Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 156
________________ महावतारोपणकालादारभ्य अहोरात्रपञ्चकादिना क्रमेण श्रामण्यपर्यायच्छेदनं, तत्र तपोदुर्दमो यः षण्मासक्षपकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियते ? इति तपःकरणासमर्थो वा ग्लानासहबालवृद्धादिः तथाविधतपःश्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वेति ७। तथा प्राणातिपातप्रमुखे-प्राणिवधमृषावादादिकेऽपराधे सङ्कल्प्य कृते पुनव्रतारोपणं-भूयोऽपि व्रतस्थापनं विधातव्यं, अयमर्थः-आकुट्टथा पञ्चेन्द्रियजीववधे विहिते दर्पण मैथुने सेविते मृषावादादत्तादानपरिग्रहेषु च उत्कृष्टेषु प्रतिसेवितेषु आकुट्टया पुनः पुनः सेवितेषु वा मूलाभिधानमेतत्प्रायश्चित्रं भवतीति ८। तथा करादिमिः-मुष्टियष्टिप्रभृतिमिर्घातोमरणनिरपेक्षवया आत्मनः परस्य वा स्वपक्षगतस्य परपक्षगतस्य वा घोरपरिणामतः प्रहरणं तेन प्रदुष्टमना-अतिसलिष्टचित्ताध्यवसायो न व्रतेषु स्थाप्यते यावदुचितं तपो न कृतं स्यात् , उचितं च तपःकर्म उत्थाननिषदनाद्यशक्तिपर्यन्तं, स हि यदा उत्थानाद्यपि कर्तुमशक्तस्तदा अन्यान् प्रार्थयते-आर्या! उत्थातुमिच्छामीत्यादि, ते तु तेन सह सम्भाषणमकुर्वाणास्तत्कृत्यं कुर्वन्ति, एतावति तपसि कृते तस्योत्थापना क्रियत इति ९ । तथा पाराच्चिकं नाम दशमं प्रायश्चित्तमापद्यते स्खलिङ्गिनीनृपभार्यादिसेवामिः, आदिशब्दाल्लिङ्गिघातराजवधादिपरिग्रहः, एतच अव्यक्तलिङ्गधारिणां जिनकल्पिकप्रतिरूपाणां क्षेत्राहिःस्थितानां सुविपुलं तपः कुर्वतां महासत्त्वानां सूरीणांआचार्याणामेव जघन्यतः षण्मासान उत्कृष्टतो द्वादश वर्षाणि यावद्भवति, ततश्च-अतिचारपारगमनानन्तरं प्रव्राज्यते नान्यथेति १० ॥ ७५१॥७५२॥७५३||७५४॥७५५॥७५६ ॥ अथात्रैव विशेषमाह-'नवर'मित्यादिगाथात्रयं, नवरं-केवलं दशमप्रायश्चित्तापत्तावपि सत्यां नवममेव-अनवस्थाप्यलक्षणं प्रायश्चित्तमध्यापकानां-उपाध्यायानां भवति, अयमर्थ:-येषु येष्वपराधेषु पाराच्चिकमापद्यते तेषु तेष्वपि बहुशः समासेवितेषु उपाध्यायस्यानवस्थाप्यमेव प्रायश्चित्तं भवति, न तु पाराश्चिकं, उपाध्यायस्यानवस्थाप्यपर्यन्तस्यैव प्रायश्चित्तस्य प्रतिपादनात्, एवं सामान्यसाधूनामप्यनवस्थाप्यपाराश्चिकयोग्येष्वपराधेषु सत्सु मूलपर्यन्तमेव प्रायश्चित्तमवगन्तव्यं, तच्चानवस्थाप्यं जघन्यतः षण्मासान यावद्भवति उत्कृष्टतस्तु वर्षमिति, इदं च आशातनानवस्थाप्यमाश्रित्योक्तं, प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादश वर्षाणि, उक्तं च-"तत्थ आसायणाअणवटुप्पो जहन्नेणं छम्मासा उकोसेणं संवच्छर, पडिसेवणाअणवठ्ठप्पो जहन्नेणं बारस मासा उक्कोसेणं बारस संवच्छयणि"त्ति, तत्र तीर्थकरप्रवचनगणधराद्यधिक्षेपकारी आशातनानवस्थाप्यः, हस्तताडनसाधर्मिकान्यधार्मिकस्तैन्यकारी तु