचिमाह-'एगे'त्यादि,एकेन पदेन प्रक्रमाज्जीवादिना अवगतेन अनेकानि पदानि प्राकृतत्वेन विभक्तिव्यत्ययादनेकेषु-बहुषु पदेषु-जीवादिषु यः प्रसरति-व्यापितया गच्छति सम्यक्त्वमित्यनेन रुचिरत्रोपलक्षिता 189
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy