________________
र्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाण: संवत्सरः, द्वादशचन्द्रमासप्रमाणात्संवत्सरादेकेन मासेनामिवर्धितत्वात् , परं तद्द्वादशभागप्रमाणो मासोऽप्यवयवे समुदायोपचारादमिवर्धितः, तदेवमुक्ता नामतो नक्षत्रादयः पश्चापि मासाः, ॥ ८९७ ॥ साम्प्रतमेतेषामेव मासानां दिनपरिमाणमाह-'अहरत्ते'गाहा 'उउ'गाहा 'भागा'गाहा, नाक्षत्रो-नक्षत्रसम्बन्धी मासः सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्य सप्तषष्टिांगास्त्रिः सप्त-त्रयो वाराः सप्त, एकविंशतिरित्यर्थः, तथा चान्द्र:-चन्द्रमासः एकोनत्रिंशदहोरात्रा द्वाषष्टिभागाश्च अहोरात्रस्य द्वात्रिंशत् , तथा ऋतुमासः परिपूर्णानि त्रिंशदिनानि, तथा आदित्यः-आदित्यमासो भवति त्रिंशदहोरात्रा अर्ध चाहोरात्रस्य, तथा अभिवर्धितमासो दिनानामेकेनाधिका त्रिंशत् , एकत्रिंशदहोरात्रा इत्यर्थः, एकस्य चाहोरात्रस्य चतुर्विशत्युत्तरशतरूपेण छेदेन-भागेन विभक्तस्य एकविंशत्यधिकं शतं भागानां भवतीति, एते पञ्चापि मासा यथा निष्पत्तिं लभन्ते तथा 'समयात्' सिद्धान्ताद् 'ज्ञेयं ज्ञातव्यमिति । स च निष्पत्तिप्रकारः सिद्धान्तानुसारेण विनेयजनानुग्रहाय किञ्चिदश्यते-इह किल चन्द्रचन्द्रामिवर्धितचन्द्राभिवर्धितलक्षणसंवत्सरपश्चकप्रमाणे युगे अहोरात्रराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो १८३० भवति, कथमेतदवसीयते ? इति चेदुच्यतेइह सूर्यस्य दक्षिणमुत्तरं वा अयनं ज्यशीतिअधिकदिनशतात्मकं युगे च पञ्च दक्षिणायनानि पश्चोत्तरायणानीति सर्वसङ्ख्यया दशायनानि ततरूयशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्तो दिनराशिः, एवंप्रमाणं दिनराशिं स्थापयित्वा नक्षत्रचन्द्रऋत्वादित्यमासानां दिनमानानयनाय यथाक्रम सप्तषष्टिद्वाषष्ट्येकषष्टिषष्टिलक्षणैर्भागहारैर्भागं हरेत् ततो यथोक्तं नक्षत्रादिमासगत दिनपरिमाणमागच्छति, तथाहि-युगदिनराशिखिंशदधिकाष्टादशशतप्रमाणो ध्रियते, तस्य सप्तषष्टियुगे नक्षत्रमासा इति सप्तषष्ट्या भागो हियते लब्धाः सप्तविंशतिरहोरात्राः एकविंशतिरहोरात्रस्य सप्तषष्टिभागाः एष नक्षत्रमासः, तथा तस्यैव युगदिनराशेविंशदधिकाष्टादशशतमानस्य युगे चन्द्रमासा द्वाषष्टिरिति द्वाषष्ट्या भागे हृते यल्लभ्यते तच्चन्द्रमासमानं, तथाऽस्यैव युगदिनराशेरेकषष्टियुगे ऋतुमासाः इत्येकषष्ट्या भागहरणे लब्धं यथोक्तमृतुमासमान, तथा युगे सूर्यमासाः षष्टिरिति षष्ट्या ध्रुवराशेर्भागहारे यल्लब्धमेतत्सूर्यमासपरिमाणं, उक्तं च-रिक्खाईमासाणं करणमिणमं तु आणणोवाओ। जुगदिणरासिं ठाविय अट्ठार सयाई तीसाई॥१॥ ताहे हराहि भागं रिक्खाईयाण दिणकरताणं । सत्तट्ठीबावट्ठीएगट्ठीसट्ठिभागेहिं ॥ २॥" [ऋक्षादिमासानां करणमिदं त्वानयनोपायः युगदिनराशिं स्थापयित्वाऽष्टादश शतानि त्रिंशानि ॥ १॥ ततो हर भागमृक्षादीनां दिनकरान्तानां सप्तषष्टिद्वाषष्टिएकषष्टिषष्टिभागैः॥ २॥] तथा तस्मिन् वर्षे अभिवर्धितरूपे तृतीये पञ्चमे वा त्रयोदश शशिमासा भवन्ति तद्वर्ष द्वादशभागीक्रियते तत एकैको भागोऽभिवर्धितमास इत्युच्यते, इह किलाभिवधितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनपरिमाणं ज्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा रात्रिन्दिवस्य ३८३४१ तथाहि-एकस्मिन् चन्द्रमासे एकोनविंशदिनानि द्वात्रिंशच द्वाषष्टिभागाः, मासाश्च त्रयोदश इति तानि दिनानि तदंशाश्च त्रयोदशभिर्गुण्यन्ते जातानि सप्तसप्तत्युत्तराणि दिनानां त्रीणि शतानि, अंशानां च षोडशाधिकानि चत्वारि शतानि, ते च दिनस्य द्वाषष्टिभागाः ततो दिनानयनाय द्वाषष्ट्या भागो हियते लब्धानि षट् दिनानि, तानि च पूर्वोक्तदिनेषु मील्यन्ते, ततो जातानि त्रीणि शतानि ध्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशश्च द्वाषष्टिभागाः, ततो वर्षे मासा द्वादश इति मासानयनाय द्वादशमिर्भागो हियते, लब्धा एकत्रिंशदहोरात्राः शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते चतुर्विशत्युत्तरशतभागकरणार्थ चतुर्विशत्युत्तरशतेन गुण्यन्ते, जातानि त्रयोदश शतानि चतुष्षष्ट्यधिकानि, येऽपि च उपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि चतुर्विशत्युत्तरशतभागकरणार्थ द्वाभ्यां गुण्यन्ते जाता अष्टाशीतिः, साऽनन्तरभागराशौ प्रक्षिप्यते, जातानि च चतुर्दश शतानि द्विपश्चाशदधिकानि, तेषां द्वादशमिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विश
त्युत्तरशतभागानां, एतावदमिवर्धितमासप्रमाणं, उक्तं च-"जमि वरिसंमि तेरस ससिणो मासा वंति सो वरिसो । बारसभाए कजइ अभिवडियमास सो भागो ॥१॥" [यस्मिन् वर्षे त्रयोदश शशिनो मासा भवन्ति तत् वर्ष । द्वादशभागीक्रियते स भागोऽमिवर्धितमासः॥१॥] इति १४१ ॥ ८९८ ॥ ८९९ ॥ ९०० ॥ सम्प्रति 'वरिसाण पंच भेय'त्ति द्विचत्वारिंशदधिकशततमं द्वारमाह
संघच्छरा उ पंच उ चंदे १ चंदे २ ऽभिवडिए ३ चेव । चंदे ४ ऽभिवडिए ५ तह बिसट्टिमासेहिं
जुगमाणं ॥ ९०१॥ चान्द्रश्चान्द्रोऽभिवर्धितः चान्द्रोऽभिवर्धितश्चेत्येवं क्रमेण पञ्च संवत्सरा भवन्ति, एते च पञ्चाप्यनेन क्रमेण भवन्तो मिलित्वा एकं युगं निष्पादयन्तीति युगसंवत्सरा इत्युच्यन्ते, तत्र पूर्वोक्तस्वरूपचन्द्रमासनिष्पन्नत्वात्संवत्सरोऽपि चान्द्रः, तस्य च प्रमाणं त्रीणि शतानि चतुपश्चाशदुत्तराणि दिनानां द्वादश च द्वाषष्टिभागाः ३५४१३ तथाहि-एकोनविंशदिनानि द्वाषष्टिभागीकृतस्याहोरात्रस्य च द्वात्रिंशदंशाश्वन्द्रमासः २९२३ स च द्वादशभिर्गुण्यते ततो यथोक्तं चन्द्रसंवत्सरप्रमाणं भवति, एवं द्वितीयचतुर्थावपि संवत्सराविति, तथा चन्द्रसं. वत्सरादेकेन मासेनाभिवर्धितत्वादभिवर्धितसंवत्सरः, तस्य च प्रमाणं त्रीणि शतानि अह्रां ध्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागाः ३८३१ तथाहि-एकत्रिंशदहोरात्राश्चतुर्विशत्युत्तरशतभागानां चैकविंशं शतमभिवर्धितमासप्रमाणं, तत्रैकत्रिंशदिनानि द्वादशमिर्गुण्यन्ते जातानि द्वासप्तत्युत्तराणि त्रीणि शतानि, यच्चैकविंशत्यधिक भागशतं तदपि द्वादशभिर्गुण्यते जातानि द्विपञ्चाशदधिकानि चतुर्दश शतानि, तेषां च चतुर्विशत्यधिकशतेन भागहरणे लब्धान्येकादश दिनानि तानि च पूर्वोक्तदिनेषु प्रक्षिप्यन्ते, भवन्ति च त्रीणि शतानि
177