Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
शरीरेरोगादिसम्भव इति ॥ ८६७ ॥ इह कालापेक्षया तथा तथा भवति आहारस्य प्रमाणं, कालश्च विधा, तथा चाह–'सीओ'इत्यादि, त्रिधा कालो ज्ञातव्यः, तद्यथा-शीत उष्णः साधारणश्च, 'तत्र' तेषु कालेषु मध्ये साधारणे काले आहारे-आहारविषये इयं-अनन्तरोक्ता मात्रा-प्रमाणं ॥ ८६८ ॥ 'सीए'इत्यादि, शीते-अतिशयेन शीतकाले द्रवस्य-पानीयस्य एको भागः कल्पनीयः चत्वारो भक्ते-भक्तस्य, मध्यमे तु शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ त्रयस्तु भागा भक्तस्य, अथवेतिशब्दो मध्यमशीतकालसंसूचनार्थः, तथा उष्णे-मध्यमोष्णकाले द्वौ भागौ द्रवस्य-पानीयस्य कल्पनीयौ शेषास्तु त्रयो भागा भक्तस्य, अत्युष्णे च काले त्रयो भागा द्रवस्य शेषौ तु द्वौ भागौ भक्तस्य, वाशब्दोऽत्रात्युष्णकालसंसूचनार्थः, सर्वत्र च षष्ठो भागो वायुप्रविचारणार्थ मुत्कलो मोक्तव्यः ।। ८६९॥ सम्प्रति भागानां चरस्थिरविभागप्रदर्शनार्थमाह-'एगो'इत्यादि, एको द्रवस्य भागोऽवस्थितो, न कदाचिदपि न भवतीति भावः, द्वौ च भागौ भोजनस्य, शेषौ तु द्वौ द्वौ भागौ एकैकस्मिन्-भक्ते पाने चेत्यर्थः, वर्धते वा हीयेते वा, वृद्धिं वा व्रजतो हानि वा व्रजत इत्यर्थः, तथाहि-अतिशीतकाले द्वौ भागौ भोजनस्य वर्धते अत्युष्णकाले च पानीयस्य, अत्युष्णकाले च द्वौ भागौ भोजनस्य हीयेते अतिशीतकाले च पानीयस्येति॥ ८७०॥१३२॥ साम्प्रतं 'वसहिसुद्धि'त्ति त्रयविंशदुत्तरशततमं द्वारमाह
पट्टीवंसो दो धारणाउ चत्तारि मूलवेलीओ। मूलगुणेहिं विसुद्धा एसा हु अहागडा वसही ॥ ८७१॥ वंसगकडणोकंवण छायण लेवण दुवारभूमी य । परिकम्मविप्पमुक्का एसा मूलुत्तरगुणेसु ॥ ८७२ ॥ दूमिय धूविय वासिय उज्जोइय बलिकडा अवत्ता य । सित्ता संमहावि य विसोहिकोडिं गया वसही ॥ ८७३ ॥ मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेविज सबकालं
विवजए हुंति दोसा उ ॥ ८७४ ॥ उपरितनस्तिर्यपाती पृष्ठवंशो गृहसम्बन्धी मध्यवलक इत्यर्थः द्वौ मूलधारिण्यौ-बृहद्बल्यौ ययोरुपरि पृष्ठवंशस्तिर्यक् स्थाप्यते, चतस्रो मूलवेलयश्चतुषु गृहपार्श्वेषु, उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् , एते च वसतेः सप्त मूलगुणाः, एतैर्मूलगुणैः सप्तमिरात्मार्थ कृतैः सद्भिर्वसतिर्विशुद्धा भवति, या पुनः साधुसङ्कल्पेन निष्पादितैर्मूलगुणैर्युक्ता एषा हुः-स्फुटं आधाकृता भवति-साधूनाधाय-सम्प्रधार्य कृता आधाकृता आधाकर्मिकीत्यर्थः, उक्ता मूलगुणविशुद्धा वसतिः, अथोत्तरगुणविशुद्धाऽमिधीयते, ते चोत्तरगुणा द्विविधा:-मूलोत्तरगुणा उत्तरोत्तरगुणाश्च, तत्र प्रथमं तावन्मूलोत्तरगुणानाह-वंसगे'त्यादि, वंशका ये मूलवेलीनामुपरि स्थाप्यन्ते, पृष्ठवंशस्योपरि तिर्यक कटनं-कटादिभिः समन्ततः पार्वाणामाच्छादनं उत्कम्बन-उपरि कम्बिकानां बन्धनं