________________
1
क्त्वभाजनं विना विनाशमासादयेदिति, 'निहि'त्ति निधिरिव निधिः, यथा हि निरवधिनिधिव्यतिरेकेण महार्हमणिमौक्तिककनकादिद्रव्यं न प्राप्यते तथा सम्यक्त्वमहानिधानानभिगतौ चारित्रधर्मवित्तमपि निरुपमसुखसम्पादकं न प्राप्यते इति इत्येतामिः षङ्गिर्भावनामिर्भा व्यमानमिदं सम्यक्त्वमविलम्बमसम मोक्षसुखसाधकं भवतीति ॥ ९४० ॥ 'छट्ठाणं' ति प्रपञ्चयितुमाह - ' अत्थी' त्यादि, अस्ति-विद्यते चशब्दस्यावधारणार्थत्वादस्त्येव जीव इति गम्यते, प्रतिप्राणि स्वसंवेदनप्रमाणप्रसिद्ध चैतन्यान्यथानुपपत्तेः, तथाहि-न चैतन्यमिदं भूतानां धर्मः, तद्धर्मत्वे सति पृथिव्याः काठिन्यस्येव तस्य सर्वत्र सर्वदा चोपलम्भप्रसङ्गात्, न च सर्वत्र सर्वदा चोपलभ्यते, लोष्ठादौ मृताव स्थायां चानुपलम्भात्, नापि चैतन्यमिदं भूतानां कार्य, अत्यन्तवैलक्षण्यादेव कार्यकारणभावस्याप्यनुपपत्तेः तथाहि - प्रत्यक्षत एव का ठिन्यादिस्वभावानि भूतानि प्रतीयन्ते, चैतन्यं च तद्विलक्षणं, ततः कथमनयोः कार्यकारणभावः ?, तन्न भूतधर्मो भूतकार्य वा चै तन्यं, अथ चास्ति प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धं, अतो यस्येदं स जीव इति, अनेन च नास्तिकमतमपहस्तितं १ । 'निचो 'त्ति सच जीवो नित्यः- उत्पत्तिविनाशविरहितः, तदुत्पादककारणाभावात् सतः सर्वथा विनाशायोगाच, अनित्यत्वे हि जीवस्य बन्धमोक्षाद्येकाधिकरणत्वाभावप्रसक्तेः, तथाहि - यद्यात्मा नित्यो नाभ्युपगम्यते, किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना ज्ञानक्षणा एव, तथा सत्यन्यस्य बन्धोऽन्यस्य मुक्तिः अन्यस्य क्षुदन्यस्य तृप्तिः अन्योऽनुभविताऽन्यः स्मर्ता अन्यचिकित्सादुःखमनुभवति अन्यो व्याधिरहितो जायते अन्यस्तपःक्वेशमधिसहतेऽपरः स्वर्गसुखमनुभवति अपरः शास्त्रमभ्यसितुमारभतेऽन्योऽधिगतशास्त्रार्थो भवति, न चैतद्युक्तं, अतिप्रसङ्गादिति, एतेन शौद्धोदनिसिद्धान्तध्वान्तमपध्वस्तं २ । 'कुणइ'ति स च जीवः करोति मिध्यात्वाविरतिकषायादिबन्धहेतुयुक्ततया तत्तत्कर्माणि निर्वर्तयति, प्रतिप्राणिप्रतीतविचित्र सुखदुःखाद्यनुभवान्यथानुपपत्तेः तथाहि लोके सुखं दुःखं वा चित्रमनुभूयते, न चैष चित्रसुखदुःखानुभवो निर्हेतुकः, सर्वदा सद्भावाभावप्रसङ्गात्, 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात्' । इति न्यायात् तस्मादस्य सुखदुःखानुभवस्य स्वकृतमेव कर्म हेतुरिति सिद्धो जीवः कर्मणां कर्तेति कापिलप्रतिकल्पनाप्रतिक्षेपः, नन्वयं जीवः सुखाभिलाषी न कदाचनाप्यात्मनो दुःखमाशास्ते ततो यदि स्वकर्मणामेष कर्ता ततः कथं दुःखफलं कर्म करोति ?, उच्यते, यथा हि रोगी रोगनिवृत्तिमिच्छन्नपि रोगाभिभूतत्वाद् अपश्यक्रियानिबन्धनं भाविनमपायं जानन्नपि चापध्यक्रियामासेवते तद्वद्वेषोऽपि जीवो मिध्यात्वायमिभूतत्वात् कथंचित् जानन्नपि दुःखफलं कर्म करोतीति ३ । 