________________
पात्वं मृतेषु सत्यत्वात् जीवत्सु च मृषात्वात् ५ तथा तस्मिन्नेत्र राशौ एतावन्तोऽत्र जीवन्ति एतावन्तोऽत्र मृता इति नियमेनावधारयतो विसंवादे जीवाजीवमिश्रिता ६ तथा मूलकादिकमनन्तकायं तस्यैव सत्कैः परिपाण्डुपत्रैरन्येन वा केनचित्प्रत्येकवनस्पतिना मिश्रमवलोक्य सर्वोऽप्येषोऽनन्तकायिक इति वदतोऽनन्तमिश्रिता ७ तथा प्रत्येक वनस्पतिसङ्घातमनन्तकायिकेन सह राशीकृतमवलोक्य प्रत्येकवनस्पतिरयं सर्वोऽपीति वदतः प्रत्येकमिश्रिता ८ तथा अद्धा - कालः, स चेह प्रस्तावाद्दिवसो रात्रिर्वा परिगृह्यते, स मिश्रितो यया सा अद्धामिश्रिता, यथा कश्चित्कश्चन त्वरयन् दिवसे वर्तमान एव वदति - उत्तिष्ठ २ रात्रिर्जातेति, रात्रौ वा वर्तमानायामुत्तिष्ठ २ दिवसो जात इति ९ तथा दिवसस्य रात्रेव एकदेशोऽद्धाद्धा, सा मिश्रिता यया सा अद्धाद्धामिश्रिता, यथा प्रथमपौरुष्यामेव वर्तमानायां क श्चित् कभ्वन त्वरयन्नेवं वदति - चल चल मध्याह्नो जात इति १० ।। ८९३ ।। अथ चतुर्थभाषाया असत्यामृषाया भेदानाह - ' आमं त्रणी' त्यादि, आमश्रण्यादिभेदाद सत्यामृषा भाषा द्वादशभेदा भवति, तत्र आमश्रणी हे देवदत्त ! इत्यादि, एषा हि प्रागुक्तसत्यादिभाषात्रयलक्षणविफलत्वान्न सत्या न मृषा नापि सत्यामृषा, केवलं व्यवहारमात्रप्रवृत्तिहेतुरित्यसत्यामृषा १ एवं सर्वत्रापि भावना कार्या, आज्ञापनी - कार्ये परस्य प्रवर्तनं, यथेदं कुर्विति २ याचनी कस्यापि वस्तुविशेषस्य देहीति मार्गणं ३ प्रच्छनी अविज्ञातस्य सन्दिग्धस्य वा कस्यचिदर्थस्य परिज्ञानाय तद्विदः पार्श्वे कथमेतदिति प्रच्छनं ४ प्रज्ञापनी विनेयजनस्योपदेशदानं, यथा प्राणिवधान्निवृत्ता भवन्ति भवान्तरे प्राणिनो दीर्घायुष इत्यादि ५ प्रत्याख्यानी - याचमानस्य प्रतिषेधवचनं ६ इच्छानुलोमा नाम यथा कश्चित् किश्वन कार्यमारभमाणः कश्वन पृच्छति, स प्राह-करोतु भवान् ममाप्येतदभिप्रेतमिति ७ अनभिगृहीता - यत्र न प्रतिनियतार्थावधारणं, यथा बहुषु कायेषूपस्थितेषु कश्चित् कभ्वन पृच्छति - किमिदानीं करोमि ?, स प्राह-यत्प्रतिभासते तत्कुर्विति ८ अभिगृहीता - प्रतिनियतार्थावधारणं, यथा इदमिदानीं कर्तव्यमिदं नेति, यद्वा अनमिगृहीता याऽर्थमनमिगृह्योच्यते डित्थादिवत्, अभिगृहीता त्वर्थमभिगृह योच्यते घटादि - वत् ९ संशयकरणी या एकका वागनेकार्थाभिधायितया परस्परं संशयमुत्पादयति, यथा सैन्धवमानीयतामित्यत्र सैन्धवशब्दो लवणवस्त्रपुरुषवाजिषु १० व्याकृता या प्रकटार्था ११ अव्याकृता अतिगभीरशब्दार्था अव्यक्ताक्षरप्रयुक्ता वा अविभावितार्थत्वादिति १२ १३९ ॥ ८९४ ॥ ८९५ ।। इदानीं 'वयणसोलसगं' ति चत्वारिंशदुत्तरशततमं द्वारमाह
कालतियं ३ वयणतियं ६ लिंगतियं ९ तह परोक्ख १० पच्चक्खं ११ । उवणयऽवणयचक्कं १५ अज्झत्थं चैव सोलसमं ॥ ८९६ ॥
