SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ जिनशासने-अर्हदर्शनविषये एतच सर्वत्र सम्बध्यते कुशलता-नैपुण्यं, तद्वशेन हि नानाप्रकारैरुपायैः सुखेनैव परं प्रतिबोधयतीति, तथा प्रभवति जैनेन्द्र शासनं तस्य प्रभवतः प्रयोजकत्वं च प्रभावना, सा चाष्टधा प्रभावकभेदेन प्रागेवोक्ता, यत्पुनरिहोपादानं तदस्याः स्वपरोपकारित्वेन तीर्थकरनामकर्मनिबन्धनत्वेन च प्राधान्यख्यापनार्थ, तथा आयतनं द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतो जिनगृहादि भावतस्तु ज्ञानदर्शनचारित्राधाराः साध्वादयः तस्यासेवनं-पर्युपास्तिः, स्त्रीत्वं च प्राकृतत्वादिति, तथा स्थिरता-जिनधर्म प्रति चलितचित्तस्य परस्य स्थिरत्वापादनं स्वस्य वा परतीर्थिकसमृद्धिदर्शनेऽपि जिनप्रवचनं प्रति निष्पकम्पता, तथा भक्तिः-प्रवचने विनयवैयावृत्त्यरूपा प्रतिपत्तिः, एते सम्यक्त्वस्य दीपका:-प्रभासका उत्तमाः-प्रधाना गुणा-भूषणानि, एतैर्गुणैः सम्यक्त्वमलकियत इति भावः ॥९३५॥ 'लक्खणपंचविहसंजुत्त'ति विवृण्वन्नाह–'उवसमेत्यादि, अपराधविधायिन्यपि कोपपरिवर्जनमुपशमः, स च कस्यचित्कषायपरिणतेः कटुकफलावलोकनाद्भवति कस्यचित्पुनः प्रकृत्यैवेति, तथा नरामरसुखपरिहारेण मुक्तिसुखाभिलाषः संवेगः, सम्यग्दृष्टिहिं नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषमाद् दुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽमिलषति चेति, तथा नारकतिर्यगादिसांसारिकदु:खेभ्यो निर्विण्णता निर्वेदः, सम्यग्दर्शनी हि दुःखातिगहने संसारकारागारे गुरुतरकर्मदण्डपाशिकैस्तथा तथा कच॑मानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निर्विण्णो भवति, अन्ये तु संवेगो भवविरागः निर्वेदो मोक्षामिलाष इत्यनयोरर्थव्यत्ययमाहुः, तथा दुःखितेषु प्राणिष्वपक्षपातेन दुःखप्रहाणेच्छा दया अनुकम्पा, पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव, सा चानुकम्पा द्रव्यतो भावतश्च भवति, द्रव्यतः सत्यां शक्तौ दुःखप्रतिकारेण भावत आर्द्रहृदयत्वेनेति, तथा अस्तीति मतिरस्येत्यास्तिकः तस्य भावः कर्म वा आस्तिक्यं, तत्त्वान्तरश्रवणेऽपि जिनगदिततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः, एतान्युपशमादीनि पञ्च सम्यक्त्वे-सम्यक्त्वविषयाणि लक्षणानि, एतैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यत इति ॥ ९३६ ॥ 'छव्विहजयण'त्ति व्याख्यानयन्नाह-'नो अने'त्यावि, नेवेत्यादि, अन्यतीथिकान्-परदर्शनिनः परिव्राजकमिक्षुभौतिकादीन् अन्यतीर्थिकदेवांश्च-रुद्रविष्णुसुगतादीन् तथा स्वदेवानपि-अर्हत्प्रतिमालक्षणान् कुतीर्थिकैः-दिगम्बरादिमिर्गृहीतान्-स्वीकृतान् भौतिकादिमिर्वा परिगृहीतान् महाकालादीन् 'नो' नैव वन्दे वा न च 'नमस्यामि' नमस्करोमि, तद्भक्तानां मिथ्यात्वादिस्थिरीकरणात् , सत्र वन्दनं-शीर्षाभिवादनं नमस्करणं-प्रणामपूर्वकं प्रशस्तध्वनिमिर्गुणोत्कीर्तनं, तथा अन्यतीर्थिकैः पूर्वमनालप्तः सन् तावालपामि नापि संलपामि, तत्र आङ ईषदर्थत्वाद् ईषद्भाषणमालापनं पुनः पुनः सम्भाषणं संलपनं, तत्सम्भाषणे हि तैः सह परिचयप्राप्त्या तत्प्रक्रियाश्रवणदर्शनादिमिर्मिथ्यात्वोदयोऽपि स्यात् , प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् किञ्चित्स्वल्पं वाच्यमपीति, तथा तेषां-अन्यतीथिकानां ददामि नाशनादिकं-अशनपानखादिमस्वादिमवस्नपात्रादिकं, तराने ह्यास्मनोऽन्येषां च पश्यतां तेषु बहुमानसद्भावात्तदैव मिथ्यात्वगमनं, इह च परतीथिकानामशनादिदानमनुकम्पां विहाय प्रतिषिद्धं, अनुकम्पागोचरापन्नं तु तेषामपि दानं दातव्यं, यत उक्तम्-"सव्वेहिपि जिणेहिं दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणहा दाणं न कहिपि पडिसिद्धं ॥ १॥" [ सर्वैरपि जिनैर्जितदुर्जयरागद्वेषमोहैः । सत्त्वानुकम्पायै दानं न कुत्रापि प्रतिषिद्धं ॥ १॥] तथा तेषामेव -परतीर्थिकदेवानां तत्परिगृहीतजिनप्रतिमानां च पूजादिनिमित्तं न प्रेषयामि गन्धपुष्पादिकं आदिशब्दाद्विनयवैयावृत्त्ययात्रास्त्रात्रादिकं च तेषां न करोमीति, एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात् , एतामिः परतीर्थिकादिवन्दननमस्करणालपनसंलपनाशनादिदानगन्धपुष्पादिप्रेषणलक्षणामिः षभियतनामिर्यवमानः सम्यक्त्वं नातिकमतीति ॥ ९३७-९३८ ॥ 'छागाति वितन्वन्नाह-रायाभि ओगो' इत्यादि, तत्राभियोजनं-अनिच्छतोऽपि व्यापारणमभियोगः राझो-नृपतेरभियोगो राजाभियोगः, गणः-वजनादिसमुदायस्तस्यामियोगो गणामियोगः, बलं-बलवतो हठप्रयोगस्तेनामियोगो बलाभियोगः, सुरस्य-कुलदेवतादेरमियोगः सुरामियोगः, कान्तारं-अरण्यं तत्र वृत्तिः-वर्तनं निर्वाहः कान्तारवृत्तिः यद्वा कान्तारमपि बाधाहेतुत्वादिह बाधात्वेन विवक्षितं ततः कान्तारेण-बाधया वृत्तिः-प्राणवर्चनरूपा कान्तारवृत्तिः, कष्टेन निर्वाह इतियावत् , गुरवो-मातृपितृप्रभृतयः, यदुक्तं-'माता पिता कलाचार्या, एतेषां ज्ञातयस्तथा । वृद्धा धर्मोपदेष्टारो, गुरुवर्गः सतां मतः ॥ १॥ तेषां निमहो-निर्बन्धः, तदेताः षट् छिण्डिका-अपवादा जिनशासने भवन्ति, इदमत्र तापर्यम्-प्रतिपन्नसम्यक्त्वस्य परतीर्थिकवन्दनादिकं यत्प्रतिषिद्धं तद्राजामियोगादिभिरेतैः षड्भिः कारणैर्भक्तिवियुक्तं द्रव्यतः समाचरनपि सम्यत्क्वं नातिचरतीति ॥९३९॥ 'छब्भावणभावियंति व्याख्यातुमाह-'मूलं दार'मित्यादि, द्विषट्कस्यापि-द्वादशभेदस्यापि पञ्चाणुव्रतत्रिगुणवतचतुःशिक्षाब्रवरूपस्य चारित्रधर्मस्य इदं सम्यक्त्वं मूलं कारणमित्यर्थः परिकीर्तितं-कथितं, तीर्थकरादिमिरिति सर्वत्र सम्बन्धः, यथा हि मूलविरहितः पादपः प्रचण्डपवनप्रकम्पितस्तत्क्षणादेव निपतति, एवं धर्मतरुरपि सुदृढसम्यक्त्वमूलविहीनः कुतीर्थिकमतमारुतान्दोलितः स्थैर्य नासादयेदिति, 'दा'ति द्वारमिव द्वारं प्रवेशमुखमिति भावः, यथा हि अकृतद्वारं नगरं समन्ततः प्राकारवलयवेष्टितमप्यनगरमेव भवति जनप्रवेशनिर्गमाभावात् , एवं धर्ममहापुरमपि सम्यक्त्वद्वारशून्यमशक्याधिगमं स्यादिति, 'पइद्वाणंति प्रतिष्ठते प्रासादोऽस्मिन्निति प्रतिष्ठानं-पीठं, ततः प्रतिष्ठानमिव प्रतिष्ठानं, यथा हि पयःपर्यन्तपृथ्वीतलगतगर्तापूरकरहितः प्रासादः सुदृढो न भवति तथा धर्मदेवस्य हर्म्यमपि सम्यक्त्वरूपप्रतिष्ठानपरित्यक्तं निश्चलं न भवेदिति, 'आहारो'त्ति आधार इव आधार आश्रय इतियावत्, यथा हि धरावलमन्तरेण निरालम्बं जगदिदं न तिष्ठति, एवं धर्मजगदपि सम्यक्त्वलक्षणाधारव्यतिरेकेण नावतिष्ठति, 'भायणं'ति भाजनमिव भाजनं पात्रमित्यर्थः, यथा हि कुण्डादिभाजनविशेषविवर्जितं क्षीरादिवस्तुनिकुरम्बं विनश्यति एवं धर्मवस्तुनिवहोऽपि सम्य 185
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy