Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 199
________________ ततो धर्मधर्मिणोरभेदोपचारात् आत्मा सम्यक्त्ववान् सन् प्रसरति रुचिरूपेण प्रसरतीत्यर्थः, यदा तु 'पयरई उ सम्मत्ते' इति पाठस्तदा एकपदविषये सम्यक्त्वे-रुचौ सति अनेकेषु पदेषु प्रचरति-प्रकर्षेण व्यापितया गच्छति रुच्यात्मकत्वेनैवेत्यक्षरार्थः, भावार्थस्तु स एवेति, तुशब्दोऽवधारणे, प्रसरत्येव, कथमित्याह-उदक इव तैलबिन्दुः, किमुक्तं भवति ?-यथा उदकैकदेशगतोऽपि तैलबिन्दुः समस्तमुदकमानामति तथा तत्त्वैकदेशोत्पन्नरुचिरप्यात्मा तथाविधक्षयोपशमवशादशेषेषु तत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः, यथा हि बीजं क्रमेणानेकबीजानां जनकं एवमस्यापि रुचिविषयो भेदतो भिन्नानां रुच्यन्तराणामिति ॥९५५॥ अधिगमरुचिमाह-'सो'इत्यादि, यस्य श्रुतज्ञानमर्थतो दृष्ट, किमुक्तं भवति ?-येन श्रुतज्ञानस्यार्थोऽधिगतो भवति, किं पुनस्तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि-आचारादीनि प्रकीर्णकानि-उत्तराध्ययननन्द्यध्ययनादीनि दृष्टिवादः-परिकर्मसूत्रादिः, अङ्गत्वेऽपि पृथगुपादानमस्य प्राधान्यख्यापनार्थ, चशब्दादुपाङ्गानि चौपपातिकादीनि, स भवत्यधिगमरुचिः॥ ९५६ ॥ विस्ताररुचिमाह-'दवाण'मित्यादि, द्रव्याणां-धर्मास्तिकायादीनामशेषाणामपि सर्वे भावाः-पर्यायाः सर्वप्रमाणैः-अशेषैः प्रत्यक्षादिभिर्यस्योपलब्धाः-यस्य प्रमाणस्य यत्र व्यापारस्तेनैव प्रमाणेन प्रतीताः 'सबाहिति सश्च नयविधिभिः नैगमादिनयप्रकारैः, अमुं भावमयं अमुं चायं नयभेदमि(द इ)च्छतीति स विस्ताररुचिरिति ज्ञातव्यः, सर्ववस्तुपर्यायप्रपञ्चावगमेन तस्य रुचेरतिविमलरूपतया भावात्॥९५७॥ क्रियारुचिमाह-'नाणे इत्यादि, ज्ञाने तथा दर्शनं च चारित्रं च दर्शनचारित्रं समाहारद्वन्द्वस्तस्मिन् तथा तपसि विनये च, तथा सर्वासु समितिषु-ईर्यासमित्यादिषु सर्वासु च गुप्तिषु-मनोगुप्तिप्रभृतिषु 'सच्च'त्ति पाठे तु सत्या-निरुपचरितास्ताश्च ताः समितिगुप्तयश्च, यदिवा सत्यं च-अविसंवादनयोगाद्यात्मकं समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, किमुक्तं भवति ?-यस्य भावतो ज्ञानाद्याचारानुष्ठाने रुचिरस्ति स खलु क्रियारुचिर्नाम, इह च चारित्रान्तर्गतत्वेऽपि वपःप्रभृतीनां पुनरुपादानं विशेषत एषां मुक्त्यङ्गत्वख्यापनार्थ ॥ ९५८ ॥ सङ्केपरुचिमाह-'अणे'त्यादि, अनभिगृहीता-अनङ्गीकृता कुत्सिता दृष्टिः-सौगतादिदर्शनं येन स तथा, अविशारदः-अकुशलः प्रवचने-जिनप्रणीते शेषेषु च-कपिलादिप्रणीतेषु प्रवचनेषु अनभिगृहीतो-न विद्यतेऽभीत्याभिमुख्येनोपादेयतया गृहीतं-ग्रहणं ज्ञानमस्येत्यनभिगृहीतः, पूर्वमनभिगृहीतकुदृष्टिरित्यनेन दर्शनान्तरपरिग्रहः प्रतिषिद्धः अनेन तु परदर्शनपरिज्ञानमात्रमपि निषिद्धमिति विशेषः, इदमत्र तात्पर्य-उक्तविशेषणो यः सङ्केपेणैव चिलातीपुत्रवदुपशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स सङ्केपरुचिरुच्यते इति ॥ ९५९॥ धर्मरुचिमाह-'जो'इत्यादि, यः खलु जीवोऽस्तिकायानां-धर्मास्तिकायादीनां धर्मगत्युपष्टम्भकत्वादिरूपं स्वभावं श्रुतधर्मम्-अङ्गप्रविष्टाद्यागमस्वरूपं चारित्रधर्म च-सामायिकादिकं जिनाभिहितं-तीर्थकृदुक्तं श्रद्दधातितथेति प्रतिपद्यते स धर्मरुचिरिति ज्ञातव्यः, इह च शिष्यमतिव्युत्पादनार्थमित्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशयोरधिगमादौ वा कचित्केषाञ्चिदन्तर्भावोऽस्त्येवेति ।। ९६० ॥ अथ पूर्वोक्तान्येव क्षायिकादीनि त्रीणि सम्यक्त्वानि प्रसङ्गतो नारकादिजीवेषु चिन्तयन्नाह-'आई'त्यादिगाथाद्वयं, आद्यासु तिसृषु पृथिवीषु-रत्नप्रभाशर्कराप्रभावालुकाप्रभासु 'खयोवसमवेयगंति सूचकत्वात् सूत्रस्य क्षायिकमौपशमिकं वेदकं च सम्यक्त्वं भवति, इह च वेद्यन्ते-अनुभूयन्ते शुद्धसम्यक्त्वपुलपुद्गला अस्मिन्निति वेदकंक्षायोपशमिकं सम्यक्त्वमुच्यते, औपशमिकक्षायिकसम्यक्त्वयोः पुद्गलवेदनस्य सर्वथैवाभावात् , यत्पुनः क्षप्यमाणसम्यक्त्वपुखपुगलचरमग्रासलक्षणं वेदकसम्यक्त्वं पूर्वमुक्तं तदिह पृथग न विवक्षितं, पुद्गलवेदनस्य समानत्वेन क्षायोपशमिकसम्यक्त्व एव तस्यान्तर्भावात् , ततोऽयमर्थः-आद्यनरकपृथिवीत्रयवर्तिनारकाणां क्षायिकौपशमिकक्षायोपशमिकानि त्रीण्यपि सम्यक्त्वानि सम्भवन्तीति, तथाहि-योsनादिमिध्यादृष्टिारकः प्रथमं सम्यक्त्वमवाप्नोति तस्यान्तरकरणकालेऽन्तर्मुहूर्तमौपशमिकं सम्यक्त्वं भवति, औपशमिकसम्यक्त्वाचानन्तरं शुद्धसम्यक्त्वपुजपुद्गलान् वेदयतस्तस्यापि क्षायोपशमिकं सम्यक्त्वमवाप्यते, मनुष्यतिर्यग्भ्यो वा यः क्षायोपशमिकसम्यग्दृष्टि रकेषूत्पद्यते तस्यैतत्पारभविकं लभ्यते, विराधितसम्यक्त्वो हि षष्ठीपृथिवीं यावत् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्रन्थिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यमनुष्यो वा वान्तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते न गृहीतेनेति, यदा पुनः कश्चिन्मनुष्यो नारकयोग्यमायुर्बन्धं विधाय पश्चात्क्षपकश्रेणिमारभते बद्धायुष्कत्वाच्च तां न समापयति केवलं दर्शनसप्तकं क्षपयित्वा क्षायिकं सम्यक्त्वमवाप्नोति, ततश्च मनुष्यायुस्त्रुटिसमये मृत्वा नारकेषूत्पद्यते तदा आद्यपृथिवीत्रयनारकाणां पारभविकं क्षायिकं सम्यक्त्वमवाप्यते, न तु ताद्भविकं, मनुष्यस्यैव तद्भवे क्षायिकसम्यक्त्वारम्भकत्वादिति, तथा वैमानिकदेवानां 'पणिदितिरियाण'त्ति व्याख्यानतो विशेषावगतौ पञ्चेन्द्रियाणां मनुष्याणां तिरश्चां वा सङ्ख्येयवर्षायुषामेवमेव-पूर्वोक्तमेव, त्रीण्यपि सम्यक्त्वानि भवन्तीत्यर्थः॥ तत्र वैमानिकदेवानामौपशमिकं क्षायिकं च नारकवदेव, क्षायोपशमिकं त्वौपशमिकसम्यक्त्वानन्तरकालभावि ताद्भविकं, तिर्यक् मनुष्यो वा यः क्षायोपशमिकसम्यग्दृष्टिः सन् वैमानिकेषूत्पद्यते तस्यैतत्पारभविकं च लभ्यते, मनुष्यास्तु द्विविधाः सङ्ख्येयवर्षायुषोऽसङ्ख्येयवर्षायुषश्च, तत्र सङ्ख्येयवर्षायुषां मनुघ्याणामौपशमिकं सम्यक्त्वमनन्तरोक्तन्यायेन प्रथमसम्यक्त्वलाभकाले भवत्युपशमश्रेण्या वा, तदनन्तरकालादिभावि तु क्षायोपशमिकं ताद्भविकं, देवादीनां तु क्षायोपशमिकसम्यग्दृष्टीनां मनुष्येषूत्पत्तौ पारभविकं क्षायोपशमिकं, क्षायिकं तु क्षपकश्रेण्यां ताद्भविकं, नारकदेवानां क्षायिकसम्यग्दृष्टीनां मनुष्येषूत्पत्तौ पारभविकं तथैव, असङ्ख्येयवर्षायुषां पुनर्मनुष्याणामौपशमिकं झायिकं च नारकवदेव वाच्यं, क्षायोपशमिकं तु तदनन्तरकालादिभावि ताइविकं तथैव, तिर्यअनुष्यास्तु क्षायोपशमिकसम्यक्त्वयुक्ता वैमानिकेष्वेव जायन्ते नान्यत्र, ये तु मिथ्यादृष्ट्यवस्थायां बद्धायुष्कत्वादेषूत्पद्यन्ते ते अवश्यं मरणसमये मिथ्यात्वं गत्वैवोत्पद्यन्ते इति पारभविकं क्षायोपश 190

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310