Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 154
________________ द्वितीयायां गत्वाप्रत्यागतिका गोमूत्रिका ३ पतङ्गवीथिः४ पेटा ५ अर्धपेटा ६ 'अभितरबाहिसंबुक'त्ति शम्बूकशब्दस्य प्रत्येकममिसम्बन्धादभ्यन्तरशम्बूका ७ बहिः शम्बूका ८ च ॥ ७४५॥ तत्रैताः क्रमेण व्याचष्टे-'ठाणे'त्यादि, प्रथमायां वीध्या कश्चिद्यतिः स्वस्थानात्-निजवसतेः ऋजुगत्या-प्राजलपथेन समश्रेणिव्यवस्थितगृहपको मिक्षा भ्रमन् याति यावत्पङ्केश्वरमं गृहं ततोऽनटन्-मिक्षामगृहन् ऋजुगत्या तथैव वलति-निवर्तते, त्वाप्रत्यागतिकायां भ्रमन्-मिक्षां गृहन् समस्थितगृहपको प्रविश्य द्वितीयपको मिक्षमाण एव निःसरति-प्रत्यागच्छति, कोऽर्थः ?-उपाश्रयान्निर्गतः सन्नेकस्यां गृहपको मिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपको यस्यां मिक्षते सा गत्वाप्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यामिति च विग्रहः, अन्ये तु ऋज्वीविपर्ययेण गत्वाप्रत्यागतिक व्याख्यानयन्तीति, तथा वामाद्-वामगृहादक्षिणगृहे दक्षिणगृहाच वामगृहे यस्यां मिक्षते सा गोमूत्रिका, गोः-बलीवर्दस्तस्य मूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्परामिमुखगृहपतयोरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यां पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, तथा अर्दविता-अनियता मिक्षा 'पतङ्गवीथिः' पतङ्ग:-शलभस्तस्य वीथिका-मार्गस्तद्वया सा तथा, पतङ्गगतिहिं अनियतकमा भवति एवं या अनाश्रितक्रमा सा पतङ्गवी-- थिकेति, तथा पेटा-वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरस्रा भवति, ततश्च साधुरमिग्रहविशेषाद्यस्यां चर्यायां प्रामादिक्षेत्रं पेटावचतुरनं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्ष समश्रेण्या मिक्षा भ्रमति सा पेटेति भण्यते, तथा दिग्द्वयसम्बद्धयोहश्रेण्योभिक्षणेऽर्धपेटेति, पेटार्धसमानसंस्थानगृहश्रेणिमिक्षणेऽर्धपेटेति भावः, तथा शम्बूक:-शस्तद्वत् शङ्खभ्रमिवदित्यर्थः या वीथि: सा शम्बूका, इयं च द्वेधा-अभ्यन्तरशम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्कवृत्तत्वगत्या मिक्षा भ्रमन् बाहविनिःसरति-क्षेत्रबहिभोगमागच्छति सा अभ्यन्तरशम्बूका, तथा बहिःशम्बका भण्यते एतस्या-अभ्यन्तरशम्बूकाया विपरीतामक्ष्याविपरीतमिक्षणेन, यस्यां बहिर्भागात्तयैव मिक्षामटन् मध्यभागमायाति सा बहिःशम्बूकेति भावः, उक्तं च-'अभितरसंबुका बाहिरसं य, तत्थ अम्भितरसंबुछाए संखनामिखेत्तोवमाए आगिइए अंतो आढवह बाहिरओ संनिया, इयरीए विवजओ"त्ति अन्ये तु अभ्यन्तरशम्बूकाबहिःशम्बूकयोः परस्परं लक्षणविपर्ययमाहुः, पञ्चाशकवृत्तौ तु "शम्बूकावृत्ता-शङ्कवद्वृत्ततागमनं, सा च द्विविधा-अदक्षिणतोऽप्रदक्षिणतश्चे"त्युक्तं, इह च गत्वाप्रत्यागतिकायां ऋज्याः प्रक्षेपात् शम्बूकाया एकत्वविवक्षणाच षडेव वीथयो ग्रन्थान्तरे प्रतिपादिता इति ९७ ॥ ७४९ ॥ [इति प्रथमखण्डमेकगाथासहितं ९ सहस्ररूपं ] इदानीं 'दस पायच्छित्ताईति अष्टनवतं द्वारमाह आलोयण १पडिकमणे २ मीस ३ विवेगेतहा विउस्सग्गे। तव ६च्छेय ७मल ८ अणव ट्ठिया य ९पारंचिए चेव १० ॥७५०॥ आलोइबइ गुरुणो पुरओ कजेण हत्थसयगमणे १। समिइपमुहाण मिच्छाकरणे कीरइ पडिकमणं २ ॥७५१॥ सहाइएस रागाइविरयणं साहिलं गुरूण पुरो। दिज्जा मिच्छादुकडमेयं मीसं तु पच्छित्तं ३ ॥७५२ ॥ कजो अणेसणिज्जे गहिए असणाइए परिचाओ ४। कीरइ काउस्सग्गो दिढे दुस्सविणपमुहंमि ५ ॥७५३ ॥ निधिगयाई दिज्जइ पुढवाइविघट्टणे तवविसेसो ६ । तवदुहमस्स मुणिणो किलइ पज्जायवुच्छेओ ७॥७५४ ॥ पाणाइवायपमुहे पुणवयारोवणं विहेयई ८ ठाविजइ नवि एसुं कराइघायप्पदुट्ठमणो ९॥७५५ ॥ पारंचियमावजह सलिंगनिवभारियाइसेवाहिं । अवत्सलिंगधरणे बारसवरिसाइं सूरीणं १० ॥७५६ ॥ नवरं दसमावत्तीऍ नवममझावयाण पच्छित्तं। छम्मासे जाव तयं जहन्नमुकोसओ वरिसं ॥७५७ ॥ दस ता अणुसज्जती जा चउद्दसपुवि पढमसंघयणी। तेण परं मूलंतं दुप्पसहो जाव चारित्ती॥७५८ ॥ 'आलोये'त्यादिगाथानवकं, आज-मर्यादायां सा च मर्यादा इयं-'जह बालो जंपंतो कजमकजं च उज्जु भणइ। तं तह आलोएज्जा मायामयविप्पमुक्कोय॥॥ यथा बालो जल्पन कार्यमकार्य च ऋजुकं भणति । तथा तदालोचयेत् मायामदविप्रमुक्तश्च ॥१॥] अनया मर्यादया 'लोच दर्शने' चुरादित्वात् णिच् लोचनं लोचना-प्रकटीकरणं आलोचना, गुरोः पुरतो वचसा प्रकाशनमिति भावः, यत्प्रायश्चित्तमालोचनामात्रेण शुद्ध्यति तदालोचनाईतया कारणे कार्योपचारादालोचना १, तथा प्रतिक्रमणं-दोषात्प्रतिनिवर्तनं अपुनःकरणतया मिथ्यादुष्कतप्रदानमित्यर्थः तदह प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति ?-यत् प्रायश्चित्तं मिध्यादुष्कृतमात्रेणैव शुद्धिमासादयति न च गुरुसमक्षमालोच्यते, यथा सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपादुपजातं प्रायश्चित्तं, तथाहि-सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति न च हिंसादिकं दोषमापनस्तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिध्यादुष्कृतप्रदानमात्रेण स शुद्ध्यति तत्प्रतिक्रमणाईत्वात्प्रतिक्रमणं २, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति पश्चाच्च मिध्यादुष्कृतमिति ब्रूते तदा शुक्ष्यति तदालोचनाप्रतिक्रमणलक्षणोभयाहत्वान्मिनं ३, तथा विवेकः-परित्यागः, यत्प्रायश्चित्तं विवेक एव कृते शुद्धिमासादयति नान्यथा, यथा आधाकर्मणि गृहीते, तद्विवेकाईत्वाद्विवेकः ४, तथा व्युत्सर्ग:-कायचेष्टानिरोधः, यद् व्युत्सर्गेण-कायचेष्टानिरोधोपयोगमात्रेण शुद्ध्यति प्रायश्चित्तं यथा दुःस्वप्नजनितं तत् व्युत्सर्गार्हत्वाद् व्युत्सर्गः ५, 'तवे'त्ति यस्मिन् प्रतिसेविते निर्विकृतिकादिषण्मासान्तं तपो दीयते तत्तपोऽहत्वात्तपः ६, यस्मिन् पुनरापतिते प्रायश्चित्ते सन्दूषितपूर्वपर्यायदेशावच्छेदः शेषपर्यायरक्षानिमित्तं दुष्टव्याधिसंदूषितशरीरैकदेशच्छे 145

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310