Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 184
________________ साम्प्रतमेतासामेव भाषाणां भेदानमिघित्सुः प्रथमं सत्यभाषाया भेदानाह–'जणवयेत्यादि, सत्या भाषा तावद्दशप्रकारा भवति जनपदसत्यादिभेदात् , तत्र जनपदेषु-देशेषु या यदर्थवाचकतया रूढा देशान्तरेऽपि सा तदर्थवाचकतया प्रयुज्यमाना सत्या-अवितथेति जनपदसत्या, यथा कोकणादिषु पयः पिञ्चं नीरमुदकमित्यादि, सत्यता चास्या अदुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्यवहारप्रवृत्तः, एवं शेषेष्वपि भावना कार्या १, तथा सकललोकसाम्मत्येन सत्यतया प्रसिद्धा सम्मतसत्या, यथा कुमुदकुवलयोत्पलतामरसानां समानेऽपि पङ्कसम्भवे गोपालादीनां सम्मतमरविन्दमेव पङ्कजं न शेषमित्यरविन्दे संमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्योऽसम्मतत्वादिति २, तथा स्थापनासत्या या तथाविधमकविन्यासं मुद्राविन्यासं चोपलभ्य प्रयुज्यते यथा एककं पुरतो बिन्दुद्वयसहितमुपलभ्य शतमिदमिति बिन्दुत्रयसहितं सहस्रमिदमिति, तथा तथाविधं मुद्राविन्यासमुपलभ्य मृत्तिकादिपु मासोऽयं कार्षापणोऽयमिति, यद्वा यल्लेप्यादिकर्म अहंदादिविकल्पेन स्थाप्यते सा स्थापना तद्विषये सत्या स्थापनासत्या, यथाऽजिनोऽपि जिनोऽयं अनाचार्योऽप्याचार्योऽयमिति ३, तथा नामतः-अमिधानमात्रेण सत्या नामसत्या, यथा कुलमवर्धयन्नपि कुलवर्धनः धनमवर्धयन्नपि धनवर्धनः अयक्षश्च यक्ष इति ४, तथा रूपतो-रूपापेक्षया सत्या रूपसत्या, यथा दम्भतो गृहीतप्रव्रजितरूपः प्रव्रजितोऽयमिति ५, तथा प्रतीत्य-आश्रिय वस्त्वन्तरं सत्या प्रतीत्यसत्या, यथा अनामिकायाः कनिष्ठामधिकृत्य दीर्घत्वं मध्यमामधिकृत्य इखत्वं, न च वाच्यं कथमेकस्या इस्वत्वं दीर्घत्वं च तात्त्विकं परस्परविरोधादिति, मिन्ननिमित्तत्वे परस्परविरोधासम्भवात् , तथाहि-तामेव यदि कनिष्ठां मध्यमां वा एकामङ्गुलिमङ्गीकृत्य इस्वत्वं दीर्घत्वं च प्रतिपाद्येत ततो विरोधः सम्भवेत् , एकनिमित्तत्वे परस्परविरुद्धकार्यद्वयासम्भवात् , यदा त्वेकामधिकृत्य इस्वत्वं अपरामाधेकृत्य दीर्घत्वं तदा सत्त्वासत्त्वयोरिव भिन्ननिमित्तत्वान्न परस्परं विरोधः, अथ यदि तात्त्विके इस्खत्वदीर्घत्वे तत ऋजुत्ववक्रत्वे इव कस्मात्ते परनिरपेक्षे न प्रतिभासेते ?, तस्मात्परोपाधिकत्वात्काल्पनिके इमे इति, तद्युक्तं, द्विविधा हि वस्तुनो धर्माःसहकारिव्यलयरूपा इतरे च, तत्र ये सहकारिव्यङ्ग्यरूपास्ते सहकारिसम्पर्कवशात्प्रतीतिपथमायान्ति यथा पृथिव्या जलसम्पर्कतो गन्धः, इतरे त्वेवमेवापि यथा कर्पूरादिगन्धः, इस्वत्वदीर्घत्वे अपि सहकारिव्यङ्गयरूपे, ततस्ते तं तं सहकारिणमासाद्याभिव्यक्तिमायात इत्यदोषः ६, तथा व्यवहारतो-लोकविवक्षातः सत्या व्यवहारसत्या, यथा गिरिर्दह्यते गलति भाजनं अनुदरा कन्या अलोमिका एडका, लोको हि गिरिगततृणादिदाहे तृणादिना सह गिरेरभेदं विवक्षित्वा गिरिर्दह्यते इति ब्रूते, भाजनादुदके श्रवति उदकभाजनयोरभेदं विवक्षित्वा गलति भाजनमिति, सम्भोगजबीजप्रभवोदराभावेऽनुदरेति लवनयोग्यलोमाभावेऽलोमिकेति, ततो लोकव्यवहारमपेक्ष्य साधोरपि तथा अवतो व्यवहारसत्या भाषा भवति ७, तथा भावतो वर्णादिस्वरूपा सत्या भावसत्या, किमुक्तं भवति ?