Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
२ ॥९२०॥९२१॥ अथ दृष्टिवादोपदेशसंज्ञया संज्ञिनमसंज्ञिनं चाह-'सम्मेत्यादि, दृष्टिवादोपदेशेन क्षायोपशमिके ज्ञाने वर्तमानः सम्यग्दृष्टिरेव संज्ञी, संज्ञानं संज्ञा-सम्यग्ज्ञानं तयुक्तत्वात् , मिथ्यादृष्टिः पुनरसंज्ञी विपर्ययत्वेन वस्तुतः सम्यग्ज्ञानरूपसंज्ञारहितत्वात् , यद्यपि च मिथ्यादृष्टिरपि सम्यग्दृष्टिरिव घटादिकं जानीते व्यवहरति च तथापि तस्य सम्बन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमेवोच्यते, स्याद्वादाश्रयणेन ज्ञाननिबन्धनस्य भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यभावात् , आह-यदि विशिष्टसंज्ञायुक्तत्वात् सम्यग्दृष्टिः संझीष्यते तर्हि किमिति झायोपशमिकज्ञानयुक्तोऽसौ गृह्यते ?, क्षायिकज्ञाने हि विशिष्टतरा सा प्राप्यते, ततस्तवृत्तिरप्यसौ किं नाङ्गीक्रियते ?, उच्यते, यतोऽतीतस्यार्थस्य स्मरणमनागतस्य च चिन्ता संज्ञाऽभिधीयते,सा च केवलिनि नास्ति, सर्वदा सर्वार्थावभासकत्वेन केवलिनां स्मरणचिन्ताद्यतीतत्वात् इति क्षायोपशमिकज्ञान्येव सम्यग्दृष्टिः संज्ञीति । ननु प्रथमं हेतुवादोपदेशेन संज्ञी वक्तुं युज्यते, हेतुवादोपदेशेनाल्पमनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगमात् तस्य चाविशुद्धतरत्वात् , ततो दीर्घकालोपदेशेन, हेतूपदेशसंश्यपेक्षया दीर्घकालोपदेशसंज्ञिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात् , तत्किमर्थमुत्क्रमोपन्यासः ?, उच्यते, इह सर्वत्र सूत्रे यत्र कचित्संज्ञी असंज्ञी वा परिगृह्यते तत्र सर्वत्रापि प्रायो दीर्घकालोपदेशेन गृह्यते न हेतुवादोपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत्संप्रत्ययार्थ प्रथमं दीर्घकालोपदेशेन संज्ञिनो ग्रहणं, उक्तं च-"सन्नित्ति असन्नित्ति य सव्वसुए कालिओवएसेणं । पायं संववहारो कीरइ तेणाइओ स कओ॥१॥" ततोऽनन्तरमप्रधानत्वात् हेतूपदेशेन संझिनो ग्रहणं, ततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेनेति१४४॥९२२॥ इदानीं 'सन्नाओ चउरो'त्ति पश्चचत्वारिंशदुत्तरशततमं द्वारमाह
आहार १ भय २ परिग्गह ३ मेहुण ४ रूवाओ हुंति चत्तारि। सत्ताणं सन्नाओ आसंसारं समग्गाणं ॥ ९२३ ॥ संज्ञानं संज्ञा-आभोगः, सा द्विधा-क्षायोपशमिकी औदयिकी च, तत्राद्या ज्ञानावरणक्षयोपशमजन्यमतिभेदरूपा, सा चानन्तरमेवोक्ता, द्वितीया पुनः सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्र क्षुद्वेदनीयोदयाद् या कवलाद्याहाराद्यर्थ तथाविधपुद्गलोपादानक्रिया सा आहारसंज्ञा, तस्या आभोगात्मिकत्वात् , सा पुनश्चतुर्भिः कारणैः समुत्पद्यते, यदुक्तं स्थानाङ्गे-"चउहिं ठाणेहिं आहारसन्ना समुप्पज्जइ, तंजहा-ओमकुट्ठयाए छुहावेयणिजस्स कम्मस्सुदएणं मईए तदट्ठोवओगेणं"ति, तत्र अवमकोष्ठतया-रिक्तोदरतया क्षुद्वेदनीयस्य कर्मण उदयेन मत्या-आहारकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन-सततमाहारचिन्तयेति १ तथा भयमोहनीयोदयाद्भयोद्धान्तस्य