Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
च्छस्य तदधीनत्वात यथाशक्ति निरन्तरं सूत्राथेनिणेयप्रवृत्तेश्व, तथा वृषभे-उपाध्यायादिके द्वादश वर्षाणि यावत प्रतिजागरणा राबैरशुवस्तुमिश्च विधेया, ततः परं शक्तौ भक्तविवेकः, एतावता कालेनान्यस्यापि समस्तगच्छभारोद्वहनसमर्थस्य वृषभस्य उत्थानात् , तथा अष्टादश मासान यावद्वियोः-सामान्यसाधोः शुद्धैरशुद्धैः प्रतिजागरणा विधेया, ततः परमसाध्यतया शक्तौ सत्यां भक्तविवेकस्यैव कर्तुमुचितत्वात् , इदं च शुद्धाशुद्धाशनादिमिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादेः परिहाणिवशतो भक्ताचलाभवतां च विधेया (य) न पुनरेवमेव सुस्थावस्थायामिति, व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रक्रियाव्यवस्थार्थमियं माथा लिखिताऽस्ति, यथा"छम्मासे आयरिओ कुलं तु संवच्छराइँ तिन्नि भवे । संवच्छरं गणो खलु जावजीवं भवे संघो ॥१॥” अस्या व्याख्या-प्रथमत आचार्यः षड मासान यावचिकित्सां ग्लानस्य कारयति, तथाप्यप्रगुणीभूतं तं कुलस्य समर्पयति, ततः कुलं त्रीन् संवत्सरान् यावचिकित्सकं
थाप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति, तदनन्तरं संवत्सरं यावद्गणः खलु चिकित्सां कारयति, तथाप्यनिवर्तितरोगे तं गणः सहस्य समर्पयति, ततः सबो यावज्जीवं-प्रासुकप्रत्यवतारेण तदभावे चाप्रासुकेनापि यावज्जीवं चिकित्सको भवति, एतच्चोक्तं भक्तविवेकं कर्तुमशकवतः, यः पुनर्भक्तविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादश मासान् चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुष्प्रापत्वात् , तदनन्तरं चेत्प्रगुणीभवति ततः सुन्दरं, अथ न भवति तर्हि भक्तविवेकः कर्तव्य इति १३० ।। ८६३॥ इदानी 'उवहिधोयणकालो'त्ति एकत्रिंशदुत्तरशततमं द्वारमाह
अप्पत्ते चिय वासे सवं उवहिं धुवंति जयणाए । असईए उद्गस्स उ जहन्नओ पायनिजोगो ॥८६४ ॥ आयरियगिलाणाणं मइला मइला पुणोवि धोइज्जा । माहु गुरूण अवण्णो लोगम्मि
अजीरणं इअरे ॥ ८६५॥ अप्राप्त एव-अनायाते एव वर्षे वर्षाकाले वर्षाकालान्मनागक्तिने काले इत्यर्थः, जलादिसामग्यां सत्यामुत्कर्षतः सर्वमुपधि-उपकरणं यतनया यतयः प्रक्षालयन्ति, उदकस्य-जलस्य पुनरसति-अभावे जघन्यतोऽपि पात्रनिर्योगोऽवश्यं प्रक्षालनीयः, इह निस्पूर्वो युजिरुप. कारे वर्तते, उलंच पाठोदूखले 'निज्जोगो उवयारों' इति, तत्र नियुज्यते-उपक्रियतेऽनेनेति निर्योगः-उपकरणं पात्रस्य निर्योगः पात्रनिर्योगः-पात्रोपकरणं पात्रकबन्धादिः, उक्तं च-"पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया । पडलाइं रयत्ताणा गोच्छओ पायनिबोगो॥१॥" इति, आह-किं सर्वेषामेव वस्त्राणि वर्षाकालादागेव प्रक्षाल्यन्ते? किं वाऽस्ति केषाश्चिद्विशेषः ?, अस्तीति ब्रूमः, ॥ ८६४ ॥ केषामिति चेदत आह–'आयरियेत्यादि, आचार्या:-प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः, आचार्यग्रहणमुपलक्षणं तेनोपाध्यायादीनां प्रभूणां परिग्रहः, तेषां, तथा ग्लाना-मन्दास्तेषां च पुनः पुनर्मलिनानि २ वस्त्राणि प्रक्षालयेत्, प्राकृतत्वाच मलिनानीत्यत्र सूत्रे पुंस्त्वनिर्देशः, प्रस्तुतेऽर्थे कारणमाह-'मा ह' इत्यादि, मा भवतु हु:-निश्चितं गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्ण:-अश्लाघा, यथा निराकृतयोऽमी मलदुरभिगन्धोपलिप्तदेहाः ततः किमेतेषामुपकण्ठं गतैरस्माभिरिति, तथा इतरस्मिन्-लाने मा भवत्वजीर्णमिति, मलक्लिन्नवस्त्रप्रावरणे हि शीतलमारुतादिसम्पर्कतः शैत्यसम्भवेन भुक्ताहारस्यापरिणतौ ग्लानस्य विशेषतो मान्द्यमुज्जृम्भते इति, इह वर्षाकालप्रत्यासन्नं कालमपहाय शेषे ऋतुबद्धे काले चीवरप्रक्षालनं यतीनां न कल्पते, प्राण्युपमर्दोपकरणबकुशत्वाद्यनेकदोषसम्भवात् , नन्वेते दोषा वर्षाकालार्वागपि वनप्रक्षालने सम्भवन्ति ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि, तन्न, तदानीं चीवरप्रक्षालनस्य सूत्रोक्तनीत्या बहुगुणत्वात् , येऽपि च प्राण्युपमदोंदयो दोषास्तेऽपि यतनया प्रवर्तमानस्य न सम्भवन्ति, यो हि सूत्राज्ञामनुसृत्य यतनया सम्यक्प्रवर्तते स यद्यपि कथश्चित्प्राण्युपमर्दकारी तथापि नासौ पापभाग्भवति नापि तीब्रप्रायश्चित्तभागी, सत्रबहुमानतो यतनया प्रवर्तमानत्वात् , अत एवोक्तम्-'धुवंति जयणाए' इति १३१ ॥ ८६५ ॥ इदानीं 'भोयणभाय'त्ति द्वात्रिंशदुत्तरशततमं द्वारं व्याचिख्यासुः प्रथमतः कवलमानमाह
बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे क
T॥६६॥ अदमसणस्स सबंजणस्स कुज्जा दवस्स दो भाए। वायपवियारणट्टा छन्भागं ऊणयं कुजा ॥ ८६७ ॥ सीओ उसिणो साहारणो य कालो तिहा मुणेयघो। साहारणंमि काले तत्थाहारे इमा मत्ता ॥ ८६८ ॥ सीए दवस्स एगो भत्ते चत्तारि अहव दो पाणे । उसिणे दुवस्स दुनी तित्रिवि सेसा उ भत्तस्स ॥ ८६९ ॥ एगो दवस भागो अवडिओ भोयणस्स दो भागा।
वहुंति व हायंति व दो दो भागा उ एकेके ॥ ८७०॥ पुरुषस्य कुक्षिपूरक आहारो मध्यमप्रमाणो द्वात्रिंशत्कवला:, किलेत्याहारस्य मध्यमप्रमाणतायाः संसूचक, महेलायाः कुक्षिपूरक आहारो मध्यमप्रमाणोऽष्टाविंशतिः कवला इति ॥८६६॥ अथ भोजनभागप्रतिपादनार्थमेवाह (पन्थापं९०००)-'अद्धे'त्यादि, इह किल सर्वमुदरं पनि गैर्विभज्यते, तत्रार्ध-त्री भागानशनस्य-कूरमुद्रमोदकादेः सव्यजनस्य-तक्रतीमनभर्जिकासहितस्य योग्यं कुर्यात्-विद्ध्यात् , तथा द्रवस्य-पानीयस्य योग्यौ द्वौ भागौ कुर्यात् , षष्ठं तु भागं वातप्रविचारणार्थ-वायुसञ्चलनार्थमूनकं कुर्यात्, अन्यथा हि वायुविष्कम्भतः
168

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310