Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
ज्यशीत्यधिकानि, शेषस्य चाष्टाशीतिरूपभाज्यराशेश्चतुर्विशत्युत्तरशतरूपभाजकराशेश्व यथोक्तभागानयनाय द्विकेनापवर्तना क्रियते, लब्धाश्चतुश्चत्वारिंशत् द्वाषष्टिभागाः एषोऽभिवर्धितसंवत्सरः, एवं पञ्चमोऽपि, एमिश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तच द्विषष्टिचन्द्रमासप्रमाणं, तथाहि-युगे त्रयश्चन्द्रसंवत्सराः एकैकस्मिंश्च चन्द्रसंवत्सरे द्वादश चन्द्रमासाः ततस्त्रयो द्वादशभिर्गुण्यन्ते जाताः षत्रिंशत् , अभिवर्धितसंवत्सरौ च युगे द्वावेवं एकैकस्मिंश्चामिवर्धितसंवत्सरे त्रयोदश चन्द्रमासाः, अधिकमासकस्य तत्र सद्भावात् , ततो द्वौ त्रयोदशभिर्गुण्येते जाताः षड्विंशतिः, उभयमीलने च द्वाषष्टिश्चन्द्रमासा इति १४२ ॥ ९०१ ॥ इदानीं 'लोगस्सरूवंति त्रिचत्वारिंशदधिकशततमं द्वारमाह
माधवईएँ तलाओ ईसिंपन्भारउवरिमतलं जा । चउदसरजू लोगो तस्साहो वित्थरे सत्त ॥९०२॥ उवरिं पएसहाणी ता नेया जाव भूतले एगा। तयणुप्पएसवुढी पंचमकप्पंमि जा पंच ॥९०३ ॥ पुणरवि पएसहाणी जा सिद्धसिलाऍ एकगा रजू । घम्माए लोगमज्झो जोयणअस्सं. खकोडीहिं ॥ ९०४ ॥ हेट्टाहोमुहमल्लगतुल्लो उवरिं तु संपुडठियाणं । अणुसरह मल्लगाणं लोगो पंचस्थिकायमओ ॥९०५॥ तिरियं सत्तावन्ना उर्दु पंचेव हुँति रेहाओ । पाएसु चउसु रजू चउदस रजू य तसनाडी ॥९०६॥ तिरियं चउरो दोसुंछ होसुं अट्ठ दस य इकिके । बारस दोसुं सोलस दोसुं वीसा य चउसुंपि ॥९०७ ॥ पुणरवि सोलस दोसुं पारस दोसुपि हुंति नायवा । तिम दस तिसु अट्ट च्छा य दोसु दोसुंपि चत्तारि ॥९०८॥ ओयरिय लोयमझा चउरो चउरो य सवहिं नेया । तिग तिग दुग दुग एकिकगो य जा सत्तमी पुढवी ॥ ९०९॥ अडवीसा छबीसा चउवीसा वीस सोल दस चउरो। सत्तासुवि पुढवीसुं तिरियं खण्डुयगपरिमाणं ॥९१०॥ पंच सय बारसुत्तर हेट्ठा तिसया उ चउर अन्भहिया । अह उर्दू अह सया सोलहिया खंडया सवे ॥ ९११ ॥ बत्तीसं रजुओ हेहा रुयगस्स हुँति नायचा । एगोणवीसमुवरि इगवन्ना सबर्पिडेणं ॥ ९१२॥ दाहिणपास दुखंडा वामे संधिज विहियविवरीयं । नाडीजुया तिरजू उड्डाहो सत्त तो जाया ॥९१३ ॥ हेहाओ वामखंडं दाहिणपासंमि ठवसु विवरीयं । उवरिम तिरजु खंड वामे ठाणंमि संधिज्जा ॥९१४॥ तिन्नि सया तेयाला रज्जूर्ण हुंति सबलोगम्मि । चउरंसं होइ जयं सत्तण्ह घणेणिमा संखा ॥ ९१५ ॥ छसु खंडगेसु य दुगं चउसु दुगं दससु हुँति चत्तारि । चउसु चउकं गेवेजणुत्तराई चउक्कमि ॥ ९१६ ॥ सयंभुपुरिमंताओ अवरंतो जाव रज्जु
माणं तु । एएण रज्जुमाणेण लोगो चउद्दसरजुओ ॥ ९१७॥ माघवत्याः-समस्तमप्रभापराभिधानायाः सप्तमनरकपृथिव्यास्तलाद्-अलोकसंस्पर्शिनः सर्वाधस्तनभागादारभ्य ईषत्प्रारभारायाः-सिद्धशिलायाः सर्वोपरितनतलं लोकान्तलक्षणं यावदूर्भाधोभागेन चतुर्दशरज्जूप्रमाणो लोको भवति, तस्य च लोकस्याधस्तात्-सप्तमपृथिव्या अधोभागे विस्तरतो देशोनाः सप्त रजवः, सूत्रकारेण त्वल्पत्वाद्देशोनत्वं न विवक्षितं, ततोऽधोलोकान्तादुपरि प्रदेशहानि:-तिर्यगलासध्येयभागानिस्तावद् ज्ञातव्यां यावद् भूतले-तिर्यग्लोकमध्यवर्तिसमभूमिभागे विस्तरत एका रज्जूः, तदनु-समभूमिभागादुपरिमुखं प्रदेशवृद्धिः-तिर्यगडलासङ्ख्येयभागवृद्धिस्तावद् द्रष्टव्या यावदूर्द्धलोकमध्ये पञ्चमे ब्रह्मलोकामिधे कल्पे विस्तरतः पञ्च रजवः, ततः पुनरप्यूर्द्ध प्रदेशहानिस्तावदवसेया यावत्सिद्धशिलाया उपरिष्टाल्लोकान्ते विस्तरत एकैव रज्जूः, घायां च-रत्नप्रभापराभिधानायां प्रथमपृथिव्यां योजनानामसङ्ख्याताभिः कोटिभिर्बहुसमभूभिभागादतिक्रान्तामिलोंकमध्यं, इयमत्र भावना-इह सामस्त्येन चतुर्दशरज्ज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्यथा-ऊर्द्धलोकस्तिर्यग्लोकोऽधोलोकश्च, तत्र तिर्यग्लोकस्य ऊर्ध्वाधोऽपेक्षया अष्टादशयोजनशतप्रमाणस्य मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुबहुमध्येऽष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्वाधस्तनाः, एष एव रुचकः सर्वासां विशां विदिशां च प्रवर्तकः, एतस्माच्च रुचकादू धस्तिर्यग्लोकविभागाः, तथाहि-रुचकस्याधस्तादुपरिष्टाच नव नव योजनशतानि तिर्यग्लोकः तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादू लोकः, देशोनसप्तरज्जूप्रमाण ऊर्द्धलोकः समधिकसप्तरज्जूप्रमाणोऽधोलोकः मध्येऽष्टादशयोजनशतोच्छ्रयस्तिर्यम्लोकः, ततो-रुचकसमभूतलभागादधोमुखमसङ्ख्याता योजनकोटीर्गत्वा रत्नप्रभायां चतुर्दशरज्ज्वात्मकस्य लोकस्य मध्यभागः परिपूर्णसप्तरज्जूप्रमाणो भवतीति ॥९०२॥९०३॥९०४॥ सम्प्रति लोकस्य संस्थानमाह-'हेटे'त्यादि, अधस्ताद्-अधोभागे अधोमुखमल्लकतुल्य:-अधोमुखीकृतसरावसदृक्षाकारः, उपरि पुनः सम्पुटस्थितयोर्मल्लकयो:-शरावयोराकारमनुसरति लोकः, अयमर्थः-प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति, स च पञ्चास्तिकायमयो-धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चमिरस्तिकायैर्व्याप्तः ॥ ९०५ ॥ अथ चतुर्दशरज्ज्वात्मकमपि लोकमसत्कल्पनया खण्डकप्रविभागेन दिदर्शयिषुः खण्डकनिष्पादनाय तावदाह-'तिरिय'मित्यादि, तिर्यक-तिरश्चीनाः सप्तपश्चाशत्सङ्ख्या रेखाः पट्टिकादौ स्थाप्यन्ते, ऊर्द्ध-उपर्यधोभा
178

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310