Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
'इच्छे'त्यादिगाथाष्टकं, एषणमिच्छा करणं-कारः, कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणं इच्छाकारः, तथा च इच्छाकारेण ममेदं कुर्विति, किमुक्तं भवति ?-इच्छाक्रियया न बलामियोगपूर्विकया ममेदं कुर्विति, तथा मिथ्या वितथमनृतमिति पर्यायाः, मिध्याकरणं मिथ्याकारो मिथ्याक्रियेत्यर्थः, तथा संयमयोगवितथाचरणे विदितजिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं विदधते मिथ्याक्रियेयमिति, तथाकरणं तथाकारः, स च सूत्रप्रनादिगोचरो यथा भवद्विरुक्तं तथैवेदमित्येवंवरूपः, तथा अवश्यं अवश्यशब्दोऽकारान्तोऽप्यस्ति ततोऽवश्यस्य-अवश्यं कर्तव्यस्य क्रिया आवश्यिकी, चः समुच्चये, तथा निषेधेन-असंवृतगात्रचेष्टानिवारणेन निर्वृत्ता तत्प्रयोजना वा या शय्यादिप्रवेशनक्रिया सा नैषेधिकी, तथा आपृच्छनमापृच्छा, सा विहारभूमिगमनादिषु प्रयोजनेषु गुरोः करणीया, चः पूर्ववत् , तथा प्रतिपृच्छा-प्रतिप्रश्नः, सा च प्रागनियुक्तेनापि करणकाले कार्या निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छंदना-पूर्वगृहीतेनाशनादिना आमश्रणा विधेया, तथा निमत्रणा अगृहीतेनैवाशनादिना अहं भवदर्थमशनाद्यान यामीत्येवंरूपा, तथोपसम्पञ्च विधिना देया, इयं काले-कालविषये सामाचारी भवेद् दशविधा, एवं तावत्समासत उक्ता, सम्प्रति प्रपञ्चतः प्रतिपदमभिधित्सुरिदमाह-एतेषां पदानां तुर्विशेषणे विषयप्रदर्शनेन प्रत्येकं पृथक्पृथक्प्ररूपणां वक्ष्ये-कथयिष्यामि ।। ७६० ॥ ७६१ ॥ तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनार्थमाह-'जई'त्यादि, यदीयभ्युपगमे अन्यथा साधूनामकारणे अभ्यर्थनैव न कल्पते, ततश्च यदि अभ्यर्थयेत्परं-अन्यं साधुं ग्लानादौ कारणजाते समुत्पन्ने सति, ततस्तेनाभ्यर्थयमानेन इच्छाकारः प्रयोक्तव्यः, यदिवा अनभ्यर्थितोऽपि कोऽप्यन्यः साधुः 'से'त्ति तस्य कर्तुकामस्य कस्यचित्साधोः कारणजाते कुर्यात्, तत्रापि तेनानभ्यर्थितेन साधुना तस्य चिकीर्षितं कर्तुकामेन इच्छाकारः प्रयोक्तव्यः, इह विरलाः केचिदनभ्यर्थिता एव परकार्यकार इति कोऽपीतिग्रहूणं, अथ कस्मादिच्छाकारप्रयोगः क्रियते ?, उच्यते, बलाभियोगो मा भूदिति हेतोः, तथा चाह-यतो न कल्पते बलामियोगः साधूनां, तत इच्छाकारप्रयोगः कर्तव्यः, तुशब्दः क्वचिद्लाभियोगोऽपि कल्पते इति सूचनार्थः ॥ ७६२ ॥ सम्प्रति मिथ्याकारविषयप्रतिपादनार्थमाह-'संजमजोए' गाहा, संयमयोगः-समितिगुप्तिरूपः तस्मिन् विषयेऽभ्युत्थितस्य सतो यत्किञ्चिद्वितथं-अन्यथाऽऽचरितं-आसेवितं भूतमिति शेषः, मिथ्या विपरीतमेतदिति विज्ञाय, किं ?-मिथ्येति कर्तव्यं-तद्विषये मिथ्यादुष्कृतं दातव्यमित्यर्थः, संयमयोगविषयायां च प्रवृत्ती वितथासेवने मिथ्यादुष्कृतं दोषापनयनाय समर्थ न तूपेत्यकरणविषयायां नाप्यसकृत्करणगोचरायामिति ॥ ७६३ ॥ इदानीं तथाकारो यस्य दीयते तत्प्रतिपिपादयिषुराह-कप्पाकप्पे' गाहा, कल्पो विधिराचार इति पर्यायाः कल्पविपरीतस्त्वकल्पो जिनस्थविरकल्पादिर्वा कल्पः चरकसुगतादिदीक्षा पुनरकल्प इति, कल्पश्चाकल्पश्च कल्पाकल्पमित्येकवद्भावः तस्मिन् परि-समन्तान्निष्ठितः परिनिष्ठितो ज्ञाननिष्ठां प्राप्तस्तस्य, अनेन च ज्ञानसम्पदुक्ता, तथा तिष्ठंति मुमुक्षवो येषु तानि स्थानानि-महाब्रतानि तेषु पञ्चसु-पञ्चसयेषु स्थितस्य-आश्रितस्य, अनेन च मूलगुणसम्पत्तिरुक्ता, तथा संयमः-प्रत्युपेक्षोत्प्रेक्षादिः तपश्च-अनशनादि ताभ्यामाव्यस्य-सम्पन्नस्येत्यनेनोत्तरगुणयुक्ततामाह, तस्य, किमित्याह-'अविकल्पेन' निर्विकल्पं तदीयवचने वितथत्वाशङ्कामकुर्वाणेनेत्यर्थः तथाकारः, कार्य इत्यध्याहारः, कोऽभिप्रायः ?-एवंविधस्य गुरोर्वाचनादानादौ पृच्छनानन्तरमुत्तरदाने तथा सामाचारीशिक्षणादौ च यथा यूयं वदथ तथैवैतदित्यर्थसंसूचकस्तथाशब्दः प्रयोक्तव्यः ॥७६४॥ इदानीमावश्यिकीनषेधिकीद्वारद्वयमाह-'आवे'त्यादि, आवश्यकी विधेया वसतेर्निर्गच्छता साधुना अवश्यं गन्तव्ये ज्ञानादित्रयहेतुभूते मिक्षाटनादौ कारणे सति, अनेन निष्कारणगमननिषेध उक्तः,तथा बहिर्देशानिवृत्तेन तस्मिन् स्थाने नैषेधिकी विधेया यत्र शय्यास्थानाद्याचरति, तत्र शय्या-वसतिस्तस्यां स्थानं-अवस्थानं तच प्रस्तावात्प्रवेशलक्षणं आदिशब्दाच्चैत्यप्रवेशादिपरिग्रहः, बहिर्देशाद्वसत्यादौ प्रविशन् नैषेधिकी विध्यादिति भावः ॥७६५॥ साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथया प्राह- 'आपुच्छे'त्यादि, आपृच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्तमानेन गुरोः कार्या-भगवन् ! अहं इदं करोमीति द्वारं । तथा पूर्वनिषिद्धेन सता यथा त्वयेदं न कर्तव्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन 'होइ पडिपुच्छत्ति भवति प्रतिपृच्छा, पूज्यै रिदं निषिद्धमासीत् इदानीं तेन कार्येण प्रयोजनं यदि पूज्या आदिशन्ति तदा करोमीत्येवंरूपा, पाठान्तरं वा 'पुव्वनिउत्तेण होइ पडिपुच्छत्ति पूर्व नियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा भवति कर्तव्या अहं तत्करोमीति, तत्र हि गुरुः कदाचित्कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति द्वारं । तथा पूर्वगृहीतेनाशनादिना छंदना शेषसाधुभ्यः कर्तव्या, यथा मयेदमशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति द्वारं । तथा निमत्रणा भवत्यगृहीवेनाशनादिना, यथाऽहं भवतां योग्यमशनाद्यानयामीति द्वारं ।। ७६६ ॥ इदानीमुपसम्पद्वारमाह-'उवेत्यादि, उपसम्पदनमुपसम्पत्-कस्माच्चिदप्यपरगुरुकुलादपरस्य विशिष्टश्रुतादियुक्तस्य गुरोः समीपागमनमिति, सा च त्रिधा-ज्ञाने-ज्ञानविषया एवं दर्शनविषया चारित्रविषया च, तत्र ज्ञानदर्शनयोः सम्बन्धिनी त्रिधा भवति-वर्तना सन्धना ग्रहणं च, एतदर्थ हि उपसम्पद्यते इति, तत्र वर्तना-पूर्वगृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना च-तस्यैव सूत्रादेः प्रदेशान्तरे विस्मृतस्य मीलना घट्टना योजनेत्यर्थः ग्रहणं पुनस्तस्यैव तत्प्रथमतया आदानं, एतत् त्रितयमपि सूत्रार्थतदुभयविषयमवगन्तव्यं, एवं ज्ञाने नव भेदाः, तथा दर्शनेऽपि दर्शनप्रभावकसंमत्यादिशास्त्रविषये एत एव भेदा विज्ञेया इति, तथा चारित्रविषया द्विधा सम्पत्-वैयावृत्त्यविषया क्षपणविषया च, अयमाशयः-चारित्रार्थमन्यगच्छसत्काचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालतः कश्चिदित्वरकालं कश्चिञ्च यावज्जीवमिति, अत्राह परः-ननु किमत्रोपसम्पदा कार्य ?,
148

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310