Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 181
________________ 1 गमनगोचरोऽभूदित्यभूतपूर्वत्वादाश्चर्य, इह किल श्रूयते हस्तिनागपुरे युधिष्ठिरप्रष्ठाः पञ्चापि पाण्डवाः काम्पिल्यपुराधिपद्रुपदनृपपुत्र्या द्रौपद्या सह सहर्षं वारकेण विषयसुखमुपभुञ्जानाः परमप्रमोदेन दिनान्यतिवाहयन्ति स्म, अन्येद्युर्नारदनामा मुनिर्मनः समीहितान् देशान् परिभ्राम्यन् द्रौपदीमन्दिरमाययौ, द्रौपद्या चाविरतोऽयमिति मत्वा नमस्कृतिमात्रेणापि न तस्य प्रतिपत्तिः कृता, ततोऽसौ क्रोधाध्मातमना नारदः कथमियं महादुःखभाग्भविष्यतीति चिन्तयंस्तन्निकेतनान्निर्गत्य भरतक्षेत्रे च कृष्णभयात्तस्याः कुतोऽप्यपायमपश्यन् धातकीखण्डसम्बन्धिभरतक्षेत्रे चम्पाघिपतिकपिलाख्यकेशव सेवकस्य ललनालम्पटस्य पद्मनाभनृपस्य पुरीमपरकङ्कामिधामभ्यगात्, सोsपि नृपः ससम्भ्रममुत्थाय प्रतिपत्तिपुरस्सरमन्तःपुरे नीत्वा निखिला अपि निजप्रेयसीः प्रदर्शयन् भगवन् ! अनवरतं सर्वत्राप्यस्खलितप्रचारेण भवता विलोकिताः काप्येवंविधाः पुरन्धय इति नारदं निजगाद, नारदोऽपि सेत्स्यत्यनेन मम प्रयोजनमिति मनसि निश्चित्य प्रत्यवादीत् - राजन् ! कूपमण्डूक इव किमेतामिः स्वान्तःपुरीभिः प्रमोदमानमानसो भवान् ?, यज्जम्बूद्वीपभरतभूषणायमाने हस्तिनागपुरे पाण्डवानां प्रेयस्या द्रौपद्याः पुरस्तादेताः सर्वा अपि दासीदेश्या एवेत्यभिधाय नारदमुनिरुत्पपात, अथ पद्मनाभो द्रौपदीप्राप्तिपर्याकुलः पातालनिवासिनं पूर्वसङ्गतिकं सुरं तपसा समाराध्य प्रत्यक्षीभूतं किं करोमीतिवादिनं पाण्डवप्रणयिनीं द्रौपदीमिहानीय मम समर्पयेत्यवादीत्, देवोऽपि महाराज ! द्रौपदी हि महासती पाण्डवव्यतिरेकेण नान्यं मनसाऽपि पतिमभिलषति तथाऽपि त्वन्निर्बन्धादत्रानयामीत्युक्त्वा हस्तिनागपुरादवस्वापिनीदानेन निशि प्रसुप्तां द्रौपदीमपहृत्य तस्मै समर्पयामास, पद्मनाभोऽपि प्रमुदितमनाः प्रबुद्धां निजयिताद्यनवलोकनेन विह्वलितहृदयां द्रौपदीमभाषत - मा भैषीर्मृगाक्षि ! मयैवेह त्वमानायिताऽसि, अहं हि धातकीखण्डभरतक्षेत्रे अपरकङ्कापुरीपतिः पद्मनाभनामा नृपस्त्वां प्रेयसीं प्रार्थये, ततो मया सह स्वेच्छयाऽतुच्छान् भोगान् भुङ्क्ष्वेति, द्रौपद्यपि च तद्वचः श्रुत्वा तत्कालसमुत्पन्नमतिः षण्मासमध्ये यदि मदीयः कोऽपि इह नागमिष्यति तदा त्वदीयं समीहितं करिष्यामीत्यवोचत, राज्ञाऽपि जम्बूद्वीपजुषां पुरुषाणामत्रागमनमसंभवीति विमृश्य तद्वचः प्रत्यप्रद्यत इतश्च पाण्डवाः प्रभाते द्रौपदीमपश्यन्तः सादरं सर्वत्रान्वेषणेऽपि तद्वार्तामप्यलभमानाः समप्रमपि वृत्तान्तं वासुदेवाय न्यवेदयन्, वासुदेवोऽपि किंकर्तव्यतामूढो यावदास्ते तावदकस्मान्नारदमुनिस्तत्र स्वयं कृतमनर्थमवलो - कयितुमाजगाम, सर्वत्राप्यस्खलितप्रचारं सञ्चरता भवता किं कापि द्रौपदी दृष्टेति कृष्णेनानुयुक्तः स उक्तवान्- धातकीखण्डेऽमरकङ्कायां नगर्यां गतेन मया पद्मनाभनृपस्य सद्मनि द्रौपदी दृष्टेत्यभिधाय सोऽन्यतोऽगमत्, ततः कृष्णः पद्मनृपतिना द्रौपदी हृता एषोऽहं तामिहानेष्यामीति मा मनागपि खेदं विदध्वमिति पाण्डवान् समाश्वास्य महापृतनापरिवृतः पाण्डवैः सह दक्षिणाम्भोनिधितट निकटमभ्यगात्, पाण्डवा अप्यत्यन्तभीषणमपारं पारावारमवलोक्य स्वामिन्नयं मनसाऽप्यलङ्घयः कथं लङ्घनीय इति विष्णुं व्यजिज्ञपन्, विष्णुरपि