Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 174
________________ नैगमादीनां ऋजुसूत्रपर्यन्वानां चतुर्णा द्रव्यास्तिकत्वात् शब्दादीनां तु त्रयाणां पर्यायास्तिकत्वात्तयोश्च प्रत्येकं शतभेदत्वात् , अथवा यावन्तो वचनपथास्तावन्तो नया इत्यसङ्ख्याताः प्रतिपत्तव्याः १२४॥८४८॥ इदानीं 'वत्थग्गहणविहाणं ति पञ्चविंशत्युत्तरं शवतमं द्वारमाह जन्न तयट्ठा कीयं नेव वुयं जं न गहियमन्नसिं । आहडपामिचं चिय कप्पए साहुणो वत्थं ।।८४९॥ अंजणखंजणकदमलित्ते, मूसगभक्खियअग्गिविदड्ढे । उन्निय कुहिय पलवलीदे, होह विवागो मुह असुहो वा ॥८५०॥ नवभागकए वत्थे चउरो कोणा य दुन्नि अंताय । दो कनावद्यीउ मज्झे वत्थस्स एकं तु ॥ ८५१॥ चत्तारि देवया भामा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो॥ ८५२॥ देवेसु उत्तमो लामो, माणुसेसु य मज्झिमो। आसु रेस य गेलनं, मरणं जाण रक्खसे॥८५३ ॥ इह तावद्वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पत्तिभेदात् त्रिधा भवति, तत्र एकेन्द्रियावयवनिष्पन्न कार्पासिकादि, विकलेन्द्रियावयवनिष्पनं कौशेयकादि एतच्च कारण एव गृह्यते, पञ्चेन्द्रियावयवनिष्पन्नं और्णिकादि, पुनरेकैकं त्रिधा-यथाकृताल्पपरिकर्मबहुपरिकर्मभेदात्, तत्र यानि परिकर्मरहितान्येव तथास्वरूपाणि लभ्यन्ते तानि यथाकृतानि, यानि चैकवारं खण्डित्वा सीवितानि तान्यल्पपरिकमाणि, यानि पुनर्बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, इह च यान्यल्पपरिकर्माणि वस्राणि तानि बहुपरिकर्मवत्रापेक्षया लोकसंयमव्याघातकारीणीयतस्तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थादिदोषकारित्वाभावात् , ततो गृहद्भिः पूर्व यथाकृतानि प्रामाणि तदलाभे पाल्पपरिकर्माणि तेषामप्यभावे बहुपरिकर्माण्यपि वस्त्राणि प्राह्याणीति, एतच सर्वमपि वस्त्रं गच्छवासिमिः कल्पनीयमेव प्रायम् , तवं-यद्वस्त्रं न तदर्थ-ब्रतिनिमित्तं क्रीतं, यच्च नैव व्रतिनिमित्तं 'वयं'ति अन्तर्भूतण्यर्थत्वात् वायितं, यच्च नैव गृहीतमन्येषां सम्बन्धि, अनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय बलाद्यन्न गृहीतमिति भावः, एवंविधं वस्त्रं, तथा अभ्याहृतमपमित्यकं च त्यक्त्वा शेषं साधोः कल्पत इति, तत्र अभ्याहृतं द्वेधा-परप्रामाभ्याहृतं स्वग्रामाभ्याहृतं च, परग्रामाभ्याहृतं यदन्यस्माद् प्रामादेः साधुनिमित्तमानीतं, स्वप्रामाभ्याहृतं हट्टादिभ्यो यद् व्रतिमिरदृष्टं यतिनिमित्वमेव गृहे समानीतं, प्रतिदृष्टं तु हट्टादिभ्योऽप्यानीतं गृहादिषु यतीनां प्रहीतुं कल्पत इति, तथा अपमित्यक-उद्धारकेणान्यस्माद् गृहीत्वा यद्ददाति, दोषाश्चात्रापि पिण्डवद्वाच्या इति, अपरं च-अत्राप्यविशोधिकोटिविशोधिकोटिद्वयं ज्ञातव्यं, तत्र मूलतो यत्यर्थ वायनादिकं वस्त्रस्याविशोधिकोटिः प्रक्षालनादिकं च यत्यर्थ क्रियमाणं विशोधिकोटिः, इदं च वसं