Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
पिचारादर्थ.
प्रयोजनव्यतिरेकोजी पुणे'त्यादि, य:
क्रियेति २॥८२
जाइमयाई अविहेणं तु माणेणं ॥ ८२८ ॥ मत्तो हीलेइ परं खिसइ परिभवइ माणवच्चेया ९। माइपिहनायगाईण जो पुण अप्पेवि अवराहे ॥ ८२९ ॥ तिवं दंडं कुणई दहणंकणबंधताडणाईयं । तम्मित्तदोसवित्ती किरियाठाणं भवे दसमं १०॥ ८३०॥ एगारसमं माया अन्नं हिययंमि अन्न वायाए । अन्नं आयरई वा सकम्मणा गूढसामत्थो । ८३१ ॥ मायावती एसा ११ एत्तो पुण लोहवत्तिया इणमो । सावजारंभपरिग्गहेसु सत्तो महंतेसु ॥ ८३२॥ तह इत्थीकामेसुं गिद्धो अप्पाणयं च रक्खंतो। अनसिं सत्ताणं वहबंधणमारणे कुणइ ॥८३३ ॥ एसेह लोहवत्ती १२ इरियावहिअं अओ पवक्खामि । इह खलु अणगारस्सा समिईगुत्तीसुगुत्तस्स ॥८३४॥ सयतं अप्पम
त्तस्स भगवओ जाव चक्खुपम्हंपि।निवयइ ता सुहमा हू इरियावहिया किरिय एसा १३ ॥८३५॥ 'अट्टे'त्यादिगाथाऽष्टादशकं, करणं क्रिया-कर्मबन्धनिबन्धना चेष्टा तस्याः स्थानानि-भेदाः क्रियास्थानानि तानि च त्रयोदश, तत्र 'अट्ठाऽणट्ठा हिंस'त्ति अत्र त्रिषु पदेषु प्राकृतलक्षणेन चतुर्येकवचनस्य लोपो दृश्यः, ततोऽर्थाय-स्वपरप्रयोजनाय क्रिया अर्थक्रिया, अनर्थाय-खपरप्रयोजनाभावेन क्रियाऽनर्थक्रिया, हिंसायै क्रिया हिंसाक्रिया, अथवाऽर्थों विद्यते यस्यां साऽर्थक्रिया अनर्थः-स्वप्रयोजनाभावो विद्यते यस्यां साऽनर्था; हिंसा विद्यते यस्यां सा हिंसाक्रिया, अर्शादेराकृतिगणत्वादच्प्रत्ययः, तथाऽकस्माद्-अनभिसन्धिना क्रियाऽकस्माक्रिया, तथा 'दिट्टी यत्ति दृष्टिविपर्यासक्रिया सूचनात्सूत्रमितिकृत्वा, तथा मृषाक्रिया तथाऽदत्तादानक्रिया तथाऽध्यात्मक्रिया तथा मानक्रिया तथाऽमित्रक्रिया तथा मायाक्रिया तथा लोभक्रिया तथा ईर्यापथक्रियेति ।। ८१८ ॥ अथैतानि क्रमेण व्याचिख्यासुः प्रथम क्रियास्थानं व्याचष्टे-'तसे'त्यादि, अत्र तृतीयायाः सप्तम्यर्थत्वात् त्रसेषु-द्वीन्द्रियादिषु स्थावरेषु-पृथिव्यादिषु भूतेषु-प्राणिषु यः कश्चिद्दण्डं-दण्ड्यते आत्माऽन्यो वा प्राणी येन स दण्डो-हिंसा, तं निसृजति-करोति कार्येण-प्रयोजनेन, तदेवाह-'आयपरस्स व अट्ट'त्ति आत्मनः-स्वशरीरादेः परस्य वा-बन्धुवर्गादेराय-उपकाराय तं क्रियाक्रियावतोरभेदोपचारादर्थ. दण्डं-अर्थक्रियां ब्रुवते तीर्थकरगणधरा इति ॥८१९ ॥ अथ द्वितीयं क्रियास्थानमाह-"जो पुणे'त्यादि, यः पुनः कश्चित्सरटादिकंककलासमूषिकादिकं त्रसकार्य स्थावरकायं च-वनलतादिकं प्रयोजनव्यतिरेकेणैव यथाक्रमं मारयित्वा छित्त्वा च त्यजति स धर्मधर्मिणोरभेदोपचारादनाय क्रियेति २॥८२०॥ तृतीयं क्रियास्थानमाह-'अही'त्यादि, अयं सर्पादिवैरी वाऽस्मान् हिंसितवान् हिनस्ति हिंसिष्यति वा इत्यभिसंधिना अह्यादेः-सादेः मकारोऽलाक्षणिकः वैरिणो वा यो दण्डमारभते-वधं विधत्ते स हिंसादण्डः धर्मधर्मिणोरभेदोपचाराद्भवत्येष इति ३ ॥ ८२१॥ चतुर्थ क्रियास्थानमाह-'अन्नद्धे'त्यादि, अन्यार्थ-अन्येषां मृगपक्षिसरीसृपप्रभृतीनां वधनिमित्तं 'निसृजति' क्षिपति 'काण्डादिक' शरलेष्टुप्रभृतिकं अन्यं पुनराहन्यात् य एषोऽकस्माद्-अनमिसन्धिना अन्यवधार्थप्रवृत्त्या दण्डः-अन्यस्य विनाशोऽकस्माइण्डः, यो वा 'नियंतो'त्ति अवलोकयन् छेदनबुद्ध्या तृणादिकं अन्यत् शाल्यादिकं शस्यमनाभोगेन छिद्यादिति, अयमर्थ:-अन्यस्मिन् शाल्यादिमध्यव्यवस्थिते तृणादिके छेत्तुमुपक्रान्ते अनाभोगतोऽन्यच्छाल्यादिकं छिंद्यात् एष वाऽकस्मादण्डः ४॥ ८२२ ॥ पञ्चमं क्रियास्थानमाह-'दिदी'त्यादि, दृष्टे:-बुद्धेर्विपर्यासो-विपर्ययो मतिविभ्रम इत्यर्थः तस्मादयं-वक्ष्यमाणो दण्डो भवति, अमुमेवाह-यो मित्रमपि सदमित्रमितिकृत्वा घातयेत्, यो मित्रस्याप्यमित्रोऽयमिति बुद्ध्या वधः स दृष्टिविपर्यासदण्ड इति भावः, अथवाऽपीति प्रकारान्तरद्योतने, प्रामादीन् घातयेत् , अयमर्थः-प्राममध्यवर्तिना केनचित्कस्मिश्चिदपराधे कृते समप्रमपि ग्रामं यन्मारयति एष वा दृष्टिविपर्यासदण्ड इति, यद्वा अस्तेनमपि स्तेनोऽयमितिकृत्वा हन्यादित्येष दृष्टिविपर्यासः पञ्चमं क्रियास्थानमिति ५॥ ८२३ ॥८२४॥ अथ षष्ठं क्रियास्थानमाह-'अत्तट्टे'त्यादि, आत्मार्थ परेषां वानायकादीनामर्थाय यो मृषा वदति स एष मृषाप्रत्ययिको-मृषाकारणिको दण्डः षष्ठो भवति ६॥ ८२५ ॥ सप्तमं क्रियास्थानमाह-एमेवे'त्यादि, 'एवमेव' मृषावाददण्डवदात्मनायकार्थ-आत्मनः परेषां वा नायकादीनां निमित्तं 'नाइग'त्ति पाठे तु ज्ञात्यर्थ-खजनार्थ यो गृह्णात्यदत्तं-अन्येनावितीर्णमेषोऽदत्तवर्ती अदत्तदण्डक्रियावानित्यर्थः ७ ॥ ८२६ ॥ अयं पुनर्वक्ष्यमाणो भवति आध्यात्मिको दण्डः, अध्यात्म-मनस्तत्र भवो बाहनिमित्तानपेक्षः शोकोऽभिभव इति भावः, तमेवाह-'नवी'त्यादि, यस्य सम्मुखं न कोऽपि किश्चिदप्यनिष्टं जल्पति, तथापि हृदयेन-मनसा कृत्वा किश्चिदतिशयेन दुर्मना:-कालुष्यभाग्भवति तस्याध्यात्मिकी क्रिया 'सीसइति कथ्यते, तस्य चाध्यात्मिकक्रियास्थानस्य इमानि वक्ष्यमाणानि चत्वारि 'स्थानानि' कारणानि भवन्ति, तान्येवाह-कोहो' इत्यादि, क्रोधो मानो माया लोभश्चेत्येतानि चत्वारि कारणान्यध्यात्मक्रियायां भवन्तीति, बाह्यनिमित्तानपेक्षमाभ्यन्तरनिष्कारणक्रोधादिसमुद्भूतं दौर्मनस्यमाध्यात्मिकक्रियेति तात्पर्यार्थः ८॥ ८२७ ॥ नवमं क्रियास्थानमाह-'जो पुणे'त्यादि, यः पुनर्जातिमदादिना-जातिकुलरूपबलश्रुततपोलाभैश्वर्यमदलक्षणेनाष्टविधेन मानेन मत्तः सन् परं आत्मव्यतिरिक्त हीलयति-जात्यादिमिनिन्दति निकृष्टोऽयमित्यादिवचनैः परिभवत्यनेकामिः कदर्थनामिर्मानप्रत्यया एषा क्रियेति ९॥ ८२८-८२९ ॥ दशमं क्रियास्थानमाह-माई'त्यादि, यः पुनर्मातापितृस्वजनादीनामल्पेऽप्यपराधे तीनं दण्डं कुरुते दहनाङ्कनबन्धताडनादिकं तन्मित्रद्वेषवर्तिक्रियास्थानं, अमित्रक्रियेत्यर्थः, भवेदशमं क्रियास्थानमिति, तत्र दहनं-उल्मुकादिमिर्दम्भनं अङ्कनं-ललाटादिषु चिह्नकरणं बन्धो-रज्ज्वादिमिनियत्रणं ताडनं कशादिमिराहननं, आदिशब्दादनपान
159

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310