________________
एगविह १ दुविह २ तिविहं ३ चउहा ४ पंचविह ५ दसविहं ६ सम्मं । दवाइ कारगाई उवसमभेएहि वा सम्मं ॥ ९४२॥ एगविहं सम्मरुई १ निसग्गऽभिगमेहि २ तं भवे दुविहं । तिविहं तं खइयाई ३ अहवावि हु कारगाईहिं ॥ ९४३ ॥ सम्मत्तमीसमिच्छत्तकम्मक्खयओ भणंति तं खइयं । मिच्छत्तखओवसमा खाओवसमं ववइसंति ॥९४४॥ मिच्छत्तस्स उवसमा उवसमयं तं भणंति समयन्न् । तं उवसमसेढीए आइमसम्मत्तलाभे वा ॥ ९४५॥ विहिआणुट्टाणं पुण कारगमिह रोयगं तु सद्दहणं । मिच्छद्दिट्ठी दीवइ जं तत्ते दीवगं तं तु ॥ ९४६ ॥ खइयाई सासायणसहियं तं चउविहं तु विन्नेयं । तं सम्मत्तब्भंसे मिच्छत्ताऽऽपत्तिरूवंत ॥९४७॥ वेययसंजत्तं पुण एयं चिय पंचहा विणिद्दिडं । सम्मत्तचरिमपोग्गलवेयणकाले तयं होइ ॥ ९४८॥ एयं चिय पंचविहं निसग्गाभिगमभेयओ दसहा । अहवा निसरगरुई इचाइ जमागमे भणिअं॥९४९ ॥ निस्सग्गु १ वएसरुई २ आणरुई ३ सुत्त ४ बीय ५ रुईमेव । अहिगम ६ वित्थाररुई ७ किरिया · ८ संखेव ९ धम्मरुई १० ॥ ९५० ॥ जो जिणदिट्टे भावे चउविहे सद्दहेइ सयमेव । एमेव नन्न
हत्ति य निसग्गरुइत्ति नायवो ॥ ९५१॥ एए चेव उ भावे उवइहे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायबो॥९५२॥ रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ। आणाए रोयंतो सो खलु आणारुई नाम ॥९५३॥ जो सुत्तमहिजंतो सुएणमोगाहई उ सम्मत्तं । अंगेण बाहिरेण य (उ) सो सुत्तरुइत्ति नायचो ॥ ९५४ ॥ एगपएऽणेगाइं पयाइं जो पसरई उ सम्मत्ते । उदएच तिल्लबिंदू सो बीयरुइत्ति नायबो ॥ ९५५ ॥ सो होइ अहिगमरुई सुयनाणं जस्स अत्थओ दिटुं । एक्कारस अंगाई पइन्नगा दिहिवाओ य ॥९५६ ॥ दवाण सवभावा सबपमाणेहिं जस्स उवलद्धा । सवाहिं नयविहीहिं वित्थाररुई मुणेयचो ॥ ९५७ ॥ नाणे दंसणचरणे तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरुई सो खलु किरियाई नाम ॥ ९५८ ॥ अणभिग्गहियकुदिट्ठी संखेवरुइत्ति होइ नायवो । अविसारओ पवयणे अणभिग्गहिओ य सेसेसुं ॥९५९ ॥ जो अत्थिकायधम्म सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायचो॥ ९६०॥ आईपुढवीसु तिसु खय १ उवसम २ वेयगं ३ च सम्मत्तं । वेमाणियदेवाणं पणिदितिरियाण एमेव ॥९६१॥ सेसाण नारयाणं तिरियत्थीणं च तिविहदेवाणं । नत्थि
हु खइयं सम्मं अन्नेसिं चेव जीवाणं ॥ ९६२॥ एकविधं द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं सम्यक्त्वं भवतीति शेषः, तत्र एकविधं तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वं, एतच्चानुक्तमप्यविवक्षितोपाधिभेदत्वेन सामान्यरूपत्वादवसीयते इत्यस्यां गाथायां न विवृत्तं, द्विविधादि तु न ज्ञायते इत्युल्लेखमाह-'दवाई इत्यादि, द्विविधं द्रव्यादिभेदतः, तत्र च 'दव'त्ति सूचामात्रत्वाद् द्रव्यतो भावतश्च, द्रव्यतो विशोधिविशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः, तेन नैश्चयिकव्यावहारिकभेदतः पौद्गलिकापौद्गलिकभेदतो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपं मौनं-अविकलं-मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वं, व्यावहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः शुभात्मपरिणामः किंतु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वं, तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति, उक्तं च-'जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं तु । निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊवि ॥१॥[यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह भवति मौनमेव । निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वं ॥१॥] व्यवहारनयमतमपि च प्रमाणं, तबलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात् , तदुक्तं 'जइ जिणमयं पवजह ता मा ववहारनिच्छयं मुयह । ववहारनओच्छेए तित्थुच्छेओ जओऽवस्सं ॥ १॥" [यदि जिनमतं प्रतिपद्यसे तर्हि व्यवहारनिश्चयौ मा मुञ्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यं ॥ १ ॥] इति, तथा अपनीतमिथ्यास्वभावसम्यक्त्वपुजगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकं, सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुजपुद्गलानां क्षयादुपशमाच्च जातं केवलजीवपरिणामरूपं क्षायिकमौपशमिकं चापौद्गलिक, नैसर्गिकाधिगमिके पुनरप्रे वक्ष्येते, तथा 'त्रिविधं कारकादि' कारकरोचकदीपकभेदतः, 'उवसमभेएहिं वत्ति वाशब्दः त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः, बहुवचनं च गणार्थ, ततत्रिविधं चतुर्विधं पञ्चविधं दशविधं च सम्यक्त्वमुपशमादिभिर्भेदैर्भवतीति, इदमुक्तं भवति-औपशमिकक्षायिकक्षायोपशमिकभेदात् त्रिविधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदाच्चतुर्विधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदात्पञ्चविधं, एतदेव प्रत्येकं निसर्गाधिगमभेदादशविधमिति, कथं पुनर्द्विविधादिभेदं सम्यक्त्वमित्याह-सम्यग-अवैपरीत्येन आगमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदैरिति भावः ॥ ९४२ ॥ अथैनामेव गाथां स्फुटतरं व्याख्यानयनाह-एकविधं-एकप्रकारमुपाधिभेदाविवक्षया निर्भ
187