छादनं-दर्भादिमिराच्छादनं लेपनं-कुड्यानां कर्दमेन गोमयेन च लेपप्रदानं 'दुवार'त्ति संयतनिमित्तमन्यतो वसतेभरकरणं बृहदल्पद्वारकरणं वा 'भूमि'त्ति विषमाया भूमेः समीकरणं, एते सप्त मूलभूता उत्तरगुणा मूलोत्तरगुणाः, उत्तरगुणेषु एते मूलगुणा इत्यर्थः, एतद्रूपं यत्परिकर्म-साध्वर्थमेतेषां निष्पादनं तेन विप्रमुक्ता-विरहिता या वसतिरेषा मूलोत्तरगुणेषु विशुद्धा, एतानि सप्त साध्वर्थ यत्र न कृतानि सा मूलोत्तरगुणविशुद्धा वसतिरिति भावः, एते च पृष्ठवंशादयश्चतुर्दशाप्यविशोधिकोटिः, उत्तरोत्तरगुणास्तु विशोधिकोटिः, ते चामी-'दूमिये'त्यादि, दूमिया नाम-सुकुमारलेपनेन कोमलीकृतकुड्या खटिकया धवलीकृतकुड्या च धूपिता-दुर्गन्धेतिकृत्वाऽगुरुधूपादिमिः सुगन्धीकृता वासिता-पटवासपुष्पादिमिरपनीतदौर्गन्ध्या उद्योतिता-रत्नप्रदीपादिमिरन्धकारे प्रकाशिता बलीकृता-कृतापूपकूरादिबलिविधाना अवत्ता-छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला सिक्ता-केवलोदकेन आकृता सम्मृष्टा सम्मार्जिन्या प्रमार्जिता, एतैरुत्तरोत्तरगुणैः संयतनिमित्तं कृतैर्विशोधिकोटिं गता वसतिः, अविशोधिकोटौ न भवतीत्यर्थः, यत्र तु साध्वर्थमेते न निष्पादिताः सा वसतिर्विशुद्धैवेति । तथा चाह
-मूलुत्ते'त्यादि, मूलोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवर्जितां वसति सेवेत सर्वकालं, विपर्यये-अशुद्धायां ज्यादिसंसक्तायां च वसतौ भवन्ति दोषा इति, एतद्नुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, यत्पुनरिह सूत्रे चतुःशालाद्यपेक्षया मूलोत्तरगुणविभागः साक्षान्नोक्तस्तत्रेदं कारणं-यथा विहरतां साधूनां श्रुताध्ययनादिव्याक्षेपपरिहारार्थ प्रायो प्रामादिष्वेव वासः सम्भवति, तत्र च वसतिः पृष्ठवंशादियुक्तैव भवति, ततस्तासामेव वसतीनां साक्षाद्भणनमिति, उक्तं च-"चाउस्सालाईए विन्नेओ एवमेव उ विभागो। इह मूलाइगुणाणं सक्खा पुण सुण न जं भणिओ ॥१॥ विहरंताणं पायं समत्तकजाण जेण गामेसु । वासो तेसु य वसही पट्ठाइजुया अओ तासि ॥२॥" ॥ ८७४ ॥ १३३ ॥ साम्प्रतं 'संलेहणा दुवालस वरिसे'त्ति चतुस्त्रिंशदुत्तरशततमं द्वारमाह
चत्तारि दिचित्ताई ४ विगईनिज्जूहियाइं चत्तारि ४ । संवच्छरे य दोन्नि उ एगंतरियं च आयामं १०॥८७५॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अवरेऽवि य छम्मासे होइ विगिहें तवोकम्मं ११॥ ८७६ ॥ वासं कोडीसहियं १२ आयामं कटु आणुपुवीए । गिरिकंदरं व
गंतुं पाओवगमं पवजेइ ॥ ८७७॥ संलेखनं संलेखना-आगमोक्तेन विधिना शरीराद्यपकर्षणं, सा च त्रिविधा-जघन्या पाण्मासिकी मध्यमा संवत्सरप्रमाणा उत्कृष्टा तु द्वादश वर्षाणि, तत्र उत्कृष्टा तावदेवं-प्रथमं चत्वारि वर्षाणि 'विचित्राणि विचित्रतपांसि करोति, किमुक्तं भवति?-चत्वारि वर्षाणि
169

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310