Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
कौशाम्ब्यां नगर्या समखो नाम भूपतिरभूत्, एकदा च विचित्रविलासवसतौ वसन्तसमये समागते मतङ्गजारूढः स राजा रन्तुकामः पुरपरिसरोद्यानं गच्छन् मार्गे वीरकायस्य कुविन्दस्य दयितां वनमालाभिधानामसमानलावण्यपुण्यदेहावयवामवलोकितवान् , साऽपि प्रणयस्पृशा दृशा वारं वारं साकासमुदैक्षत, राजा च तां निर्निमेषचक्षुषा सस्पृहं पश्यन् स्मरविधुरस्तत्रैव गजं भ्रमयन् कमपि प्रतीक्षमाण इव नापतो जगाम, अथ सुमतिनामा सचिवस्तद्भावं जिज्ञासुः स्वामिन् ! सर्वमपि सैन्यमिह प्राप्तं ततः किमद्यापि विलम्ब्यते ? इति राजानं व्यजिज्ञपत्, राजापि सचिववचसा चेतः कथमपि संस्थाप्य लीलोद्यानमगमत् , तत्र च शून्यहृदयो हृद्येऽप्युद्याने न कापि रति प्राप, अथ तमुद्विनमानसममात्यः सुमतिरवादीत्-देव! किमद्य शून्यहृदय इव त्वं लक्ष्यसे ?, यद्यगोप्योऽयं मनोविकारस्तत्कथ्यतामिति, राजापि त्वमेव मम मनोविकारप्रतीकारप्रवणः ततस्तव गोप्यं न किञ्चिदस्तीत्यभिधाय स्वस्वरूपं न्यरूपयत् , अथ देव! त्वत्समीहितं शीघ्रमेव सम्पादयिष्यामि ब्रजतु स्वामी स्वस्थः स्वावासमित्यमायेनोक्तः क्षितिपतिः स्वावासमयासीत् , ततो मत्री विचित्रोपायपण्डितामात्रेयिकां नाम परिव्राजिका वनमालायाः पार्थे प्राहिणोत् , साऽपि तत्र गत्वा तद्विरहविह्वलां वनमालामवोचत्-वत्से! किमद्य विच्छाया वीक्ष्यसे?, निवेदय स्वदुःखमिति, साऽपि निःश्वस्य दुष्प्रापप्रार्थकतामात्मीयामकथयत्, आत्रेयिकापि मदीयमत्रतत्राणां न किश्चिदसाध्यमस्ति ततः प्रातः पृथ्वीपतिना सह सङ्गमं तव करिष्यामीति तामाश्वास्य गत्वा च सचिवसविधं तत् नृपप्रयोजनं निष्पन्नप्रायं न्यवेदयत् , सचिवोऽपि तवृत्तान्तनिवेदनेन नृपराजमरजयत्, ततः प्रभाते परिव्राजिका वनमालामादाय नृपमन्दिरमगमत् , राजाऽप्यनुरागवशतस्तामन्तःपुरे निक्षिप्य तया सममसमं संसारसुखमन्वभूत् , इतश्च वीरककुविन्दोऽपि वनमालामनवलोकमानो हा प्रिये वनमाले! क गताऽसीत्यापनेकप्रकारं प्रलपचुन्मत्त इव च त्रिकचत्वरादिषु परिभ्रमन्नेकदा नृपतिनिकेतनान्तिकमभ्यगात् , भूपालोऽपि वनमालासहितस्तथाविकृताकारं शून्यमानसं हा वनमाले इत्यादिप्रलापिनं तमवेक्ष्य व्यचिन्तयत्-अहोऽस्माभिरुभयलोकविरुद्धमतिनिर्गुणं कर्म समाचरितं सर्वथाऽप्यस्माकं नरकेऽप्यवस्थानं नास्तीत्यादि बह्वात्मानं निन्दतोस्तयोः सहसैवाकाशात्तडित्पतित्वा प्राणान् जहार, मृत्वा च तौ परस्परस्नेहवशात् शुभध्यानाच हरिवर्षाख्ये तृतीये क्षेत्रे मिथुनरूपिणौ हरिहरिणीनामकावुत्पन्नौ, तत्र च कल्पपादपसम्पादितसमीहिती सततमवियुक्तौ परस्परस्नेहवशात् सुचिरं विलसन्तौ तस्थतुः, वीरकुविन्दोऽपि तयोर्मृत्युमवगत्य त्यक्तपहिलभावो दुस्तपमज्ञानतपः किमपि कृत्वा मृत्वा च सौधर्मकल्पे किल्विषिकसुरः समुत्पेदे, अवधिना च निजं पूर्वभवं हरिहरिणीनामकौ च पूर्वभववैरिणौ विलोक्य तत्कालोत्पन्नरोषारुणेक्षणः क्षणमचिन्तयत्-इह हरिवर्षक्षेत्रे क्षेत्रानुभावादेव ताववध्यौ मृतौ चावश्यमेव देवलोकं ब्रजिष्यतस्ततो दुर्गतिनिबन्धने अकालेऽपि मरणप्रदे नयाभ्यन्यत्र स्थानान्तरे इति विनिश्चित्य तावुभावपि कल्पतरुभिः सह ततः क्षेत्रादपहृत्य भरतक्षेत्रे चम्पापुर्यामानैषीत् , तस्यां च पुरि