-यो भावो वर्णादियस्मिन्नुत्कटो भवति तेन या सत्या भाषा सा भावसत्या, यथा सत्यपि पश्चवर्णसम्भवे शुक्लस्यैव वर्णस्योत्कटत्वादलाका शुक्छेति ८, तथा योगः-सम्बन्धस्तस्मात्सत्या योगसत्या, यथा छत्रयोगाद्विवक्षितशब्दप्रयोगकाले छत्राभावेऽपि छत्रयोगस्य सम्भवात् छत्री, एवं दण्डयोगाहण्डी ९, तथा उपमैव औपम्यं तेन सत्या औपम्यसत्या, यथा समुद्रवत्तडागमिति १०॥८९१।। अथ द्वितीयभाषाया मृषालक्षणाया भेदानाह-कोहे। इत्यादि, क्रोधनिःसृतादिभेदान्मृषाभाषा दशविधा भवति, सप्तम्याः पञ्चम्यर्थत्वान्निःसृतशब्दस्य च प्रत्येकममिसम्बन्धात्क्रोधानिःसृता क्रोधाद्विनिर्गतेत्यर्थः, एवमन्यत्रापि, तत्र क्रोधाभिभूतो विसंवादनबुद्ध्या परं प्रत्याययन् यत्सत्यमसत्यं वा भाषते तत्सर्व मृषा, तस्य हि आशयोऽतीव दुष्टः, ततो यदपि घुणाक्षरन्यायेन सत्यमापतति शाठ्यबुद्ध्या वोपेत्य सत्यं भाषते तदप्याशयदोषदुष्टमिति मृषा, यथा वा क्रोधामिभूतः पिता पुत्रमाह-न त्वं मम पुत्र इति, अदासं वा दासमभिधत्ते इति १ तथा मानानिःसृता यत्पूर्वमननुभूतमप्यैश्वर्यमात्मोकर्षख्यापनायानुभूतमस्मामिस्तदानीमेवमैश्वर्यमित्यादि वदति २ तथा मायाया निःसृता यत्परवञ्चनामिप्रायेण सत्यमसत्यं वा भाषते ३ तथा लोभानिःसृता वणिक्प्रभृतीनामन्यथा क्रीतमेवेत्थं क्रीतमित्यादि ४ तथा प्रेम्णो निःसृता, यदतिप्रेमवशादासोऽहं तवेत्यादि वदति ५ तथा द्वेषानिःसृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि ६ तथा हास्यान्निःसृता यथा कान्दर्पिकाणां कस्मिंश्चित्कस्यचित् सम्बन्धिनि गृहीतेऽपि पृष्टानां केलिवशतो न दृष्टमित्यादि ७ तथा भयान्निःसृता तस्करादिभयेनासमजसभाषणं ८ तथा आख्यायिकानि:मृता, यथा कथास्वसंभव्यमिधानं ९ तथा उपघातानिसृता चौरस्त्वमित्याद्यसदभ्याख्यानमिति १०॥८९२॥ अथ तृतीयभाषायाः सत्यामृषाया भेदानाह–'उप्पन्ने'त्यादि, उत्पन्नमिश्रितादिभेदात्सत्यामृषा भाषा दशधा भवति, इह च मध्यस्थितस्य 'मीसय'त्ति पदस्य सर्वत्रापि सम्बधादुत्पन्नमिश्रिता विगतमिश्रितेत्यादि द्रष्टव्यं, ततश्च उत्पन्नमिश्रिता अनुत्पन्नैः सह सङ्ख्यापूरणार्थ या सा उत्पन्नमिश्रिता, एवमन्यत्रापि यथायोगं भावनीयं, तत्रोत्पन्नमिश्रिता यथा कस्मिंश्चिद् प्रामे नगरे वा न्यूनेष्वधिकेषु वा दारकेषु जातेषु दश दारका अस्मिअद्य जाता इत्यादि, व्यवहारतः सत्यामृषात्वाद् अस्याः, श्वस्ते शतं दास्यामीत्युक्त्वा पञ्चाशत्यपि दत्तायां लोके मृषात्वादर्शनादनुत्पन्नेध्वेवादत्तेष्वेव च मृषात्वव्यवहारात् १ तथा एवमेव मरणकथने विगतमिश्रिता, यथा अस्मिन्नद्य दश वृद्धा विगता इत्यादि २ तथा जन्मनो मरणस्य च कृतपरिमाणस्यामिधाने विसंवादने च मिश्रकमिश्रिता उत्पन्न विगतमिश्रितेत्यर्थः, यथाऽस्मिन्नद्य दश दारका जाता दश च वृद्धा विपन्ना इति ३ तथा प्रभूतानां जीवतां स्तोकानां च मृतानां शङ्खशजनकादीनामेकत्र राशौ दृष्टे यदा कश्चिदेवं वदति-अहो महान् जीवराशिरयमिति तदा सा जीवमिश्रिता, सत्यामृषात्वं चास्या जीवत्सु सत्यत्वान्मृतेषु मृषात्वात् ४ तथा यदा प्रभूतेषु मृतेषु स्तोकेषु जीवत्सु एकत्र राशीकृतेषु शङ्खादिष्वेवं वदति-अहो महानयं मृतो जीवराशिरिति तदा सा अजीवमिश्रिता, अस्या अपि सत्याम 175

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310