Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 161
________________ माप्तोऽपरिपूर्णसहायत्वात्, वर्षासु - वर्षाकाले पुनः साधुसप्तकपरिमाणः समाप्तकल्पः, तदूनकः - तस्मात्सप्तकान्न्यूनतर इतरः - असमाप्तकल्पः, यच वर्षासु सप्तानां बिहारकरणं तत् किल वर्षासु तेषां ग्लानत्वादिसम्भवे सहायस्यान्यत आगमनासम्भवादल्प सहायता मा भूदिति हेतोः, ततश्वासमाप्ताजातानां - असमाप्तकल्पाजातकल्पवतां साधूनामोघेन - उत्सर्गेण न किञ्चित्क्षेत्रतद्गतशिष्य भक्तपानवखपात्रादिकमागमप्रसिद्धमाभाव्यमिति १०५ ॥ ७८१ ।। ७८२ ॥ इदानीं 'परिट्ठवणुच्चारकरणदिसि'त्ति षडुत्तरशततमं द्वारमाह दिसा अवरदक्खिणा १ दक्खिणा य २ अवरा य ३ दक्खिणापुवा ४ । अवरुत्तरा य ५ पुच्चा ६ उत्तर ७ पुव्युत्तरा ८ चेव ॥ ७८३ ॥ पउरन्नपाण पढमा बीयाए भत्तपाण न लहंति । तइयाए हिमाई नत्थि उत्थीऍ सज्झाओ ॥ ७८४ ॥ पंचमियाए असंखडी छट्टीए गणस्स भेयणं जाण । सन्तमिया गेलन्नं मरणं पुण अट्ठमे बिंति ॥ ७८५ ॥ दिसिपवणगामसूरियच्छायाए पमणि तिक्तो । जस्सोग्गहोत्ति काऊण वोसिरे आयमेजा वा ॥ ७८६ ॥ उत्तरपुन्वा पुज्जा जम्माऍ निसायरा अहिपडंति । घाणारिसा य पवणे सूरियगामे अवन्नो उ ॥ ७८७ ॥ संसत्तगहणी पुण छायाए निग्गयाएँ वोसिरह । छायाऽसह उपहमिवि वोसिरिय मुहुत्तयं चिट्ठे ॥ ७८८ ॥ उवगरणं वामगजाणुगंमि मत्तो य दाहिणे हत्थे । तत्थऽन्नस्थ व पुंछे - तिआयमणं अदूरंमि ॥ ७८९ ॥ 'दिसे' त्यादिगाथासप्तकं, अचित्तसंयत परिष्ठापनाय दिक् प्रथमतोऽपरदक्षिणा - नैर्ऋती निरीक्षणीया तस्या अभावे दक्षिणा तस्या अभावे अपरा—पश्चिमेत्यर्थः तस्या अप्यभावे दक्षिणपूर्वा-आग्नेयीत्यर्थः तस्या अप्यभावेऽपरोत्तरा - वायवीति भावः तस्या अप्यभावे पूर्वा तस्या अप्यलाभे उत्तरा तस्या अप्यलाभे पूर्वोत्तरा ऐशानीत्यर्थः, इह च यत्र प्रामादौ मासकल्पं वर्षावासं वा गीतार्थाः साधवः संवसन्ति तत्र प्रथममेव पूर्वोक्तासु दिक्षु परिष्ठापने मृतोज्झननिमित्तं त्रीणि महास्थण्डिलानि प्रत्युपेक्षन्ते - आसने मध्ये दूरे च, किं कारणमिति चेत्तत्र ब्रूमः - प्रथमस्थण्डिले कदाचिद्व्याघातो भवेत्, तथाहि क्षेत्रं तत्र केनापि कृष्टं उदकेन वा तत् प्लावितं हरितकायो वा तत्राजनि कीटिकादिभिर्वा तत्संसक्तं जातं प्रामो वा तत्र निविष्टः सार्थो वा कश्चित्तत्रावासित इत्यतो द्वितीये स्थण्डिले परिष्ठापनं विधेयं, तस्याप्येतैरेव हेतुभिर्व्याघाते तृतीये स्थण्डिले परिष्ठापनं कार्यमिति ।। ७८३ ॥ सम्प्रति प्रथमायां दिशि सत्यां शेषदिक्षु परिष्ठापने दोषमाह – 'पउरे' त्या दिगाथाद्वयं, 'पउरन्नपाण पढमा' इत्यत्र प्राकृतत्वात्सप्तम्या लोपः, ततः प्रथमायाम् - अपरदक्षिणायां परिष्ठापने प्रचुरान्नपानवस्त्रपात्रादिलाभतः समाधिरुपजायते, तस्यां सत्यां द्वितीयस्यां दक्षिणायां परिष्ठापने भक्तपाने न लभन्ते, तृतीयस्यां—-पश्चिमायामुपध्यादि न लभन्ते, चतुर्थ्यां - दक्षिणपूर्वस्यां नास्ति स्वाध्यायः स्वाध्यायाभाव इत्यर्थ: ।। ७८४ ॥ पञ्चम्याम्— अपरोत्तरस्यां 'असंखडित्ति कलहः संयतगृहस्थान्यतीर्थिकादिभिः सह षष्ठयां - पूर्वस्यां गणस्य गच्छस्य भेदनं-भेदं जानीहि, गच्छभेदो भवतीत्यर्थः, सप्तम्याम् - उत्तरस्यां ग्लानत्वं - रोगोत्पत्तिः, अष्टमीति प्राकृतत्वाद्विभक्तिलोपे अष्टम्यां - पूर्वोत्तरस्यां दिशि मृत - कपरिष्ठापने मरणं पुनर्बुवते, अन्यः कश्चित्संयतो म्रियते इत्यर्थः, इह च पानीयस्तेनभयादिव्याघातसद्भावतः पूर्वपूर्वदिगलाभे उत्तरोत्तरस्यामपि दिशि मृतकपरिष्ठापने प्रचुरानपानलाभलक्षणः प्रथमदिक्प्रतिपादित एव गुणोऽवसेयः, यदा पुनः पूर्वपूर्वदिक्सद्भावे उत्तरोतरस्यां दिशि परिष्ठापयन्ति तदा पाश्चात्या एव दोषा भवन्तीति ॥ ७८५ ॥ उक्ता अचित्तसंयतपरिष्ठापनदिक्, इदानीमुञ्चारकरणदिगमिधीयते— 'दिसीत्यादि, साधुना संज्ञां व्युत्सृजता 'दिसि' त्ति पूर्वस्यामुत्तरस्यां च दिशि पृष्ठं न दातव्यं, तथा पवनग्रामसूर्याणां च पृष्ठं न दातव्यं, तथा छायायां निर्गतायां व्युत्सृजेत्, तथा त्रिकृत्वः - त्रीन् वारान् प्रमार्ण्य उपलक्षणमेतत् प्रत्युपेक्ष्य च स्थण्डिलमिति गम्यते व्युत्सृजेत्, तत्र चायं विधिः - अयुगलिता अत्वरमाणा विकथारहिताश्च पुरीषव्युत्सर्जनाय व्रजन्ति, तत उपविश्य पुतनिर्लेपनाय इष्टकादिखण्डरूपाणि डगलकानि गृह्णन्ति, पिंपीलिकादिरक्षणार्थं च तेषां प्रस्फोटनं कुर्वन्ति, तदनन्तरमुत्थाय निर्दोषं स्थण्डिलं गत्वा ऊर्द्धमधस्तिर्यक् चावलोकनं कुर्वन्ति, तत्रोद्धुं वृक्षस्थपर्वतस्थादिदर्शनार्थ अधो गर्तादर्याद्युपलब्धये तिर्यक् व्रजद्विश्राम्यदादिनिरीक्षणार्थमिति, ततः सागारिकाभावे संदंशकान् सम्प्रमार्ण्य प्रेक्षिते प्रमार्जिते च स्थण्डिले पुरीषं व्युत्सृजन्तीति, तथा यस्यायमवग्रहः सोऽनुजानीयादित्यनुज्ञां कृत्वा व्युत्सृजेत् आचमेद्वा || ७८६ ॥ सम्प्रत्येनामेव गाथां विवरीतुकाम आह— 'उत्तरे' त्यादि, उत्तरदिक्पूर्वदिक लोके पूज्यते ततस्तस्याः पृष्ठदाने लोकमध्येऽवर्णवादो भवति, वानमन्तरं वा कश्चित् कोपयेत् तथा च सति जीवितव्यस्य विनाशः, तस्माद्दिवा रात्रौ च पूर्वस्यामुत्तरस्यां च पृष्ठं वर्जयेत्, तथा याम्या -दक्षिणा दिक् तस्याः सकाशाद्रात्रौ निशाचराः - पिशाचादयो देवा अभिपतन्ति - उत्तराभिमुखाः समागच्छन्ति, ततस्तस्यां रात्रौ पृष्ठं न दद्यात् उक्तं च - " उभे मूत्रपुरीषे च, दिवा कुर्यादुदङ्मुखः । रात्रौ दक्षिणतञ्चैव तथा चायुर्न हीयते ॥ १ ॥” तथा यतः पवनस्ततः पृष्ठदाने अशुभगन्धाघ्राणं नासिकायां च अर्शास्युपजायन्ते, चशब्दाल्लोकोपहासश्च यथा आघ्रन्त्येतदेते इति, तस्मात्पवनस्यापि पृष्ठं न कर्तव्यं, तथा सूर्यस्य ग्रामस्य च पृष्ठकरणेऽवर्णो - लोकमध्येऽश्लाघा, यथा न किश्विज्जानन्त्येते यल्लोकोद्योतकरस्यापि सूर्यस्य यस्मिन् प्रामे स्थीयते तस्यापि च पृष्ठं ददति, ततस्तयोरपि न दातव्यं पृष्ठमिति '॥ ७८७ || 'छायाए' इति व्याख्यानार्थमाह - 'संसत्ते' त्यादि, संसक्ता द्वीन्द्रियैर्महणिः - कुक्षिर्यस्यासौ संसक्तप्रहणिः, स द्वीन्द्रियरक्ष 152

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310