यदा कल्पनीयमित्यवसितं भवति तदा द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयं, मा तत्र गृहिणां मणिर्वा सुवर्ण वा अन्यद्वा रूपकादिद्रव्यं निबद्धं स्यात् , ततः सोऽपि गृहस्थो भण्यते-निरीक्षस्व एतद्वत्रं सर्वतः, एवं च यदि तेन मण्यादि दृष्टं ततो गृहीतं, अथ न दृष्टं ततः साधुरेव दर्शयति एनमपनयेति, आह-गृहिणः कथिते कथमधिकरणं न भवति ?, उच्यते, कथिते स्तोकतर एव दोषः, अकथिते तु महानुड्डाहादिः स्यादिति ॥ अथ यादृशे वने लब्धे शुभं भवति यादृशे चाशुभं भवतीत्येतदाह'अंजणे'त्यादि, अखन-सौवीराखनप्रभृतिकं तैलकजलाजनप्रभृति वा खञ्जनं-दीपमलः कर्दमः-पङ्कस्तैलिप्ते-खरण्टिते वने, तथा मूषकैरुपलक्षणत्वात्कंसारिकादिमिश्च भक्षिते तथाऽमिना विशेषेण दुग्धे तथा तुण्णिते तुन्नकारेण स्वकलाकौशलतः पूरितच्छिद्रे तथा कुट्टितेरजककुट्टनेन पतितच्छिद्रे तथा पर्यवैः-पुराणादिमिः पर्यायैलीढे-युक्त, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्त इत्यर्थः, एवंविधे वने गृहीते सति भवति विपाक:-परिणामः शुभोऽशुभो वा, इयमत्र भावना-गृहीतस्य वरस नव भामा: कल्बन्ते, तत्र च केचिदागेषु अजनखचनादिके सति शुभं फलमुपजायते केषुचित्पुनरशुभमिति । अथ तानेव भागानाह-कल्पनया नवमिर्भागैः कृते वसे एते. बव भागा विज्ञेयाः, यथा-चत्वारः कोणकास्तथा द्वावन्तौ ययोर्दशिका भवन्ति तथा द्वे कर्णपट्टिके, मध्ये च वसस्यैको भागः॥ सम्प्रत्येतेषामेव विभागानां क्रमेण स्वामिन आह-चत्वारः कोणकरूपा भागा दैव्या-देवसम्बन्धिनः, द्वावन्यौ दशिकासम्बद्धौ भागौ मानुषी-मनुष्यस्वामिको, द्वौ च विभागौ-कर्णपट्टिकालक्षणौ आसुरौ-असुरसम्बन्धिनौ सर्वमध्यगतः पुनरेको भागो राक्षसो-राक्षससम्बन्धीत्येवं क्रमेण नवानामपि विभागानां स्वामिनो जानीहीति ।। अथैतेषु भागेषु अन्जनादिसद्भावे प्रशस्ताप्रशस्तं फलमाह-दैव्येषु भागेषु यद्यजनादिमिर्दूषितं वस्त्रं भवेत्तदा तस्मिन् गृहीते यतिजनस्य उत्तमो लाभो भवेद्वस्त्रपात्रादीनां, तथा मानुषभागयोरखनादिमिः दूषिते वने मुनीनां मध्यमो &: सम्पद्यते, तथा आसुरभागयोरखनादिमिः दूषिते वस्ने गृह्यमाणे ग्लानत्वं वतिनां जायते, राक्षसभागे पुनरखनादिदूषिते जानीहि यतीनां मरणमिति १२५ ॥८५३ ॥ साम्प्रतं 'ववहारा पंचेव'त्ति षड्विंशत्युत्तरशततमं द्वारमाह आगम १ सुय २ आणा ३ धारणा ४ य जीए ५ य पंच ववहारा । केवल १ मणो २ हि ३ चउदस ४ दस ५ नवपुवाइ ६ पढमोऽतथ ॥ ८५४ ॥ कहेहि सर्व जो वुत्तो, जाणमाणोऽवि गृहइ । न तस्स दिति पच्छित्तं, विंति अन्नत्थ सोहय ॥८५५॥ न संभरे य जे दोसे, सम्भावा न य मायओ। पञ्चक्खी साहए ते उ, माइणो उन साहए १॥८५६॥ आयारपकप्पाई सेसं सवं सुयं विणिदिदं २। देसंतरहियाणं गूढपयालोयणा आणा ३ ॥८५७॥ गीयस्थेणं दिन्नं सुद्धिं अवहारिऊण तह चेव । दि. 165

Loading...

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310