दृष्टिवदनविकाररोमाञ्चोढ़ेदादिक्रिया भयसंज्ञा, इयमपि चतुर्भिः स्थानरुत्पद्यते, यदुक्तं-"हीणसत्तयाए भयवेयणिजस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं"ति, तत्र हीनसत्त्वतया-सत्त्वाभावेन भयवेदनीयस्य कर्मण उदयेन मत्या-भयवार्ताश्रवणभीषणदर्शनादिजनितया बुद्ध्या तदर्थोपयोगेन-इहलोकादिसप्तभयलक्षणार्थपर्यालोचनेनेति २ तथा लोभोदयात्प्रधानसंसारकारणामिष्वङ्गपूर्विका सचित्तेतरद्रव्योपादानक्रिया परिग्रहसंज्ञा, एषापि चतुर्भिः स्थानैरुत्पद्यते, यदुक्तम्-"अविमुत्तयाए लोभवेयणिजस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं"ति, तत्र अविमुक्ततया-सपरिग्रहतया लोभवेदनीयकर्मण उदयेन मत्या-सचेतनादिपरिप्रदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति ३ तथा पुंवेदोदयान्मैथुनाय ख्यालोकनप्रसन्नवदनसंस्तंभितोरुवेपथुप्रभृतिलक्षणा क्रिया मैथुनसंज्ञा, असावपि चतुर्भिः स्थानरुत्पद्यते, यदुक्तम्-'चियमंससोणियाए मोहणिज्जस्स कम्मस्स उदएणं मईए तदट्ठोवओगेण ति, तत्र चिते-उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया मोहनीयस्य कर्मण उदयेन मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयोगेन-मैथुनलक्षणार्थचिन्तनेनेति ४, एताश्चतस्रः संज्ञाः समप्राणामेकेन्द्रियादीनां पञ्चेन्द्रियपर्यवसानानां सत्त्वानां-जीवानामासंसार-संसारवासं यावद्धवन्ति, तथा च केषाश्चिदेकेन्द्रियाणामप्येताः स्पष्टमेवोपलभ्यन्ते, तथाहि-जलाद्याहारोपजीवनाद्वनस्पत्यादीनामाहारसंज्ञा सङ्कोचनीवयादीनां तु हस्तस्पर्शादिभीत्या अवयवसकोचनादिभ्यो भयसंज्ञा बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरि पादमोचनादिभ्यः परिप्रहसंज्ञा कुरुबकाशोकतिलकादीनां तु कमनीयकामिनीभुजलतावगूहुनपाणिप्रहारकटाक्षविक्षेपादिभ्यः प्रसूनपल्लवादिप्रसवप्रदर्शनान्मैथुनसंशेति १४५ ॥ ९२३ ॥ इदानीं 'सन्नाओ दसत्ति षट्चत्वारिंशदधिकशततमं द्वारमाह
आहार १ भय २ परिग्गह ३ मेहुण ४ तह कोह ५ माण ६ माया ७ य । लोभो ८ह ९ लोग १. सन्ना दसवेया सबजीवाणं ॥ ९२४॥ संज्ञायतेऽनयाऽयं जीव इति संज्ञा-वेदनीयमोहोदयाश्रिता ज्ञानावरणदर्शनावरणक्षयोपशमाश्रिता च विचित्राहारादिप्राप्तिक्रिया, सा चोपाधिभेदाशविधा, तत्राहारभयपरिग्रहमैथुनसंज्ञा अनन्तरमेव व्याख्याताः, तथा क्रोधवेदनीयोदयात्तदावेशगर्मा परुषमुखनयनदन्तच्छदस्फुरणादिचेष्टा क्रोधसंज्ञा मानोदयादहकारात्मिका उत्सेकादिपरिणतिर्मानसंज्ञा मायावेदनीयेनाशुभसाकेशादनृतसम्भाषणादिक्रिया मायासंज्ञा लोभवेदनीयोदयतो लालसत्वेन सचित्तेतरद्रव्यप्रार्थना लोभसंज्ञा, तथा मतिज्ञानावरणकर्मक्षयोपशमात् शब्दाद्यर्थगोचरा सामान्यावबोधक्रिया ओघसंज्ञा तद्विशेषावबोधक्रिया लोकसंज्ञा, एवं चेदमापतितं-दर्शनोपयोग ओघसंज्ञा ज्ञानोपयोगो लोकसंज्ञा, एष स्थानाङ्गटीकामिप्रायः, आचाराङ्गटीकायां पुनरमिहितं-ओघसंज्ञा तु अव्यक्तोपयोगरूपा वल्लीवितानारोहणादिसंज्ञा लोकसंज्ञा तु
182

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310