तदानीमिक्ष्वाकुवंशजश्चन्द्रकीर्तिनामा नृपोऽपुत्रः पञ्चत्वमगमत् , ततस्तस्य प्रकृतयो राज्याईमपरं पुरुषमन्वेष्टुं सर्वतोऽपि प्रवर्तमानास्तेन देवेनाकाशस्थितेन स्वसमृद्धिवशतः सर्वस्यापि जनस्य विस्मयमुपजनयता सादरममिहिताः-भो भो राज्यचिन्तकाः! भवत्पुण्यप्रेरितेनेव मया हरिवर्षात् हरिण्याख्यनिजपल्या समन्वितो हरिनामा राज्याहः पुमान युग्मरूपोऽनयोरेवाहारयोग्यैः कल्पद्रुमैः सममिहानीतः तदयमस्तु भवतां राजा, एतयोश्च कल्पपादपफलमिदं पशुपक्षिमांसं मद्यं चाहारो देय इति, प्रकृतयोऽप्येवमस्त्विति भणित्वा हरि राज्ये स्थापयामासुः, सोऽपि सुरः स्वशक्त्या तयोरायुःस्थिति इवां तनुं च धनुःशतमानां कृत्वा तिरोदधे, हरिरपि पयोधिपर्यन्तां वसुधां साधयित्वा सुचिरं राज्यमकरोत् , ततः प्रभृति च पृथिव्यां तन्नाम्ना हरिवंशो बभूवेति ७ । तथा चमरस्य -असुरकुमारेन्द्रस्योत्पात:-ऊर्द्धगमनं सोऽप्याकस्मिकत्वादाश्चर्यमिति, श्रूयते हि इहैव भरतक्षेत्रे बिभेले सन्निवेशे पूरणो नाम धनाढ्यो गृहपतिरभूत् , स चान्यदा निशीथे चिन्तयामास-नूनं प्राग्भवाचीर्णविस्तीर्णतपःप्रभावतःप्राप्ता तावदियं लक्ष्मीः मान्यता च, वतः पुनरप्येष्यद्भवे विशिष्टफलप्राप्तये गृहवासं परित्यज्य किमपि दुस्तपं तपः करोमीत्येवं विचिन्त्य प्रातः सर्वानपि स्वजनानापृच्छय तनयं च निजपदे निवेश्य प्राणामनामकं तापसव्रतमाहीत् , तदिनादारभ्य च यावज्जीवं षष्ठं तपश्चकार, पारणकदिने च दारुमयं चतुष्पुटं भिक्षापात्रमादाय मध्याह्नक्षणे मिक्षा भ्राम्यति स्म, तत्र प्रथमपुटपतितां भिक्षां पान्थादिभ्यः द्वितीयपुटपतितां भिक्षा काकादिभ्यः तृतीयपुटमिक्षा च मत्स्यादिजलचारिभ्यो दत्त्वा रागद्वेषादिरहितश्चतुर्थपुटभिक्षा स्वयमभुङ्क, एवं द्वादश वर्षाणि बालतपः कृत्वा पर्यन्तसमये मासमेकमनशनमादाय मृत्वा च चमरचञ्चायां चमरेन्द्रो बभूव, उत्पन्नश्च तत्रावधिज्ञानेनेतस्ततः पश्यन्नूर्द्ध सौधर्मावतंसके विमाने सौधर्मेन्द्रं दृष्ट्वा क्रुद्धः सुरानवोचत्-अरे कोऽयं दुरात्माऽप्रार्थितप्रार्थितो मम शिरः स्थित एवं विलसतीति ?, तेऽप्यूचुः-अयं हि पूर्वभवार्जितैः पुण्यैः सर्वातिशायिसमृद्धिपराक्रमः सौधर्माधिपः शक्र इति, एतच्च श्रुत्वाऽधिकतरं क्रुद्धः स्वपरिवारनिवारितोऽपि युयुत्सुः शिक्षयाम्येनमवज्ञाकारिणमिति वदन् परिघमादाय स हि शक्तः श्रूयते ततः कथमपि तत्पराजितोऽहं कं शरणं प्रपत्स्ये ? इति विचिन्त्य स सुसुमारपुरे प्रतिमास्थितस्य श्रीमहावीरस्य समीपमागमत् , तत्र च प्रणामपूर्वकं भगवंस्तव प्रभावेण वनिणं जेष्यामीति विभुं विज्ञप्य लक्षयोजनमानमतिविकृतं निजवपुर्विधाय परिघप्रहरणं परितो भ्रमयन् गर्जनास्फोटयन् त्रिदशान त्रासयन् दर्पान्धः सौधर्मेन्द्रं प्रति समुदपतत् , तत एक पादं सौधर्मावतंसकविमानवेदिकायामपरं च सुधर्मायां निधाय परिघेनेन्द्रकीलं त्रिस्ताडयित्वाऽनेकशः शक्रमाक्रोशयामास, शक्रोऽप्यवधितस्तं विदित्वा कोपाजाज्वल्यमानः स्फारस्फुरत्स्फुलिङ्गशतसमाकुलं कुलिशं तं प्रति मुमोच, चमरोऽपि पृष्ठतो दम्भोलिमायान्तमवलोकयितुमच्यक्षमः श्रीमहावीरं शरणं प्रपित्सुर्वपुर्विस्तरमुपसंहृत्य त्वरिततरं पलायिष्ट, समासन्नीभूतकुलिशश्च शरणं शरणमिति ब्रुवाणः
173

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310