________________
स्वच्छंदघटितविकल्परूपा लौकिकाचरिता, यथा - 'न सन्त्यनपत्यस्य लोकाः श्वानो यक्षाः विप्रा देवाः काका: पितामहाः बर्हिणां पक्षवातेन गर्भ इत्यादिका' इति, अपरे तु ज्ञानोपयोग ओघसंज्ञा दर्शनोपयोगो लोकसंज्ञेत्येवमाहुः, एते दशापि अयं जीव इति संज्ञानहेतुत्वात् संज्ञाः सर्वेषां संसारिजीवानां ज्ञेयाः, सुखप्रतिपत्तये च स्पष्टरूपाः पञ्चेन्द्रियानधिकृत्य व्याख्याताः, एकेन्द्रियादीनां स्वेता अव्यक्तरूपा अवगन्तव्या इति १४६ ॥ ९२४ ॥ इदानीं 'सन्नाओ पन्नर से' ति सप्तचत्वारिंशदधिकशततमं द्वारमाह
आहार १ भय २ परिग्गह ३ मेहुण ४ सुह ५ दुक्ख ६ मोह ७ वितिमिच्छा ८ । तह कोह ९
माण १० माया ११ लोहे १२ लोगे य १३ धम्मो १४ घे १५ ॥ ९२५ ॥
प्रक्रमायातस्य संज्ञाशब्दस्य प्रत्येकमभिसम्बन्धादाहारसंज्ञादय ओघसंज्ञापर्यन्ताः पञ्चदश संज्ञा भवन्ति, तत्र दश पूर्वोक्तस्वरूपा एव, सुखदुःखसंज्ञे-सातासातानुभवरूपे मोहसंज्ञा - मिध्यादर्शनरूपा विचिकित्सासंज्ञा - चित्तविलुतिलक्षणा धर्मसंज्ञा - क्षमाद्यासेवनस्वरूपा, एताश्च विशेषानुपादानाद्यथासम्भवं सर्वजीवानामवसेयाः, इह कचिद् प्रन्थे चतुर्विधाः संज्ञाः उक्ताः कचिद्दशविधाः कचित् तु पञ्चदशविधाः ततः कासाच्चित्पुनर्भणनेऽपि न पौनरुक्त्यमाशङ्कनीयं, तथा आचाराङ्गे विप्रलापवैमनस्यरूपां शोकसंज्ञां प्रक्षिप्य षोडश संज्ञाः प्रतिपादिता इति १४७ ।। ९२५ ॥ इदानीं 'सत्तसट्ठिलक्खणभेयविसुद्धं सम्मत्तं ति अष्टचत्वारिंशदधिकशततमं द्वारमाह
चउसद्दहण ४ तिर्लिंगं ३ दसविणय १० तिसुद्धि ३ पंचगयदोसं ५ । अट्ठपभावण ८ भूसण ५लक्खण ५ पंचविहसंजुत्तं ॥ ९२६ ॥ छधिहजयणा ६ ऽऽगारं ६ छन्भावण ६ भावियं च छट्ठाणं ६ । इय सत्तयसट्ठिलक्खणभेयविसुद्धं च सम्मत्तं ॥ ९२७ ॥ परमत्थसंथवो वा १ सुदिट्ठपरमत्थसेवणा वावि २ | बावन्न ३ कुदंसणवज्जणा य ४ सम्मत्तसद्दहणा ॥ ९२८ ॥ सुस्सूस १ धम्मराओ २ गुरुदेवाणं जहासमाहीए । वेयावच्चे नियमो ३ सम्मद्दिट्ठिस्स लिंगाई ॥ ९२९ ॥ अरहंत १ सिद्ध २ चेहय ३ सुए य ४ धम्मे य ५ साहुवग्गे य ६ । आयरिय ७ उवज्झाएस ८ य पवयणे ९ दंसणे १० यावि ॥ ९३० ॥ भत्ती पूया वन्नज्जलणं वज्जणमवन्नवायस्स । आसायणपरिहारो दंसणविणओ समासेणं ॥ ९३१ ॥ मोत्तूण जिणं १ मोत्तूण जिणमयं २ जिणमयट्ठिए मोतुं ३ | संसाकच्चवारं चिंतिज्जंतं जगं सेसं ॥ ९३२ ॥ संका १ ख २ विगिच्छा ३ पसंस ४ तह संधवो कुलिंगीसु ५ । सम्मत्तस्सऽइयारा परिहरियवा पयत्तेणं ॥ ९३३ ॥ पावयणी १ धम्मकही २ वाई ३ नेमित्तिओ ४ तवस्सी ५ य । विज्जा ६ सिद्धो य ७ कवी ८ अट्ठेव पभावगा भणिया ॥ ९३४ ॥ जिणसासणे कुसलया १ पभावणा २ऽऽययणसेवणा ३ थिरया ४ । भत्तीय ५ गुणा सम्मत्तदीवया उन्तमा पंच ॥ ९३५ ॥ उवसम १ संवेगोऽवि य २ निघेओ ३ तह य होइ अणुकंपा ४ । अत्थिकं चि ५ एए संमते लक्खणा पंच ॥ ९३६ ॥ नोअन्नतित्थिए अन्नतित्थिदेवे य तह सदेवेऽवि । गहिए कुतित्थि एहिं वंदामि न वा नम॑सामि ॥ ९३७ ॥ नेव अणालत्तो आलवेमि नो संलवेमि तह तेसिं । देमि न असणाईयं पेसेमि न गंधपुष्फाइ ॥ ९३८ ॥ रायाभिओगो य १ गणाभिओगो २, बलाभिओगो य ३ सुराभिओगो ४ । कतारवित्ती ५ गुरुनिग्गहो य ६, छ छिंडिआओ जिणसासमि ॥ ९३९ ॥ मूलं १ दारं २ पट्ठाणं ३, आहारो ४ भाषणं ५ निही ६ । दुच्छकस्सावि धम्मस्स, सम्मत्तं परिकित्तियं ॥ ९४० ॥ अस्थि य १ निच्चो २ कुणई ३ कथं च वेएह ४ अस्थि निवाणं ५ | अत्थि य मोक्खावाओ ६ छस्सम्मत्तस्स ठाणाई ॥ ९४१ ॥
चत्वारि श्रद्धानानि यत्र तच्चतुःश्रद्धानं, श्रद्धानचतुष्टयान्वितं सम्यक्त्वं भवतीति भावः, प्राकृतत्वाच प्रथमैकवचनलोपः, एवमग्रेऽपि यथासम्भवं समासो विभक्तिलोपश्च द्रष्टव्यः, 'त्रिलिङ्ग' मिति लिङ्गत्रययुक्तं दशविनयं - दशविधविनयोपेतं त्रिशुद्धं -शुद्धित्रयसमन्वितं 'पंचगयदो सं'ति गताः पथ्व दोषा यस्मात्तद्गतपश्वदोषं, दोषपश्चकपरिवर्जितमित्यर्थः, छन्दोभङ्गभयाच कान्तस्य परनिपातः, अष्टप्रभावनंअष्टविधप्रभावनापरिगतं 'भूसणलक्खणपंचविहसंजुत्तं'ति पश्वविधेन भूषणेन पश्यविधेन च लक्षणेन संयुक्तं, अत्रापि पञ्चविधशब्दस्य परनिपातस्तथैव, तथा षड्विधौ यतनाकारौ यस्य तत् षड्विधयतनाकारं षड्भिर्यतनाभिः षमिवाकारैः परिकलितमित्यर्थः, षड्भावनाभावितं - षङ्गिर्भावनाभिर्निरन्तरं परिशीलितं, षट्स्थानं स्थानषट्कयुक्तं, इत्येवं सप्तषष्ट्या 'लक्षणभेदैः' लक्ष्यते - निश्चीयते सम्यत्वमेभिरिति लक्षणानि - श्रद्धानादीनि तेषां भेदाः - प्रकाराः परमार्थसंस्तवादयस्तैर्विशुद्धं चस्यैवकारार्थत्वादेतैः सप्तषष्ट्या लक्षणभेदेर्विशुद्धमेव परमार्थतः सम्यक्त्वं भवति, सम्यक्शब्दः प्रशंसार्थोऽविरोधार्थो वा, सम्यग् - जीवस्तस्य भावः सम्यत्तत्वं प्रशस्तो मोक्षाविरोधी वा जीवस्य स्वभावविशेष इतियावत् ।। ९२७ ॥ अथैतानेव लक्षणभेदान् प्रत्येकं प्रतिपिपादयिषुः प्रथमं 'चउसद्दहणं' ति व्याख्यातुमाह - 'परमे 'त्यादि, परमाश्च - तात्त्विकाश्च तेऽर्थाश्च - जीवाजीवादयस्तेषु संस्तवः - परिचयस्तात्पर्येण बहुमानपुरस्सरं जीवादिपदार्थावगमाभ्यास इतियावत् वाशब्द उत्तरापेक्षया समुच्चये इति प्रथमं श्रद्धानं, तथा सुष्ठु सम्यग्नीत्या दृष्टा - उपलब्धाः परमार्था-जीवादयो यैस्ते सु
183