Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 196
________________ एगविह १ दुविह २ तिविहं ३ चउहा ४ पंचविह ५ दसविहं ६ सम्मं । दवाइ कारगाई उवसमभेएहि वा सम्मं ॥ ९४२॥ एगविहं सम्मरुई १ निसग्गऽभिगमेहि २ तं भवे दुविहं । तिविहं तं खइयाई ३ अहवावि हु कारगाईहिं ॥ ९४३ ॥ सम्मत्तमीसमिच्छत्तकम्मक्खयओ भणंति तं खइयं । मिच्छत्तखओवसमा खाओवसमं ववइसंति ॥९४४॥ मिच्छत्तस्स उवसमा उवसमयं तं भणंति समयन्न् । तं उवसमसेढीए आइमसम्मत्तलाभे वा ॥ ९४५॥ विहिआणुट्टाणं पुण कारगमिह रोयगं तु सद्दहणं । मिच्छद्दिट्ठी दीवइ जं तत्ते दीवगं तं तु ॥ ९४६ ॥ खइयाई सासायणसहियं तं चउविहं तु विन्नेयं । तं सम्मत्तब्भंसे मिच्छत्ताऽऽपत्तिरूवंत ॥९४७॥ वेययसंजत्तं पुण एयं चिय पंचहा विणिद्दिडं । सम्मत्तचरिमपोग्गलवेयणकाले तयं होइ ॥ ९४८॥ एयं चिय पंचविहं निसग्गाभिगमभेयओ दसहा । अहवा निसरगरुई इचाइ जमागमे भणिअं॥९४९ ॥ निस्सग्गु १ वएसरुई २ आणरुई ३ सुत्त ४ बीय ५ रुईमेव । अहिगम ६ वित्थाररुई ७ किरिया · ८ संखेव ९ धम्मरुई १० ॥ ९५० ॥ जो जिणदिट्टे भावे चउविहे सद्दहेइ सयमेव । एमेव नन्न हत्ति य निसग्गरुइत्ति नायवो ॥ ९५१॥ एए चेव उ भावे उवइहे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायबो॥९५२॥ रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो सो खलु आणारुई नाम ॥९५३॥ जो सुत्तमहिजंतो सुएणमोगाहई उ सम्मत्तं । अंगेण बाहिरेण य (उ) सो सुत्तरुइत्ति नायचो ॥ ९५४ ॥ एगपएऽणेगाइं पयाइं जो पसरई उ सम्मत्ते । उदएच तिल्लबिंदू सो बीयरुइत्ति नायबो ॥ ९५५ ॥ सो होइ अहिगमरुई सुयनाणं जस्स अत्थओ दिटुं । एक्कारस अंगाई पइन्नगा दिहिवाओ य ॥९५६ ॥ दवाण सवभावा सबपमाणेहिं जस्स उवलद्धा । सवाहिं नयविहीहिं वित्थाररुई मुणेयचो ॥ ९५७ ॥ नाणे दंसणचरणे तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरुई सो खलु किरियाई नाम ॥ ९५८ ॥ अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायवो । अविसारओ पवयणे अणभिग्गहिओ य सेसेसुं ॥९५९ ॥ जो अत्थिकायधम्म सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायचो॥ ९६०॥ आईपुढवीसु तिसु खय १ उवसम २ वेयगं ३ च सम्मत्तं । वेमाणियदेवाणं पणिदितिरियाण एमेव ॥९६१॥ सेसाण नारयाणं तिरियत्थीणं च तिविहदेवाणं । नत्थि हु खइयं सम्मं अन्नेसिं चेव जीवाणं ॥ ९६२॥ एकविधं द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं सम्यक्त्वं भवतीति शेषः, तत्र एकविधं तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, एतच्चानुक्तमप्यविवक्षितोपाधिभेदत्वेन सामान्यरूपत्वादवसीयते इत्यस्यां गाथायां न विवृत्तं, द्विविधादि तु न ज्ञायते इत्युल्लेखमाह-'दवाई इत्यादि, द्विविधं द्रव्यादिभेदतः, तत्र च 'दव'त्ति सूचामात्रत्वाद् द्रव्यतो भावतश्च, द्रव्यतो विशोधिविशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः, तेन नैश्चयिकव्यावहारिकभेदतः पौद्गलिकापौद्गलिकभेदतो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपं मौनं-अविकलं-मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वं, व्यावहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः शुभात्मपरिणामः किंतु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वं, तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति, उक्तं च-'जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं तु । निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊवि ॥१॥[यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह भवति मौनमेव । निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वं ॥१॥] व्यवहारनयमतमपि च प्रमाणं, तबलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात् , तदुक्तं 'जइ जिणमयं पवजह ता मा ववहारनिच्छयं मुयह । ववहारनओच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १॥" [यदि जिनमतं प्रतिपद्यसे तर्हि व्यवहारनिश्चयौ मा मुञ्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यं ॥ १ ॥] इति, तथा अपनीतमिथ्यास्वभावसम्यक्त्वपुजगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकं, सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुजपुद्गलानां क्षयादुपशमाच्च जातं केवलजीवपरिणामरूपं क्षायिकमौपशमिकं चापौद्गलिक, नैसर्गिकाधिगमिके पुनरप्रे वक्ष्येते, तथा 'त्रिविधं कारकादि' कारकरोचकदीपकभेदतः, 'उवसमभेएहिं वत्ति वाशब्दः त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः, बहुवचनं च गणार्थ, ततत्रिविधं चतुर्विधं पञ्चविधं दशविधं च सम्यक्त्वमुपशमादिभिर्भेदैर्भवतीति, इदमुक्तं भवति-औपशमिकक्षायिकक्षायोपशमिकभेदात् त्रिविधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदाच्चतुर्विधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदात्पञ्चविधं, एतदेव प्रत्येकं निसर्गाधिगमभेदादशविधमिति, कथं पुनर्द्विविधादिभेदं सम्यक्त्वमित्याह-सम्यग-अवैपरीत्येन आगमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदैरिति भावः ॥ ९४२ ॥ अथैनामेव गाथां स्फुटतरं व्याख्यानयनाह-एकविधं-एकप्रकारमुपाधिभेदाविवक्षया निर्भ 187

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310