________________
दृष्टपरमार्थाः -- आचार्यादयस्तेषां सेवनं पर्युपास्तिः सुदृटपरमार्थसेवनं, स्त्रीत्वं प्राकृतत्वात् वाशब्दोऽनुक्तसमुच्चये, ततो यथाशक्ति तद्वैया - त्तिप्रवृत्तिश्च, अपि समुच्चये, इति द्वितीयं श्रद्धानं, तथा 'वावन्नकुदंसण 'त्ति दर्शनशब्दः प्रत्येकमभिसम्बध्यते व्यापन्नं- विपन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना - निह्रवादयः तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः- शाक्यादयस्तेषां वर्जनं- परिहारो व्यापन्नकुदर्शनवर्जनं, मा भूदेतदपरिहारतः सम्यक्त्वमालिन्यमिति, अत्रापि स्त्रीत्वं प्राकृतत्वात् इति तृतीयचतुर्थे श्रद्धाने, 'सम्मत्तसद्दहणा' इति सम्यत्तवं श्रद्धीयते-अस्तीति प्रतिपद्यतेऽनेनेति सम्यक्त्वश्रद्धानं, प्रत्येकं च परमार्थसंस्तवादिभिरस्य सम्भवादेकवचनं, न चाङ्गारमर्दकादेरपि परमार्थसंस्तवादीनां सम्भवाद्व्यभिचारता, ताविकानामेवैषामिहाधिकृतत्वात् तस्य च तथाविधानामेषामसम्भवादिति ।। ९२८ ।। 'तिलिंगं' ति व्याख्यातुमाह – 'सुस्सूसे' त्यादि, श्रोतुमिच्छा-शुश्रूषा, हस्वत्वं तु प्राकृतशैल्या, सद्बोधावंध्यनिबन्धनधर्मशास्त्रश्रवणवाञ्छेत्यर्थः, सा च वैदग्ध्यादिगुणोत्तरतरुणनरकिन्नरगानश्रवणरागादप्यधिकतमा सम्यक्त्वे सति भवति, तथा धर्मः - श्रुतचारित्रलक्षणः, तत्र श्रुतधर्मरागस्य शुश्रूषापदेनैव प्रतिपादितत्वादिह धर्मरागश्चारित्रधर्मरागोऽभिप्रेतः, स च तथाविधकर्मदोषतस्तदकरणेन कान्तारागत दुर्गतबुभुक्षाक्षामब्राह्मणघृतपूर्णभोजन मिलाषाव्यतिरिक्तोऽत्र भवति, तथा गुरवो-धर्मोपदेशका आचार्यादयः देवाश्च - आराध्यतमा अर्हन्तो गुरुदेवाः तेषां, इह च गुरुपदस्य पूर्वनिपातो विवक्षया गुरूणां पूज्यतरत्वख्यापनार्थः, न हि गुरूपदेशमन्तरेण सर्वविद्देवाभिगम इति भाव:, यथासमाधि - समाधानानतिक्रमेण, अत्र चाव्ययीभावसमासादपि तृतीयाया अलोपः प्राकृतत्वात्, वैयावृत्त्ये- तत्प्रतिपत्तिविश्रामणाभ्यर्चनादौ नियम:- अवश्यङ्कर्तव्यतयाऽङ्गीकारः, स च सम्यक्त्वे सति भवतीत्येतानि सम्यग्दृष्टेः - धर्मधर्मिणोरभेदोपचारात् सम्यवस्य लिङ्गानि, एतैः शुश्रूषादिमिस्त्रिमिर्लिङ्गैः सम्यक्त्वमुत्पन्नमस्तीति निश्चीयत इति भावः, यद्यपि च शुश्रूषादय उपशान्तमोहादीनां साक्षान्न भवन्ति कृतकृत्यत्वात् तथापि फलतो भवन्ति तद्भावस्य तत्फलत्वादिति ॥ ९२९ ॥ 'दसविणय'त्ति व्याख्यानयन्नाह - 'अरिहंत' गाहा 'भक्ती' गाहा, अर्हन्तः - तीर्थकराः सिद्धाः - क्षीणाष्टकर्ममलपटलाः चैत्यानि - जैनेन्द्रप्रतिमाः श्रुतं - आचाराद्यागमः धर्मःक्षान्त्यादिरूपः साधुवर्गः - श्रमणसमूहः आचार्योपाध्यायौ -प्रतीतौ प्रवक्ति जीवादितत्त्वमिति प्रवचनं सङ्घः दर्शनं - सम्यक्त्वं तदभेदोपचारात्तद्वानपि दर्शनमुच्यते, एवं प्रागपि यथासम्भवं वाच्यं । एतेषु अर्हदादिषु दशसु स्थानेषु विषयेषु किमित्याह - 'भत्ती' त्यादि, भक्ति:- अभिमुखगमनासनप्रदानपर्युपास्त्य अलिबन्धानुब्रजनादिलक्षणा पूजा - गन्धमाल्यवस्त्रपात्रान्नपानप्रदानादिसत्काररूपा वर्णनं वर्ण:श्लाघनं तेन ज्वलनं - ज्ञानादिगुणोद्भासनं वर्णज्वलनं तथा वर्जनं-परिहरणमवर्णवादस्य - अश्लाघायाः आशातना - मनोवाक्कायैः प्रतीपवर्तनं तस्याः परिहारः - प्रतिषेधः आशातनापरिहारः, एष दशस्थानविषयत्वाद्दशविधो दर्शनविनयः, सम्यक्त्वे सति अस्य भावात्सम्यक्त्ववि - नयः 'समासेन' सङ्क्षेपेण द्रष्टव्यः, विस्तरतस्तु शास्त्रान्तरादवसेय इति ॥ ९३१ ॥ 'तिसुद्धि'त्ति व्याचिख्यासुराह - ' मोत्तूणे 'त्यादि, 'मुक्तवा' विमुच्य 'जिनं' वीतरागं मुक्तत्वा च 'जिनमतं' स्यात्पदलाञ्छिततया तीर्थकृद्भिः प्रणीतं यथावस्थितं जीवाजीवादितत्त्वं तथा जिनमतस्थितांश्च - प्रतिपन्नपारमेश्वरप्रवचनान् साध्वादीन् मुक्त्वा शेषमेकान्तग्रहप्रस्तं जगञ्चिन्त्यमानं - परिभाव्यमानं 'संसारकच्च वारं 'ति संसारमध्ये कचवरनिकरप्रायमसारमित्यर्थः, जिमादित्रितयमेव सारं शेषं तु सर्वमप्यसारमिति चिन्तया सम्यक्त्वस्य विशोध्यमानत्वादेतास्तिस्रः शुद्धय इति ॥ ९३२ ॥ 'पंचगय दोसं 'ति प्रकटयन्नाह - 'संके' त्यादि, शङ्का - सर्वज्ञोक्तवचसि संशयः काङ्क्षा-अन्यान्यदर्शनाभिलाषः विचिकित्सा - सदाचारसाध्वादिनिन्दा तथा कुत्सितं लिङ्ग-दर्शनं येषां ते कुलिङ्गिनः -- कुतीर्थिकाः तेषु विषये प्रशंसा - श्लाघा तथा तद्विषय | एव संस्तवः - सम्भाषणादिना परिचयः, एते पश्वापि शङ्कादयः सम्यक्त्वस्य मालिन्यहेतुत्वादतीचारा - दोषाः सम्यग्दृष्टिना प्रयत्नेन परिहर्तव्या - वर्जनीयाः, विशेषतस्त्वेतेषां खरूपं षष्ठे श्रावकप्रतिक्रमणातिचारद्वारे प्रतिपादितमिति ॥ ९३३ ॥ 'अट्ठपभावणं'ति विवरीपुराह - 'पावयणी' त्यादि, प्रवचनं - द्वादशाङ्गं तदस्यास्त्यतिशयवदिति प्रावचनी - युगप्रधानागमः, धर्मकथा प्रशस्याऽस्यास्तीति धर्मकथी, यः क्षीराश्रवादिलब्धिसम्पन्नः सजलजलधरध्वानानुकारिणा नादेनाक्षेपणीविक्षेपणीसंवेजनीनिर्बेदिनीलक्षणां चतुर्विधां जनितजनमनः प्रमोदप्रथां धर्मकथां कथयति, वादिप्रतिवादिसभ्य सभापतिरूपायां चतुरङ्गायां परिषदि प्रतिपक्षप्रतिक्षेपपूर्वकं स्वपक्षस्थापनार्थमवश्यं वदतीति वादी, निरुपमवादलब्धिसम्पन्नत्वेन वावदूकवादिवृन्दारकवृन्दैरप्य मन्दीकृत वाग्विभव इति भावः, निमित्तं - त्रैकालिक लाभालाभप्रतिपादकं शास्त्रं तद्वेधी वा स नैमित्तिकः सुनिश्चितातीतादिनिमित्तवेदीत्यर्थः, विप्रकृष्टं - अष्टमप्रभृतिकं दुस्तपं तपोऽस्यास्तीति तपखी 'विजति मतुब्लोपाद्विद्यावान् विद्या :- प्रज्ञत्यादयः शासनदेवताः ताः सहायके यस्य स विद्यावान् वज्रखामिवत्, अञ्जनपादले पतिलकगुटिकासकलभूताकर्षणवै क्रियत्वप्रभृतयः सिद्धयः ताभिः सिद्ध्यति स्मेति सिद्धः, कवते - नवनवभङ्गीवैदग्ध्यदिग्धैः पाकातिरेकरसनीयरसरहस्यास्वादमेदुरितसहृदयहृदयानन्दैर्निःशेषभाषावैदग्ध्यहृद्य हृद्यैर्गद्यपद्यप्रबन्धैर्वर्णनं करोतीति कविः, एते प्रावचन्यादयोऽष्टौ प्रभावयन्ति - स्वतः प्रकाशकस्वभावमेव देशकालाद्यौचित्येन सहायकरणात्प्रवचनं प्रकाशयन्तीति प्रभावकाः कथिताः, तेषां च कर्म प्रभावना, सा च सम्यक्त्वं निर्मलीकरोतीति, अन्यत्र पुनरन्यथाऽष्टौ प्रभावका उक्तास्तथाहि – “अइसेसइड्डि १ धम्मकहि २ वाई ३ आयरिय ४ खवग ५ नेमित्ती ६ । विज्जा ७ रायागणसंमया ८ य तित्थं पभावंति ॥ १ ॥” [ अतिशेषर्धयो धर्मकथको वादी आचार्यः क्षपकः नैमित्तिकः विद्यासिद्धः राजगणसंमतश्च तीर्थं प्रभावयन्ति ॥ १ ॥ ] तत्र अतिशेषा - अवधिमन:पर्ययज्ञानामर्षौषध्यादयोऽतिशयास्ते तैर्वा ऋद्धिर्यस्य सोऽतिशेषर्द्धिः, राजसम्मता - नृपवल्लभाः गणसम्मता -महाजनादिबहुमता इति ॥ ९३४ ॥ 'भूसण' त्ति व्याचिख्यासुराह -
184