Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
वेन पुनः पञ्चैव रेखाः स्थाप्या भवन्ति, तथा 'पाएसु चउसु'त्ति सप्तम्यास्तृतीयार्थत्वाश्चतुर्भिः पादैः-खण्डकैरेका रज्जूभवति, इह चतुर्भिः खण्डकैरेका रज्जूः परिकल्पिता ततो रज्जूचतुर्थभागत्वात् खण्डकं पाद इत्यभिहितं, चतुर्दशरज्जूश्च-ऊर्ध्वाधोभावेन चतुर्दशरज्जूप्रमाणा असनाडी, इयमत्र भावना-तिर्यग्व्यवस्थापितसप्तपञ्चाशद्रेखाभिरूधिोभावेन षट्पञ्चाशत्खण्डकानि जायन्ते, चतुर्भिश्च खण्डकैरेका रज्जूरिति षट्पञ्चाशतश्चतुर्भिर्भागहारे ऊर्ध्वाधश्चतुर्दश रजवो लभ्यन्ते इति, तिर्यक्रसनाडीमध्ये सर्वत्र एकैव रज्जूरुपर्यधोभावविनिवेशितरेखापञ्चकेन खण्डकचतुष्कस्यैव निष्पन्नत्वात् , एवं तावत् सनाडीमध्ये ऊर्भाधोभावेन खण्डकान्युक्तानि ।। ९०६ ।। अथ सकलस्यापि लोकस्य तिर्यग्वर्तीनि खण्डकान्यमिधातुकामः प्रथमं तावदूर्द्धलोके रुचकादारभ्य लोकान्तं यावत्तिर्यक्खण्डान्याह'तिरिय मित्यादि, रुचकसमाद् भूभागादूर्द्ध द्वयोः पतयोरेकोनत्रिंशत्तमरेखोपरिवर्तिन्योस्तिर्यक्-तिरश्चीनानि चत्वारि चत्वारि खण्डकानि सनाडीमध्यगतान्येव भवन्ति, सनाड्या बहिस्तत्र खण्डकानामभावात् , तत उपरितन्योर्द्वयोः पतयोः षट् खण्डकानि, तत्र चत्वारि त्रसनाडीमध्यवर्तीन्येव एकैकं तु त्रसनाड्या बहिः प्रत्येकमुभयपार्श्वयोरिति, तत एकैकस्यां पङ्को क्रमेणाष्टौ दश च खण्डकानि, तथाहि-एकस्यां पतौ नाडीमध्ये चत्वारि बहिश्चैकपार्श्वे द्वयं द्वितीयपार्श्वेऽपि द्वयमित्यष्टौ, अपरस्यां च पडौ चत्वारि मध्ये बहिश्च उभयतः प्रत्येकं त्रितयं त्रितयमिति दश, ततोऽपि द्वयोः पतयोः प्रत्येकं द्वादश द्वादश खण्डकानि चत्वारि मध्ये बहिश्चत्वारि चत्वारीति, तदनन्तरं द्वयोः पङ्गयोः प्रत्येक षोडश षोडश खण्डकानि चत्वारि मध्ये पार्श्वयोश्च षट् षडिति, तत उपरितनीषु चतसृषु पशिषु प्रत्येक विशतिः खण्डकानि चत्वारि मध्ये बहिश्चैकपार्श्वेऽष्टावपरपार्श्वेऽप्यष्टाविति, तदेवमूर्द्धलोके चतुर्दशसु पनिषु यथासम्भवं खण्डकानां वृद्धिरक्ता ॥९०७॥ अथ चतुर्दशस्वेव पतिषु हानिमाह-(प्रन्था.१०००० "पुणरवी'त्यावि, पुनरप्युपरितनपतिद्वये षोडश खण्डकानि, भावनाच सर्वत्र प्राग्वदवसेया, तत ऊर्द्ध द्वयोः पतयोर्द्वादश द्वादश खण्डकानि, ततोऽपि तिसृषु पनिषु दश दश खण्डकानि, ततोऽपि तिसृषु पनिषु अष्टावष्टौ खण्डकानि, तदनु द्वयोः पतयोः षट् षट् खण्डकानि ततोऽपि सर्वोपरिवर्तिन्योर्द्वयोः पतयोर्नाडीमध्यगतान्येव चत्वारि चत्वारि खण्डकानि भवन्तीति, इत्थं तावन्निजगुरुप्रदर्शितस्थापनानुसारतो रुचकादारभ्य लोकान्तं यावत् 'तिरियं चउरो दोसुं' इत्यादिगाथाद्वयं व्याख्यातं, अपरे तु वैपरीत्येन पट्टेषु स्थापना पश्यन्त एतद्गाथाद्वयं लोकान्तादारभ्य लोकमध्यं यावद्व्याख्यानयन्तीति ।। ९०८ ॥ अथाधोलोके सप्तस्वपि पृथिवीषु ऊर्दाधोभावेन खण्डकान्याह-'ओयरिये'त्यादि, अवतीर्य लोकान्ताल्लोकमध्यं समागत्य ततो लोकमध्याद् -रुचकलक्षणादारभ्य सर्वत्र-सर्वासु पृथिवीषु त्रसनाडीमध्ये ऊर्ध्वाधोभावेन चत्वारि चत्वारि खण्डकानि ज्ञातव्यानि, त्रसनाड्यास्तु बहिर्द्वितीयाद्यासु पृथिवीषु यथाक्रम खण्डकानां त्रिकं त्रिकं द्विकं द्विकमेकैकं च खण्डकं तावद् विज्ञेयं यावत् सप्तमी पृथ्वी, इयमत्र भावनारत्नप्रभायां तावत् त्रसनाड्याः बहिः खण्डकानामभाव एव, ततः शर्कराप्रभाया उपरितनतलादारभ्य दक्षिणवामभागयोः प्रतिपति तिरश्चीनानि त्रीणि त्रीणि खण्डकानि तावदूधिोभावेन ज्ञेयानि यावत्सप्तमपृथिव्या अधस्तनो भागः, ततो वालुकाप्रभाया उपरितलादारभ्य उभयपार्श्वयोः खण्डकत्रयात्पुरतः पुनरपि त्रीणि त्रीणि खण्डकानि तावदवसेयानि यावत्सप्तमी पृथिवी, ततः पङ्कप्रभाया उपरितलादारभ्य द्वयोः पार्श्वयोः पूर्वोक्तखण्डकेभ्यः परतो वे द्वे खण्डके तावदवगन्तव्ये यावत्सप्तमी पृथिवी, ततः पुनरपि धूमप्रभाया आरभ्य पार्श्वद्वयेऽपि द्वे द्वे खण्डके तावद्भवतो यावत्सप्तमी पृथिवी, ततो भूयोऽपि तमःप्रभाया आरभ्य पार्श्वद्वयोस्तावदेकैकं खण्डकं स्थापनीयं यावत् सप्तमी पृथिवी, ततः सप्तम्यामपि पृथिव्यां पूर्वोक्तखण्डकेभ्यः परत उभयपार्श्वयोरेकैकं खण्डकं प्रतिपनि तावद्भवति यावत्सर्वाधस्तनी पङ्किरिति, तदेवमधोलोके ऊोधोभावेन खण्डकान्युक्तानि ।। ९०९॥ अथ तमस्तमःप्रभाया आरभ्य रत्नप्रभा याव'प्रतिपृथिवि तिर्यक्खण्डकप्रमाणमाह-'अट्ठावीसेत्यादि, सप्तम्यां-तमस्तमःप्रभायां नरकपृथिव्यामष्टाविंशतिः खण्डकानि तिर्यग्भवन्ति, तत्र त्रसनाड्या बहिरेकपाधै द्वादश द्वितीयपार्श्वेऽपि द्वादश प्रसनाडीमध्ये च चत्वारीति, तमःप्रभायां षड्विंशतिः खण्डकानि चत्वारि मध्ये बहिर्भागयोश्चैकादशैकादशेति, धूमप्रभायां चतुर्विशतिः चत्वारि मध्ये उभयपार्श्वयोश्च दश दशेति, पङ्कप्रभायां विंशतिः मध्ये चत्वारि बहिर्भागयोश्चाष्टाष्टाविति,वालुकाप्रभायां षोडश मध्ये चत्वारि उभयपार्श्वयोश्च षट्षडिति, शर्कराप्रभायां तिर्यग्दश खण्डकानि चत्वारि मध्ये दक्षिणवामभागयोश्च त्रीणि त्रीणीति, रत्नप्रभायां च त्रसनाडीमध्यगतान्येव चत्वारि तिर्यक्खण्डकानीत्येवं सप्तस्वपि तमस्तमःप्रभाद्यासु पृथिवीषु तियेक्तिरश्चीनखण्डकानां-कल्पितचतुरस्राकारनभोभागरूपाणां परिमाणं-सङ्ख्यानं समवसेयमिति ॥९१०॥अथ सकलस्यापि लोकस्य खण्डकसर्वसङ्ख्यामाह-'पञ्चे'त्यादि, पञ्च शतानि द्वादशोत्तराणि-द्वादशाधिकानि खण्डकानां 'हे'त्ति अधोलोके भवन्ति, तथाहि-'अडवीसा' इ. त्यादिगाथोक्तान अष्टाविंशत्याद्यङ्कान् मीलयित्वा प्रतिपृथिवि अष्टाविंशतिषड्विंशत्यादिखण्डकसङ्ख्योपेतपशिचतुष्टयसद्भावाश्चतुर्भिर्गुणयेत् , ततो जायन्ते पञ्च शतानि द्वादशोत्तराणीति, 'अह उर्दू'ति अथ-अधोलोकादनन्तरमूर्द्ध-ऊर्द्धलोके त्रीणि शतानि चतुर्भिरभ्यधिकानि खण्डकानां भवन्ति, 'तिरियं चउरो दोसुं' इत्यादिगाथाद्वितयोदितखण्डकमीलने यथोक्तसङ्ख्यासद्भावात् , सर्वाणि चाधोलोको लोकसम्बन्धीनि खण्डकानि मिलितानि अष्टौ शतानि षोडशाधिकानि भवन्तीति ॥९११॥ अथ सर्वस्मिन्नपि लोके यावत्यो यावत्यो रजवो भवन्ति तावतीर्दर्शयितुमाह-'बत्तीसं'इत्यादि, रुचकस्य-पूर्वोक्तस्वरूपस्याधस्तादधोलोके इत्यर्थः द्वात्रिंशद्रजवो भवन्ति ज्ञातव्याः, इह किल त्रिधा रज्जूःसूचीरज्जूः प्रतररज्जूर्घनरज्जूश्च, तत्रायामतः खण्डकचतुष्टयप्रमाणा बाहल्यतः पुनरेकखण्डप्रमिता खण्डकश्रेणिः सूच्याकारव्यवस्थापितखण्डकचतुष्टयनिष्पन्नत्वात्सूचीरज्जूः, तथा एषैव प्राक्प्रदर्शिता खण्डकचतुष्कात्मिका सूचिस्तयैव गुण्यते अतः प्रत्येकं खण्डकचतुष्टयनि
179

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310