न काचिचिन्ता भवद्भिर्विधेयेति तानुक्त्वाऽष्टमतपसा सुस्थितनामानं लवणसमुद्रस्वामिनममरमाराधयामास, अथाविर्भूय देवेन किं करोमीत्युक्ते विष्णुरवदत् - सुरश्रेष्ठ ! पद्मनाभनृपत्यपहृता धातकीखण्डद्वीपाद द्रौपदी द्रुतमेव यथा समानीयते तथा कुर्विति, देवोऽपि यथा पद्मनाभपार्थिवस्य पूर्वसङ्गतसुरेणापहृत्य समर्पिता तथा तवाप्यहमर्पयामि यद्वा तं सबलवाहनमम्भोनिधिमध्ये क्षिप्त्वा तामानयामीत्यादि बहु जल्पितवान्, कृष्णोऽप्यभाषत - नायं यशस्करः पन्थाः, ततः पाण्डवानां ममापि च षण्णां रथानामम्भोधिमध्येन मार्गमव्याहतं कुरु येन स्वयमेव तत्र गत्वा तं च युधि विनिर्जित्य द्रुपदतनयामानयाम इति, सुस्थितेन च तथैव कृते श्रीपतिः पश्चभिः पाण्डवैः सह द्विलक्षयोजनप्रमाणमपि जलधिं स्थलमिवोल्लङ्घयापरकङ्कापुरीपरिसरोद्याने च स्थित्वा प्रथमं दारुकाख्यदूतप्रेषणेन द्रौपदीमयाचत, पद्मोऽपि स तत्रैव वासुदेवः इह त्वात्मषष्ठोऽप्यसौ मम न किच्चित् ततो गत्वा युद्धाय स्वस्वामिनं सज्जयेति सगर्वमभिधाय युयुत्सुः ससैन्यः सन्ना तदेवोद्यानमागमत् विष्णुरपि दारुकवचनश्रवणाद् द्विगुणीभूतरोषस्तं ससैन्यमापतन्तमालोक्य शङ्खमापूर्य तद्धनिना सेनात्रिभागमनाशयत्, ततः शार्ङ्गस्फालनजनितध्वनिनाऽपि सैन्यत्रिभागे नाशिते पद्मनाभनृपोऽवतिष्ठमानतृतीयांशबलो रणाङ्गणान्नंट्वा निजपुरीमध्ये प्रविश्य गोपुराणि पिहितवान्, कृष्णोऽपि सक्रोधं रथादवतीर्य नृसिंहरूपधारी नितान्तं गर्जन्निजपाददर्दरैः पुरमपातयत् ततः पद्मनाभो भयव्याकुलितः क्षम्यतां २ देवि ! रक्ष २ मामस्मात्क्रुद्धात्कृष्णादिति वदन् द्रौपदीं शरणमगमत्, तयाऽपि मां पुरस्कृत्य विधाय च स्त्रीवेषं शार्ङ्गिणमेव शरणं व्रजेत्युक्तः स तथा कृतवान्, कृष्णोऽपि द्रौपदीं पाण्डवानामर्पयित्वा तेनैव पथा रथारूढः प्रतिनिवृत्तः, तदानीं च तत्र चम्पायां पुर्यामुद्याने समवसृतं मुनिसुव्रतजिनं कपिलनामा वासुदेवस्तत्समीपमासीनः स्वामिन्! कस्यायं ममेव शङ्खस्वनः श्रूयते ?, इति पप्रच्छ, भगवानपि समयं द्रौपदीवृत्तान्तमाख्यत्, ततः कपिलो जम्बूद्वीपभरतार्धाधिपतेरभ्यागतस्य स्वागत भवामीति भगवन्तमपृच्छत्, ततो भगवता यथैकत्र द्वितीयोऽर्हन्न चक्रभृन्न तथा विष्णुरपि न भवति, तथा कारणादागतोऽपि नान्येन मिलतीत्युक्तोऽपि कपिलः कौतुकात् कृष्णदिदृक्षया जलधितटे जगाम, दृष्टवांश्चाम्भोधिमध्येन व्रजतो विष्णो रथध्वजान् ततः कपिलनामा वासुदेवस्त्वां द्रष्टुमुत्कण्ठितोऽहमिहागतस्तद्वलखेति स्पष्टाक्षरं शङ्खमवादयत्, कृष्णोऽपि वयमतिदूरं गतास्ततस्त्वया न किचिद्वाच्यमिति व्यक्ताक्षरं शङ्खध्वनिना तं प्रतिबोध्य क्रमेण स्वस्थानं प्राप्त इति ५ । तथा कौशाम्ब्यां नगर्या समवसृतस्य भगवतः श्रीवर्धमानविभोर्वन्दनार्थं पश्चिमपौरुष्यामवतरणं - आकाशात्समवसरणभुवि समागमनं युगपचन्द्रसूर्ययोः शाश्वतविमानस्थितयोर्बभूव इदमप्याश्चर्यमेव, अन्यदा हि उत्तरवैक्रियविमानेनैवावतरत इति ६ । तथा हरे: - पुरुषविशेषस्य वंशः - पुत्रपौत्रादिपरम्परा हरिवंश: तल्लक्षणं यत्कुलं तस्योत्पत्तिर्हरिवंशकुलोत्पत्तिः, कुलं ह्यनेकधा ततो हरिवंशेन विशेष्यते, एतदपि च पूर्वमभूतत्वादाश्चर्यमेवेति श्रूयते हि इहैव जम्बूद्वीपभरतक्षेत्रे 172 1

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310