'कथं च वेएइ'त्ति स च जीवः कृतं स्वयममिनिर्वर्त्तितं शुभाशुभं कर्म वेदयते—स्वयमेवोपभुङ्क्ते अनुभव लोकागमप्रमाणतस्तथैवोपपद्यमानत्वात्, तथाहि--यदि स्वयंकृत कर्मफलभोक्तृत्वं जीवस्य नाभ्युपगम्यते ततः सुखदुःखानुभवो मुक्ताकाशयोरिव तस्य न स्यात्, सुखदुःखानुभवकारण सातासात वेदनीयकर्मोपभोगाभावात्, अस्ति चायं सुखदुःखानुभवः प्रतिप्राणि स्वसंवेदनप्रमाणसिद्धत्वात्, लोकेऽप्येष जीवः प्रायो भोक्ता सिद्ध:, तथाहि - सुखिनं कश्वन पुरुषं दृष्ट्वा लोके वक्तारो भवन्ति - पुण्यवानेष यदित्थं सुखमनुभवतीति, तथा आगमेषु च जैनेतरेषु भोक्ता सिद्धः 'सव्वं च परसतया भुंजइ कम्ममणुभावओ भइयं' [ सर्वं च प्रदेशतया भुज्यते कर्म, अनुभावतो भाज्यं ।] तथा 'नाभुक्तं क्षीयते कर्म, कोटिकल्पशतैरपि । इत्यादिवचनात् न चैवं लोकप्रतीतावागमेषु वा वर्तमानेषु कस्यचिद्विवेकचक्षुषो विप्रतिपत्तिरस्ति, कृतवैफल्यप्रसङ्गात्, न चैतद्युज्यते, वणिक्कृषीवलादीनां स्वकृतशुभाशुभकर्मफलभोगस्य साक्षादेव दर्शनात्, तथा च सति सिद्ध एष जीवः स्वकृतकर्मणां भोक्तेति, अनेन चाभोक्तृजीववादी दुर्नयो निराकृतः ४ | 'अस्थि निबाणं'ति अस्य जीवस्यास्ति - विद्यते निर्वाणं - मोक्षः, सत एव जीवस्य रागद्वेषमदमोहजन्मजरारोगादिदुःखक्षयरूपोऽवस्थाविशेष इतियावत्, एतेन प्रदीपनिर्वाणकल्पमभावरूपं निर्वाणमित्याद्यसङ्गतं सङ्गिरन्तः सौगतविशेषा व्युदस्ताः, ते हि प्रदीपस्येवास्य जीवस्य सर्वथा ध्वंस एव निर्वाणमाहुः, तथा च तद्वचः – “दीपो यथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्विद्विदिशं न काश्वित्, स्नेहश्श्यात्केवलमेति शान्तिम् ॥ १ ॥ जीवस्तथा निर्वृतिमभ्युपेतो, नैवावनिं गच्छति नान्तरिक्षम् । दिशं न काश्विद्विदिशं न काश्वित्, शक्षयात्केवलमेति शान्तिम् ॥ २ ॥ एतचायुक्तं, दीक्षादिप्रवासवैयर्थ्यात् प्रदीपदृष्टान्तस्याप्यसिद्धत्वात्, तथाहि-न प्रदीपानलस्य सर्वथा विनाशः, किन्तु तथाविधपुद्गलपरिणामवैचित्र्यात् त एव पावकपुद्गला भाखरं रूपं परित्यज्य तामसं रूपान्तरमाप्नुवन्ति, तथा च विध्याते प्रदीपेऽनन्तरमेव तामसपुद्गलरूपो विकारः समुपलभ्यते, चिरं चासौ पुरस्ताद्यन्नोपलभ्यते तत्सूक्ष्मसूक्ष्मतरपरिणामसद्भावादञ्जनरजोवत्, अञ्जनस्य हि पवनेनापह्रियमाणस्य यत्कृष्णरज उड्डीयते तदपि परिणामसौक्ष्म्यान्नोपलभ्यते न पुनरसत्त्वादिति, ततो यथाऽनन्तरोक्तस्वरूपं परिणामान्तरं प्राप्तः प्रदीपो निर्वाण इत्युच्यते तथा जीवोऽपि कर्मविरहितः केवलामूर्तजीवस्वरूपलक्षणं परिणामान्तरं प्राप्तो निर्वाणमुच्यते, तस्मात् दुःखादिक्षयरूपा सतोऽवस्था निर्वाणमिति स्थितं ५ । 'अत्थि य मोक्खोवाओ'त्ति अस्ति च मोक्षस्य - निर्वृत्तेरुपायः - सम्यक्साधनं, सम्यग्दर्शनज्ञानचारित्राणां मुक्तिसाधकतया घटमानकत्वात्, तथाहि—सकलमपि कर्मजालं मिध्यात्वाज्ञानप्राणिहिंसादिहेतुकं, वतस्तत्प्रतिपक्षतया सम्यग्दर्शनाद्यभ्यासः सकलकर्मनिर्मूल'नाय प्रभविष्णुरेव न चैवं मिध्यादृष्टिप्रणीतोऽप्युपायो मुक्तिसाधको भविष्यतीति वाच्यं तस्य हिंसादिदोषकलुषितत्वेन संसारकारणत्वात्, अनेनापि मोक्षोपायाभावप्रतिपादकदुर्नयन्यक्कारः कृतः ६ । एतान्यात्मास्तित्वादीनि षट् सम्यक्त्वस्थानानि, सम्यक्त्वमेषु सत्स्वेव भवतीति भाव:, अत्र च प्रतिस्थानकमात्मादिसिद्धये बहु वक्तत्र्यं तत्तु नोच्यते प्रन्थगहनताप्रसङ्गादिति १४८ ॥ ९४९ ॥ इदानीं 'एग विहाइ- दस विहं सम्मत्तं' त्येकोनपञ्चाशदधिकशततमं द्वारमाह
186