प्रतिसेवनानवस्थाप्यः । नन्वेतानि दशापि प्रायश्चित्तानि यावत्तीर्थ तावद्भवन्ति ? उत नेत्याह-दस ता' गाहा, यावश्चतुर्दशपूर्वी प्रथमसंहननी च तावदश प्रायश्चित्तानि अनुषजन्ति-अनुवर्तन्ते, एतौ च चतुर्दशपूर्विप्रथमसंहननिनौ युगपदेव व्यवच्छिन्नौ, तयोश्च व्युच्छिन्नयोरनवस्थाप्यं पाराश्चितं च व्यवच्छिन्नं, ततः परेण-अनवस्थाप्यपाराश्चितव्यवच्छेदादनन्तरमालोचनादि मूलान्तमष्टविधं प्रायश्चित्तं तावदनुवर्तमानं बोद्धव्यं यावद् दुष्प्रसभनामा सूरिः, तस्मिंश्च कालगते तीर्थ चारित्रं च व्यवच्छेदमुपयास्थतीति ९८ ॥ ०५८ ॥ इदानीं 'ओहम्मि पयविभागम्मि सामायारीदुर्गति नवनवतं शततमं द्वारमाह सामायारी ओहंमि ओहनिज्जुत्तिजंपियं सवं । सा पयविभागसामायारी जा छेयगंथुत्ता ॥ ७९ ॥ समाचरणं समाचार:-शिष्टजनाचरितः क्रियाकलापः समाचार एव सामाचार्य, भेषजादित्वात् स्वार्थे व्यम् (पा० ५-४-२३) स्त्रीविवक्षायां 'षिद्गौरादिभ्यश्चेति ( पा०४-१-४१) की , 'यस्थे' ( यस्येति च पा० ६-४-१४८) त्यकारलोपः, यस्य हल (पा० ६-४-४९) इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, सा त्रिधा भवति-ओघसामाचारी दशधासामाचारी पदविभागसामाचारी च, तत्र ओघः-सामान्य तद्विषया सामाचारी-सामान्यतः सङ्केपामिधानरूपा सा च ओषनियुक्तिजल्पितं सर्व ज्ञेयं, तत्र हि तिनामोघतः सर्वसमाचारः प्रत्युपेक्षणादिकः कथ्यते इति, तथा सा पदविभागसामाचारी या छेदप्रन्येषुजीतकल्पनिशीथादिषूक्तेति, इह च साम्प्रतकालप्रव्रजितानां तथाविधश्रुतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य ओघसामाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचारामिधानात् तत्रापि विंशतितमात्प्राभृतात् तत्राप्योधप्रामृतप्राभृतात् नियूंढा, पदविभागसामाचार्यपि नवमपूर्वादेव नियूंढेति ९९-१०० ॥ ७५९ ॥ इदानीमेकशततमं 'चकवालसामायारी'त्ति द्वारमाह इच्छा १ मिच्छा २ तहकारो ३, आवस्सिया य ४ निसीहिया ५। आपुच्छणा य ६ पडिपुच्छा ७, छंदणा य ८ निमंतणा ९॥७६० ॥ उवसंपया य १० काले, सामायारी भवे दसविहा उ । एएसिं तु पयाणं, पत्तेयपरूवणं वोच्छं ॥७६१ ॥ जइ अन्भत्थिल परं कारणजाए करेज से कोई। तत्थ य इच्छाकारो न कप्पइ बलाभिओगो उ १॥७६२॥ संजमजोए अन्भुहियस्स जं किंपि वितहमायरियं । मिच्छा एयंति वियाणिऊण मिच्छत्ति कायचं २ ॥७६३ ॥ कप्पाकप्पे परिनिट्टियस्स ठाणेसु पंचसु ठियस्स । संयमतवड्गस्स उ अविकप्पेणं तहकारो ३ ॥७६४॥ आवस्सिया विहेया अवस्सगंतबकारणे मुणिणो ४। तम्मि निसीहिया जत्थ सेजठाणाइ आयरइ ५॥ ७६५ ॥ आपुच्छणा उ कजे ६ पुष्धनिसिद्धेण होइ पडिपुच्छा ७ । पुछगहिएण छंदण ८ निमंतणा होअगहिएणं ९॥७६६ ॥ उवसंपया य तिविहा नाणे तह दसणे चरित्ते य १०। एसा हु दसपयारा सामायारी तहऽन्ना य ॥ ७६७ ॥ 147

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310