SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ ज्यशीत्यधिकानि, शेषस्य चाष्टाशीतिरूपभाज्यराशेश्चतुर्विशत्युत्तरशतरूपभाजकराशेश्व यथोक्तभागानयनाय द्विकेनापवर्तना क्रियते, लब्धाश्चतुश्चत्वारिंशत् द्वाषष्टिभागाः एषोऽभिवर्धितसंवत्सरः, एवं पञ्चमोऽपि, एमिश्चान्द्रादिभिः पञ्चभिः संवत्सरैरेकं युगं भवति, तच द्विषष्टिचन्द्रमासप्रमाणं, तथाहि-युगे त्रयश्चन्द्रसंवत्सराः एकैकस्मिंश्च चन्द्रसंवत्सरे द्वादश चन्द्रमासाः ततस्त्रयो द्वादशभिर्गुण्यन्ते जाताः षत्रिंशत् , अभिवर्धितसंवत्सरौ च युगे द्वावेवं एकैकस्मिंश्चामिवर्धितसंवत्सरे त्रयोदश चन्द्रमासाः, अधिकमासकस्य तत्र सद्भावात् , ततो द्वौ त्रयोदशभिर्गुण्येते जाताः षड्विंशतिः, उभयमीलने च द्वाषष्टिश्चन्द्रमासा इति १४२ ॥ ९०१ ॥ इदानीं 'लोगस्सरूवंति त्रिचत्वारिंशदधिकशततमं द्वारमाह माधवईएँ तलाओ ईसिंपन्भारउवरिमतलं जा । चउदसरजू लोगो तस्साहो वित्थरे सत्त ॥९०२॥ उवरिं पएसहाणी ता नेया जाव भूतले एगा। तयणुप्पएसवुढी पंचमकप्पंमि जा पंच ॥९०३ ॥ पुणरवि पएसहाणी जा सिद्धसिलाऍ एकगा रजू । घम्माए लोगमज्झो जोयणअस्सं. खकोडीहिं ॥ ९०४ ॥ हेट्टाहोमुहमल्लगतुल्लो उवरिं तु संपुडठियाणं । अणुसरह मल्लगाणं लोगो पंचस्थिकायमओ ॥९०५॥ तिरियं सत्तावन्ना उर्दु पंचेव हुँति रेहाओ । पाएसु चउसु रजू चउदस रजू य तसनाडी ॥९०६॥ तिरियं चउरो दोसुंछ होसुं अट्ठ दस य इकिके । बारस दोसुं सोलस दोसुं वीसा य चउसुंपि ॥९०७ ॥ पुणरवि सोलस दोसुं पारस दोसुपि हुंति नायवा । तिम दस तिसु अट्ट च्छा य दोसु दोसुंपि चत्तारि ॥९०८॥ ओयरिय लोयमझा चउरो चउरो य सवहिं नेया । तिग तिग दुग दुग एकिकगो य जा सत्तमी पुढवी ॥ ९०९॥ अडवीसा छबीसा चउवीसा वीस सोल दस चउरो। सत्तासुवि पुढवीसुं तिरियं खण्डुयगपरिमाणं ॥९१०॥ पंच सय बारसुत्तर हेट्ठा तिसया उ चउर अन्भहिया । अह उर्दू अह सया सोलहिया खंडया सवे ॥ ९११ ॥ बत्तीसं रजुओ हेहा रुयगस्स हुँति नायचा । एगोणवीसमुवरि इगवन्ना सबर्पिडेणं ॥ ९१२॥ दाहिणपास दुखंडा वामे संधिज विहियविवरीयं । नाडीजुया तिरजू उड्डाहो सत्त तो जाया ॥९१३ ॥ हेहाओ वामखंडं दाहिणपासंमि ठवसु विवरीयं । उवरिम तिरजु खंड वामे ठाणंमि संधिज्जा ॥९१४॥ तिन्नि सया तेयाला रज्जूर्ण हुंति सबलोगम्मि । चउरंसं होइ जयं सत्तण्ह घणेणिमा संखा ॥ ९१५ ॥ छसु खंडगेसु य दुगं चउसु दुगं दससु हुँति चत्तारि । चउसु चउकं गेवेजणुत्तराई चउक्कमि ॥ ९१६ ॥ सयंभुपुरिमंताओ अवरंतो जाव रज्जु माणं तु । एएण रज्जुमाणेण लोगो चउद्दसरजुओ ॥ ९१७॥ माघवत्याः-समस्तमप्रभापराभिधानायाः सप्तमनरकपृथिव्यास्तलाद्-अलोकसंस्पर्शिनः सर्वाधस्तनभागादारभ्य ईषत्प्रारभारायाः-सिद्धशिलायाः सर्वोपरितनतलं लोकान्तलक्षणं यावदूर्भाधोभागेन चतुर्दशरज्जूप्रमाणो लोको भवति, तस्य च लोकस्याधस्तात्-सप्तमपृथिव्या अधोभागे विस्तरतो देशोनाः सप्त रजवः, सूत्रकारेण त्वल्पत्वाद्देशोनत्वं न विवक्षितं, ततोऽधोलोकान्तादुपरि प्रदेशहानि:-तिर्यगलासध्येयभागानिस्तावद् ज्ञातव्यां यावद् भूतले-तिर्यग्लोकमध्यवर्तिसमभूमिभागे विस्तरत एका रज्जूः, तदनु-समभूमिभागादुपरिमुखं प्रदेशवृद्धिः-तिर्यगडलासङ्ख्येयभागवृद्धिस्तावद् द्रष्टव्या यावदूर्द्धलोकमध्ये पञ्चमे ब्रह्मलोकामिधे कल्पे विस्तरतः पञ्च रजवः, ततः पुनरप्यूर्द्ध प्रदेशहानिस्तावदवसेया यावत्सिद्धशिलाया उपरिष्टाल्लोकान्ते विस्तरत एकैव रज्जूः, घायां च-रत्नप्रभापराभिधानायां प्रथमपृथिव्यां योजनानामसङ्ख्याताभिः कोटिभिर्बहुसमभूभिभागादतिक्रान्तामिलोंकमध्यं, इयमत्र भावना-इह सामस्त्येन चतुर्दशरज्ज्वात्मको लोकः, स च त्रिधा भिद्यते, तद्यथा-ऊर्द्धलोकस्तिर्यग्लोकोऽधोलोकश्च, तत्र तिर्यग्लोकस्य ऊर्ध्वाधोऽपेक्षया अष्टादशयोजनशतप्रमाणस्य मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुबहुमध्येऽष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्वाधस्तनाः, एष एव रुचकः सर्वासां विशां विदिशां च प्रवर्तकः, एतस्माच्च रुचकादू धस्तिर्यग्लोकविभागाः, तथाहि-रुचकस्याधस्तादुपरिष्टाच नव नव योजनशतानि तिर्यग्लोकः तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादू लोकः, देशोनसप्तरज्जूप्रमाण ऊर्द्धलोकः समधिकसप्तरज्जूप्रमाणोऽधोलोकः मध्येऽष्टादशयोजनशतोच्छ्रयस्तिर्यम्लोकः, ततो-रुचकसमभूतलभागादधोमुखमसङ्ख्याता योजनकोटीर्गत्वा रत्नप्रभायां चतुर्दशरज्ज्वात्मकस्य लोकस्य मध्यभागः परिपूर्णसप्तरज्जूप्रमाणो भवतीति ॥९०२॥९०३॥९०४॥ सम्प्रति लोकस्य संस्थानमाह-'हेटे'त्यादि, अधस्ताद्-अधोभागे अधोमुखमल्लकतुल्य:-अधोमुखीकृतसरावसदृक्षाकारः, उपरि पुनः सम्पुटस्थितयोर्मल्लकयो:-शरावयोराकारमनुसरति लोकः, अयमर्थः-प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते ततस्तस्योपरि द्वितीयमुपरिमुखं तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति, स च पञ्चास्तिकायमयो-धर्माधर्माकाशजीवपुद्गललक्षणैः पञ्चमिरस्तिकायैर्व्याप्तः ॥ ९०५ ॥ अथ चतुर्दशरज्ज्वात्मकमपि लोकमसत्कल्पनया खण्डकप्रविभागेन दिदर्शयिषुः खण्डकनिष्पादनाय तावदाह-'तिरिय'मित्यादि, तिर्यक-तिरश्चीनाः सप्तपश्चाशत्सङ्ख्या रेखाः पट्टिकादौ स्थाप्यन्ते, ऊर्द्ध-उपर्यधोभा 178
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy