Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 169
________________ निषेधादिपरिग्रहः १० ॥। ८३० ॥ एकादशमं क्रियास्थानमाह - ' एगारे'त्यादि, एकादशं माया - मायाक्रियास्थानं यथा हृदये - मनसि अन्यत् - वचः क्रियाविलक्षणं वाचि वचसि अन्यत् - मनः क्रियाविलक्षणं अन्यथ वाङ्मानसविसंवादि आचरति - करोति, कथम्भूतः सन् ? - 'गूढसामर्थ्यः' गूढे - गोपने सामर्थ्यं - शक्तिविशेषो यस्य स तथा, केन कृत्वा ? - 'स्वकर्मणा' निजचेष्टितेनाकारेङ्गितादिना, मायाप्रत्या एषा क्रियेति ११ ॥ ८३१ ॥ द्वादशं क्रियास्थानमाह - 'एत्तो' इत्यादि, इतः - ऊर्द्ध पुनर्लोभप्रत्यया क्रिया इयं वक्ष्यमाणा, यथा सावद्यारम्भाः- प्राण्युपमर्दादिना सपापव्यापारा ये परिग्रहा - धनधान्यादिरूपास्तेषु महत्सु - गुरुषु सक्तो - गाढतराकाङ्क्षायुक्तः, तथा स्त्रीषु - युवतिषु कामेषु च - मनोज्ञरूपरसगन्धस्पर्शशब्दस्वरूपेषु गृद्धः - अत्यन्तममिसक्तः, तथाऽऽत्मानमपायेभ्यो गाढादरेण रक्षन् अन्येषां सवानां प्राणिनां वधबन्धनमारणानि - लगुडादिहननरज्ज्वादिसंयमनप्राणव्यपरोपणलक्षणानि करोति एषा इह - सिद्धान्ते लोभप्रत्ययालोभनिबन्धना क्रियेति ॥ १२ ॥ ८३२-८३३ ॥ त्रयोदशं क्रियास्थानमाह - अतो- लोभक्रियानन्तरमैर्यापथिकीं क्रियां प्रवक्ष्यामि, तत्र ईरणमीर्या - गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यः केवलयोगप्रत्यय उपशान्तमोहादित्रयस्य सातावेदनीय कर्मबन्धः सा ऐर्यापथिकी, इह खल्वनगारस्य साधोः समितिषु - ईर्यासमित्यादिषु गुप्तिषु – मनोगुत्यादिषुसु गुप्तस्यसुसंवृतस्य सततमेवाप्रमत्तस्योपशान्तमोहक्षीणमोहसयोग के वलिलक्षणगुणस्थानकत्रयवर्तिनः, अन्येषां तु अप्रमत्तानामपि कषायप्रत्यय कर्मबन्धसद्भावेन केवलयोगनिमित्तकर्मबन्धासम्भवान्नाप्रमत्तशब्देनात्र ग्रहणं, भगवतः - पूज्यस्य यावच्चक्षुःपक्ष्मापि निपतति – स्पन्दते, इदं च योगस्योपलक्षणं, ततोऽयमर्थः - यावच्चक्षुर्निमेषोन्मेषमात्रोऽपि योगः सम्भवति तावत्सूक्ष्मा - एकसामयिकबन्धत्वेनात्यल्पा सातबन्धनलक्षणा क्रिया भवति, एषा हु: - स्फुटमैर्यापथिकी क्रिया त्रयोदशीति १२१ ॥। ८३४ ॥ ८३५ ।। इदानीं 'आगरिसा सामाईए चरविहेवि एगभवे' इति द्वाविंशत्युत्तरशततमं द्वारमाह सामाइयं चउद्धा सुय १ दंसण २ देस ३ सब ४ भेएहिं । ताण इमे आगरिसा एगभवं पप्प भणिवा ॥ ८३६ ॥ तिन्ह सहस्स पुहुत्तं च सयपुहुत्तं च होइ विरईए । एगभवे आगरिसा एवइया हुंति नायवा ॥ ८३७ ॥ 'सामे' त्यादि गाथाद्वयं समो - रागद्वेषयोरपान्तरालवर्ती मध्यस्थः, 'इण गतौ' अयनं अयो गमनमित्यर्थः समस्य अयः समायः - समीभूतस्य सतो मोक्षाध्वनि प्रवृत्तिः, समाय एव सामाकं वियादेराकृतिगणत्वात् स्वार्थिक इकण्प्रत्ययः, एकान्तोपशान्तगमनमिति भावः, तश्चतुर्धा - चतुर्भेदं श्रुतदर्शनदेश सर्वलक्षणैर्भेदैः श्रुतसामकं सम्यक्त्वसामायिकं देशविरतिसामायिकं सर्वविरतिसामायिकं चेत्यर्थः, तेषां च चतुर्णामप्येते - वक्ष्यमाणा आकर्षा एकं भवं उपलक्षणत्वान्नानाभवश्च प्राप्य - आश्रित्य भणितव्याः, तत्र आकर्षणमाकर्षः - प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, ते च द्विधा - एकभविका नानाभविकाश्च ।। ८३६ ।। तत्र प्रथमत एकभविकानाह - 'तिन्हे 'त्यादि, त्रयाणांसम्यक्त्वसामायिकश्रुतसामायिकदेशविरतिसामायिकानामेकभवे सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतो भवति, विरते:- सर्वविरतेस्त्वेकभवे शतपृथक्त्वमाकर्षाणामुत्कर्षतः, पृथक्त्वमिति द्विप्रभृतिरानवभ्यः, एवमेतावन्त उत्कर्षत एकभवे आकर्षा भवन्ति ज्ञातव्याः, परतस्तु प्रतिपातोऽलाभो वा, जघन्यतः पुनश्चतुर्णामपि सामायिकानामेक एवाकर्ष एकस्मिन् भवे भवति, उक्तं चावश्यकचूर्णौ - 'सुयसामाइयं एग'भवे जहनेणं एगम्मि आगरिसे उक्कोसेणं सहस्सपुहुत्तंवारा, एवं सम्मत्तस्सवि, देस विरईए य सव्वविरईए य पुण जहन्त्रेण एकम्मि, उक्कोसेणं सयपुहुत्तंवारा" इति ॥ ८३७ ॥ अथ नानाभवगतान् प्रतिपादयति 1 तिन्ह असंखसहस्सा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा एवइया हुंति नायवा ॥ ८३८ ॥ 'तिन्हं' इत्यादि, त्रयाणां - सम्यक्त्वश्रुतदेशविरति सामायिकानां नानाभवेष्वाकर्षाणामुत्कर्षतो भवन्त्यसङ्ख्येयानि सहस्राणि यतस्त्रयाणामप्येकस्मिन् भवे सहस्रपृथक्त्वमाकर्षाणामुक्तं, भवाश्च क्षेत्रपल्योपमासङ्ख्येयभागगतनभः प्रदेशतुल्याः 'संमत्तदसविरया पलियस्सासंखभागमेचा उ ।' [ सम्यक्त्व देशविरताः पल्यस्यासंखभागमात्रा एव ] इति वचनात् ततः सहस्रपृथक्त्वं तैर्गुणितमसङ्ख्येयानि सहस्राणि भवन्ति, सहस्रपृथक्त्वं च नानाभवेष्वाकर्षाणामुत्कर्षतो भवति विरते:- सर्वविरतेः, तस्या हि खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं भवावाष्टौ ततः शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवति, एतावन्तो नानाभवेष्वाकर्षा भवन्ति ज्ञातव्याः, अन्ये पठति — 'दोह सहस्स-' मसंखा' इति, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकानन्तरीयकत्वादनुक्तमपि प्रतिपत्तव्यं, सामान्यश्रुतस्य त्वक्षरात्मकस्य नानाभवेष्वाकर्षा अनन्तगुणा इति १२२ ।। ८३८ ।। इदानीं 'सीलंगद्वारससहस्स' त्ति त्रयोविंशत्युत्तरशततमं द्वारमाह सीलंगाण सहस्सा अट्ठारस एत्थ हुंति नियमेणं । भावेणं समणाणं अक्खंडचरित्तजुत्ताणं ॥ ८३९ ॥ जोए ३ करणे ३ सन्ना ४ इंदिय ५ भोमाइ १० समणधम्मे य १० । सीलंगसहस्साणं अट्ठारगस्स निष्पत्ती ॥ ८४० ॥ करणाइँ तिन्नि जोगा मणमाईणि हवंति करणाई । आहाराई 160

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310