कालत्रिकं तथा वचनत्रिकं तथा लिङ्गत्रिकं परोक्षमत्र प्रथमैकवचनस्य लोपः तथा प्रत्यक्षं तथोपनयापनयचतुष्कं तथाऽध्यात्मं चैव षोडशमिति गाथावयवार्थः । तत्राकरोत्करोति करिष्यतीत्यतीतादिकालनिर्देश प्रधानं वचनजातं कालत्रिकवचनमित्यर्थः, तथा एको द्वौ बहव इत्येकत्वाद्यभिधायकः शब्दसन्दर्भे वचनत्रिकमिति, तथेयं स्त्री अयं पुरुषः इदं कुलमिति त्रीणि लिङ्गप्रधानानि वचनानीति लिङ्गत्रिकं तथा स इति परोक्षनिर्देशः परोक्षवचनं अयमिति प्रत्यक्ष निर्देशः प्रत्यक्षवचनं, तथोपनयापनयवचनं चतुर्धा भवति, तथथा - उपनयापनयवचनं तथा उपनयोपनयवचनं तथा अपनयोपनयवचनं तथा अपनयापनयवचनमिति, तत्रोपनयो-गुणोक्तिः भपनयो-दोषभवनं, तत्र सुरूपेयं रामा परं दुःशीला इत्युपनयापनयवचनं तथा सुरूपेयं स्त्री सुशीलेत्युपनयोपनयवचनं तथा कुरूपा स्त्रीयं परं सुशीलेत्यपनयोपनयवचनं कुरूपेयं कुशीला चेत्यपनयापनयवचनमिति, तथा अन्यश्चेतसि निधाय विप्रतारकबुद्ध्याऽन्यद्विभणिषुरपि सहसा यश्चेतसि तदेव वक्ति यत्तत् षोडशमध्यात्मवचनम् १४० ॥ ८९६ ॥ इदानीं 'मासाण पंचभेय'त्ति एकचत्वारिंशदुत्तरशततमं द्वारमाह
मासा य पंच सुते नक्खतो १ चंदिओ २ य रिउमासो ३ । आइचोऽविय अवरो ४ ऽभिवडिओ तह य पंचमओ ५ ॥ ८९७ ॥ अहरत सत्तवीसं तिसत्तसत्तट्ठिभाग नक्खतो २७ । । चंदो उणत्तीसं विसद्विभाया य बत्तीसं २९ । ३३ ।। ८९८ ॥ उउमासो तीसदिणो ३० आइबो तीस होइ अद्धं च ३० । ३ । अभिवडिओ य मासो चडवीससएण छेएणं ॥ ८९९ ॥ भागाणिगवीस सयं तीसा एगाहिया दिणाणं तु ३१ । ३ । एए जह निष्फतिं लहंति समयाउ तह नेयं ॥ ९०० ॥
मासा नक्षत्रादयः पश्च 'सूत्रे' पारमेश्वरे प्रवचने प्रतिपादिता इति शेषः, तत्र नक्षत्रेषु भवो नाक्षत्रः किमुक्तं भवति ? - चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढा नक्षत्रपर्यन्तं गच्छति तत्कालप्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले परिवर्तयतो निष्पन्न इत्युपचारान्मासोऽपि नक्षत्रं, तथा चन्द्रे भवश्चान्द्रः युगादौ श्रावणे मासे बहुलपक्षप्रतिपद आरभ्य यावत्पूर्णिमासीपरिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रो मासः, एकपौर्णमासीपरावर्तश्चान्द्रो मास इतियावत्, अथवा चन्द्रचारनिष्पन्नत्वादुपचारतो मासोऽपि चान्द्रः, चः समुच्चये, तथा ऋतुमासः, इह किल ऋतुर्लोकरूढ्या षष्ट्यहोरात्रप्रमाणो मासद्वयात्मकः तस्यार्धमपि मासोऽवयवे समुदायोपचारात् ऋतुः स चार्थात्परिपूर्णत्रिंशदहोरात्रप्रमाणः, एष एव च ऋतुमासः कर्ममास इति वा सावनमास इति वा व्यवहियते, उक्तभ्य "एस देव उठमासो कम्ममासो सावणो मासो भन्नइ” इति, तथा आदित्यस्यायमादित्यः, स च एकस्य दक्षिणायनस्योत्तरायणस्य वा त्र्यशीत्यधिकदिशतप्रमाणस्य षष्ठभागमानः यदिवा आदित्यचारनिष्पन्नत्वादुपचारतो मासोऽप्यादित्यः, तथा पञ्चमो मासोऽभिवर्धितः, अमिव
176