Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
शय्यातरपिण्डग्रहणे दोषानाह-तित्थंकरे'त्यादि, तीर्थकरैः सर्वैरपि प्रतिकुष्टो-निषिद्धः शय्यातरपिण्डः, तं च गृहता तीर्थकराज्ञा न कृता स्यात् , तथा अज्ञातस्य-अविदितस्य राजादिप्रव्रजितत्वेन उच्छवृत्त्या यद्वैक्षं तदज्ञातमुच्यते तदेव प्रायः साधुना प्राचं 'अन्नायउन्छ चरई विसुद्धं' इति वचनात् , तच्चासन्ननिवासादतिपरिचयेन ज्ञातखरूपतया शय्यातरगृहे पिण्डं गृहन्न शुद्ध्यतीति योगः, तथा शय्यातरपिण्डग्रहणे सति 'उदमः' कल्पनीयभक्तादिभवनमपि 'न शुद्ध्यति' न शुद्धो भवति, निकटादिभावेन पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्वं प्रविशत उद्गमदोषाः स्युरित्यर्थः, तथा स्वाध्यायश्रवणादिभ्यः प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति तच्च गृह्णता विभक्तिः पायाभावो न कृतः स्यात् , तथा अविद्यमानं लाघवं लघुता यस्य स तथा तद्भावोऽलाघवता, तत्र विशिष्टाहारलाभेनोपचितत्वाच्छरीरालाघवं शय्यातरात्तत्परिजनाचोपधेर्लाभादुपधेरनल्पतया तदलाघवमिति, तथा दुर्लभा-असुलभा शय्या च-वसतिः कृता भवति, येन किल शय्या देया तेनाहाराद्यपि देयमित्येवं गृहिणां भयोत्पादनात्, तथा व्यवच्छेदो-विनाशो दानभयाच्छय्यायाः शय्यातरेण क्रियते, वसत्यभावाद्वा भक्तपानशय्यादिव्यवच्छेदः स्यादिति ॥ ८०६ ॥ तथा-'पुरे'त्यादि, पूर्वः-ऋषभस्वामी पश्चिमो-वर्धमानस्वामी एतौ द्वावपि मुक्त्वा शेषैर्जिनवरैः-द्वाविंशतिसयैर्मध्यमतीर्थकृद्भिविदेहजैश्च-महाविदेहक्षेत्रसमुत्पन्नैः सर्वैरपि तीर्थकरैः 'अवि कम्मति अपिः-सम्भावने कर्म-आधाकर्म 'लेशेन' एकदेशेन भुक्तं, 'न च' नैव 'सागारिकस्य' शय्यातरस्य पिण्डः, मध्यमविदेहतीर्थकराणां हि यस्यैव योग्यमाधाकर्म कृतं तस्यैव तन्न कल्पते शेषाणां तु कल्पते इति तैराधाकर्मभोजनमपि कथञ्चिदनुमतं, सागारिकपिण्डः पुनः सर्वथापि प्रतिषिद्ध एवेति, अयं च सागारिकपिण्डो द्वादशधा अशनपानखादिमस्खादिम ४ रजोहरणवस्त्रपात्रकम्बल ४ सूचीपिष्पलककर्णशोधननखरदनिका ४ भेदात् , उक्तं च-"असणाईया चउरो ४ पाउञ्छण ५ वत्थ ६ पत्त ७ कंबलयं ८ । सूई ९ छुर १० कन्नसोहण ११ नहरणिया १२ सागरियपिंडो ॥ १॥” तृणडगलकादिस्त्वपिण्डः, उक्तं च-"तणडगलछारमल्लगसेज्जासंथारपीढलेवाई । सेजायरपिंडो सो न होइ सेहो य सोवहिओ ॥ १ ॥" अत्र 'सेहो य सोवहिओत्ति यदि शय्यातरस्य पुत्रः पुत्री वा वस्त्रपात्रादिसहिता प्रव्रजेत्तदा स शय्यातरपिण्डो न भवतीति ॥ ८०७ ॥ तथा-'बाहुल्लेत्यादि, गच्छस्य-साधुसमूहस्य बाहुल्यात्-प्राचुर्याद्धेतोः प्रथमालिकापानकाद्यर्थ शय्यातरगृहे पुनः पुनः प्रविशत्सु साधुषु शय्यातर उद्गमदोषं-आधाकर्मादीनामन्यतरं कमपि कुर्यात्, तत्र प्रथमालिका क्षुल्लकग्लानादीनां प्रथमत एव भोजनं, पानकं च प्रतीतं, तथा निरन्तरस्वाध्यायविधानेन करणेन च-चारित्रेण 'आउट्टिय'त्ति आवर्जिता उपेत्य उद्गमदोषान् कुर्युरिति, अयं च अहोरात्रात्परतोऽशय्यातरो भवति, यदुक्तं-'वुत्थे वजेजहोरत्तं' (उषिते वर्जयेदहोरात्रं ) इदमत्र हृदयं यत्रोषितास्ततः स्थानाद्यस्यां वेलायां विनिर्गता द्वितीय दिने तावत्या वेलायाः परतोऽशय्यातरो भवति, तथा अपवादतो ग्लानत्वादिकारणे शय्यातरपिण्डोऽपि ग्रहीतुं कल्पते, यदुक्तं-'दुविहे गेलन्नंमी निमंतणे दव्वदुल्लहे असिवे । ओमोयरियपओसे भए य गहणं अणुन्नायं ॥ १॥ अस्या व्याख्या-आगाढानागाढे-गाढतरागाढतरे द्विविधे ग्लानत्वे शय्यातरपिण्डोऽपि ग्राह्यः, इदमुक्तं भवति-अनागाढे ग्लानत्वे त्रीन वारानाहिण्ड्यते यदि न लब्धं ग्लानप्रायोग्यं तदा शय्यातरपिण्डोऽपि गृह्यते, आगाढे पुनः शीघ्रमेव शय्यातरपिण्डाहणं क्रियते, निमन्त्रणे च-शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः प्रसङ्गो निवारणीयः, दुर्लभे च क्षीरादिद्रव्ये आचार्यादीनां प्रायोग्ये अन्यत्रालभ्यमाने तत्रैव गृहन्ति, अशिवे-दुष्टव्यन्तरोपद्रवादिके अवमौदर्ये च-दुर्भिक्षे अन्यत्र मिक्षायामलभ्यमानायां शय्यातरगृहेऽपि भिक्षां गृहन्ति, 'पओसे'त्ति राज्ञा प्रद्विष्टेन सर्वत्र भैक्षे निवारिते प्रच्छन्नं तद्गृहेऽपि गृहन्ति, अन्यत्र च तस्कारादिभये तत्रापि गृहन्ति मिक्षादिकमिति. ११२ ॥ ८०८ ॥ इदानीं 'जत्तिय सुत्ते सम्मति त्रयोदशोत्तरशततमं द्वारमाह
चउदस दस य अभिन्ने नियमा सम्मं तु सेसए भयणा । मइओहिविवज्जासे होइ हु मिच्छं न
सेसेसु॥८०९॥ .. -... यस्य साधोश्चतुर्दश पूर्वाणि यावद्दश च पूर्वाणि अभिन्नानि-परिपूर्णानि सन्ति तस्मिन्नियमात्-निश्चयेन सम्यक्त्वं भवति, शेषे-किश्चिदूनदशपूर्वधरादौ भजना-विकल्पना, सम्यक्त्वं वा स्यान्मिध्यात्वं वेत्यर्थः, तथा मतेरवधेश्च विपर्यासे-मत्यज्ञाने विभङ्गज्ञाने च सति हु-निश्चयेन मिथ्यात्वं भवति, मिथ्यात्ववशादेव हि मतिज्ञानावधिज्ञानयोर्विपर्याससद्भावः, श्रुतज्ञानस्य तु विपर्यासो दर्शित एव, 'सेसए भयण'त्ति वचनात् , शेषयोस्तु मनःपर्यवज्ञानकेवलज्ञानयोमिथ्यात्वं न भवत्येवेति ११३ ॥८०९ ॥ इदानीं 'जे निग्गंथावि चउगइय'त्ति चतुर्दशोत्तरशततमं द्वारमाह
चउदस ओहि आहारगावि मणनाणि वीयरागावि । हुंति पमायपरवसा तयणंतरमेव चउगइया ॥ ८१०॥ सर्वत्र सूचामात्रत्वात्सूत्रस्य 'चउदस'त्ति चतुर्दशपूर्वधरा अपि तथा अवधिज्ञानिनोऽपि तथा आहारका अपि-आहारकलब्धिमन्तोऽपि, चतुर्दशपूर्विणोऽपि केचिदाहारकलब्धिमन्तो न भवन्तीत्याहारकग्रहणं, तथा मनःपर्यवज्ञानिनोऽपि, तथा वीतरागा अपि-उपशान्तमोहा अपि, क्षीणमोहानां त्वप्रतिपातित्वान्न ग्रहणं, 'प्रमादपरवशा' विषयकषायादिकलुषीकृतचेतसः सन्तस्तदनन्तरमेव-तद्भवानन्तरमेव चतुर्गतिका-नारकतिर्यग्मनुष्यदेवलक्षणगतिचतुष्टयभाजो भवन्तीति ११४ ॥८१०॥ इदानीं 'खेत्ताईयंति पञ्चदशोत्तरशततमं द्वारमाहजमणुग्गए रविंमि अतावखेत्तंमि गहियमसणाइ । कप्पड़ न तमुवभोत्तुं खेत्ताईयत्ति समउत्ती
. 157

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310