Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
सतिपाटकादिपरिग्रहः, अयमाशयः-एकस्यामपि वसतौ यस्यां दिशि संस्तारको मासं यावदास्तीर्णस्तां दिशं मासे पूर्णे परित्यज्यापरस्यां दिशि संस्तारक आस्तरणीयः, एवमपरवसतिसद्भावे मासादनन्तरमपरवसतो सक्रमः करणीयः, एवं च कुर्वतां मासकल्पविहारामावेऽपि यतित्वमविरुद्धमेव, यदवाचि-"पंचसमिया तिगुत्ता उजुत्ता संजमे तवे चरणे । वाससयंपि वसंता मुणिणो आराहगा भणिया ॥ १॥" इत्यादि ।। ७७४ ।। अथैकस्मिन् क्षेत्रे उत्कृष्टमवस्थानकालमानमाह-कम्हिपी'त्यादि, कस्मिंश्चित् क्षेत्रे कृत्वाविधाय आषाढमासे मासकल्पं 'तत्रैव तस्मिन्नेव क्षेत्रे 'स्थितानां कृतवर्षाकालानां यावन्मार्गशीर्षे-मार्गशीर्षविषयाणि त्रिंशदिनानि एष 'सालम्बनानां' पुष्टकारणसेविनां ज्येष्ठ-उत्कृष्टोऽवग्रहः-एकत्रावस्थानलक्षणः पाण्मासिकः-षण्मासप्रमाणो भवति, इदमुक्तं भवति -यत्र उष्णकालस्य चरमो मासकल्पः कृतस्तत्र तथाविधान्यक्षेत्राभावतो वर्षाकालं यदि तिष्ठन्ति वर्षाकाले च व्यतिक्रान्ते यदि मेघो वर्षति ततोऽन्यदिवसदशकं तत्र तिष्ठन्ति तस्मिन्नपि समाप्तिमुपगते यदि पुनर्वर्षति ततो द्वितीयं दिवसदशकं तिष्ठन्ति तस्मिन्नप्यतीते पुनर्वृष्टस्तदा तृतीयमपि दिवसदशकं तत्र तिष्ठन्ति, एवमुत्कर्षतस्त्रीणि दिवसदशकानि वृष्ट्याद्यालम्बनमाश्रित्य स्थितानां षण्मासप्रमाण उत्कृष्टोऽवग्रहो भवति, तद्यथा-एको ग्रीष्मचरममासः चत्वारो वर्षाकालमासाः षष्ठो मार्गशीर्षों दिवसदशकत्रयलक्षण इति ॥ ७७५ ॥ अथ मार्गशीर्षे न वर्षति मार्गाश्च हरितकर्दमाद्यनाकुलास्तत्र किं कर्तव्यमित्याह-अहे'त्यादि, अथाति पादानां-चरणानां विचारोगमनानुकूलता, तत इति शेषः, 'चउपाडिवयंमि'त्ति चतसृणां प्रतिपदां समाहारश्चतुःप्रतिपत्, अत्र च प्रतिपदो मासान्तवर्तिन्यो विवक्षिताः, ततः कार्तिकानन्तरं भवति निर्गमनं-विहार इत्यर्थः, अथ विहारयोग्येऽपि समये न निर्गच्छति तदा तस्य साधोरनिर्गच्छतस्तत: स्थानादारोपणं-प्रायश्चित्तं सूत्रनिर्दिष्ट्र-सूत्रकथितं भवतीति ।। ७७६ ॥ नन्वेकत्र क्षेत्र स्थितानां यतनापराणामपि यतीनां कुलप्रतिबन्धादयो बहवो दोषा एव भवन्ति ततः कथमिदं युक्तमित्याह-एगे'त्यादि, एकस्मिन् क्षेत्रे निवास एकक्षेत्रनिवासः तस्मिन् सति यद्यपि 'कालातिक्रान्तचारिणः' समयभणितकालातिक्रमचारिणो यतयस्तथापि 'हुः स्फुटं 'विशुद्धचरणा' निरतिचारचारित्रास्ते 'येन' यतः कारणात् 'विशुद्धालम्बना' विशुद्धं-शाठ्येनादूषितं वार्धकजङ्खाबलपरिक्षीणताविहारायोग्यक्षेत्रादिकमालम्बनं कारणं येषां ते विशुद्धालम्बना इति ॥ ७७७ ॥ अथ कस्मादालम्बनमन्वेषणीयमित्याह-'सालंबे'त्यादि, आलम्ब्यते-पतद्भिराश्रीयते इत्यालम्बनं, तच्च द्विविधं-द्रव्यतो भावतश्च, तत्र गादौ प्रपतद्भिर्यद् द्रव्यमालब्यते तद् द्रव्यालम्बनं, तदपि द्रव्यं द्विविधं-पुष्टमपुष्टं च, तत्रापुष्टंदुर्बलं कुशवल्वजादि पुष्टं तु दृढं कठोरवल्ल्यादि, भावालम्बनमपि पुष्टापुष्टभेदाद् द्विधा, तत्र पुष्टं वक्ष्यमाणं तीर्थाव्यवच्छित्त्यादि, शठतया स्वमतिमात्रोप्रेक्षितं त्वपुष्टं, ततश्च सह आलम्बनेन वर्तत इति सालम्बनः, असौ पतन्नप्यात्मानं दुर्गमेऽपि-गादौ पुष्टालम्बनावष्टम्भतो धारयति, 'इति' एवमेव सह आलम्बनेन वर्तत इति सालम्बनः एवम्भूतः सन् किमपि नित्यवासादिकं सेवते-भजते इति सालम्बनसेवी 'यतिः साधुः संसारगर्तायां पतन्तमात्मानमशठभावं-मातृस्थानरहितं धारयतीत्येष आलम्बनान्वेषणे गुणः ॥ ७७८ ॥ कानि पुनस्तान्यालम्बनानीत्याह-'काह'मित्यादि, यः कश्चिदेवं चिन्तयति यथा करिष्याम्यहमत्र स्थितोऽच्छित्ति-अव्यवच्छित्ति जिनधर्मस्येति शेषः, राजादेर्जिनशासनावतारणादिमिः, 'अदुवे'ति अथवा अहमध्येष्ये सूत्रतोऽर्थतश्च द्वादशानं दर्शनप्रभावकाणि वा शास्त्राणि, यदिवा तपोलब्धिसमन्वितत्वात्तपोविधानेषु नानाप्रकारेषु तपस्सु 'उज्जमिस्सं'ति उद्यस्यामि उद्यमं करिष्यामि, 'गणं वा' गच्छं वा 'नीइस यत्ति सप्तम्यास्तृतीयार्थत्वान्नीतिभिः सूत्रोक्तामिः सारयिष्यामि-गुणैः प्रवृद्धं करिष्यामि, स एवं सालम्बनसेवीएतैरनन्तरोदितरालम्बनैर्यतनया नित्यवासमपि प्रतिसेवमानो जिनाज्ञानुल्लानात्समुपैति-प्राप्नोति 'मोक्षं सिद्धिं, तस्मात्तीर्थाव्यवच्छेदादिकमेव यथोक्तं ज्ञानदर्शनचारित्राणां समुदितानामन्यतरस्य वा यद् वृद्धिजनकं तदालम्बनं जिनाज्ञावशादुपादेयं, नान्यत् , अन्यथा हि-"आलंबणाण भरिओ लोओ जीवस्स अजउकामस्स । जं जं पिच्छइ लोए तं तं आलंबणं कुणइ ॥१॥” इति [अयतितुकामस्य जीवस्य लोक आलम्बनैर्भूतः । यत् यत् प्रेक्षते लोके तत्तद् आलम्बनं करोति ॥ १॥] १०४ ॥ ७७९॥ इदानीं 'जायाजायकप्पत्ति पञ्चोचरशततमं द्वारमाह
जाओ य अजाओ य दुविहो कप्पो य होइ नायचो । एकेकोऽवि य दुविहो समत्तकप्पो य असमत्तो॥ ७८० ॥ गीयत्थ जायकप्पो अगीयओ खलु भवे अजाओ य । पणगं समत्तकप्पो तदूणगो होइ असमत्तो ॥७८१॥ उउबद्ध वासासुं सत्त समत्तो तदूणगो इयरो। असमत्ताजायाणं
ओहेण न किंचि आहवं ॥ ७८२॥ 'जाओ'इत्यादि गाथात्रयं, द्विविधः खलु कल्प:-समाचारो भवति ज्ञातव्यस्तद्यथा-जातोऽजातश्व, तत्र जाता-निष्पन्नाः श्रुतसम्पदुपेततया लब्धात्मलाभाः साधवः तव्यतिरेकात्कल्पोऽपि जात उच्यते, एतद्विपरीतः पुनरजातः, एकैकोऽपि च द्विधा-समाप्तकल्पोऽसमाप्तकल्पश्च, समाप्तकल्पो नाम परिपूर्णसहायः तद्विपरीतोऽसमाप्तकल्पः ॥ ७८०॥ एतानेव चतुरो जातादीन व्याख्यानयति'गीयत्व इत्यादिगाथाद्वयं, गीतार्थसाधुसम्बन्धित्वाद्गीतार्थो यो विहारः स जातकल्पोऽभिधीयते 'अगीतः खलु' अगीतार्थसाधुसम्बन्धी पुनर्भवेदजात:-अजातकल्पः, तथा द्वितीयगाथावर्तिनः 'उउबद्धे' इत्यस्य पदस्थह सम्बन्धात् 'ऋतुबद्धे' अवर्षासु 'पणगं'ति साधुपञ्चकपरिमाणः समाप्तकल्पो नाम विहारो भवति, 'तदनकः' तस्मात्पश्चात् हीनतरो द्वित्रिचतुराणां साधूनामित्यर्थः कल्पो भवत्यस
151

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310