Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan

View full book text
Previous | Next

Page 151
________________ णानामुत्तरगुणानां चान्यतमस्य विराधना, तत्त्वार्थभाष्ये तु " प्रतिसेवना पञ्चानां मूलगुणानां रात्रिभोजनविरतिषष्ठानां परामियोगाद् बलात्कारेणान्यतमं प्रतिसेवमानः पुलाको भवति, मैथुनमेवेत्येके, प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काश्चिद्विराधनां प्रतिसेवते” इत्युक्तं, तथा उत्तरगुणेषु प्रतिसेवको बकुशः, उत्तरगुणानामेव विराधको न मूलगुणानामित्यर्थः, शेषास्तु कषायकुशीलनिर्प्रन्थस्नातकाः प्रतिसेवनारहिताः, मूलगुणानामुत्तरगुणानां च अविराधका एवेति भावः, अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तज्जघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्येयतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं, चारित्रपर्याया अपि चामीषां पञ्चानामपि प्रत्येकमनन्ताः, यत उक्तम् – “पुलागस्स णं भंते! केवइया चरित्तपज्जवा पन्नत्ता ?, गोयमा ! अणंता चरित्तपज्जवा पन्नत्ता, एवं जाव सिणायस्स” त्ति ।। ७२९ ।। अथैते पुलाकादयः पञ्चापि कियन्तं कालं यावत्प्राप्यन्ते ?, तत्राह—निर्प्रन्थस्नातकानां पुलाकसहितानां त्रयाणामपि निर्ग्रन्थभेदानां व्यवच्छेदः - अभावो 'मणपरमोहिपुलाए' इत्यादिवचनात् जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः, बकुशकुशीललक्षणाः पुनः श्रमणाः - साधवो यावत्तीर्थं तावद्भविष्यन्ति, 'बकुसकुसीलेहिं वट्टए तित्थं' इति वचनात् ९३ ।। ७३० ॥ इदानीं 'समण'त्ति चतुर्नवतं द्वारमाह निग्गंथ १ सक्क २ तावस ३ गेरुय ४ आजीव ५ पंचहा समणा । तम्मि निग्गंधा ते जे जिणसासणभवा मुणिणो ॥ ७३१ ॥ सक्का य सुगयसीसा जे जडिला ते उ तावसा गीया । जे भाउ तवत्था तिदंडिणो गेरुया ते उ ॥ ७३२ ॥ जे गोसालगमयमणुसरंति भन्नंति ते उ आजीवा । समणत्तणेण भुवणे पंचवि पत्ता सिद्धिमिमे ॥ ७३३ ॥ निर्मन्थाः शाक्यास्तापसा गैरुका आजीवाश्च पञ्चधा - पञ्चभेदाः श्रमणा भवन्ति, 'तंमि'त्ति प्राकृतत्वादेकवचनं, ततस्तेषु - श्रिमणेषु मध्ये निर्मन्थास्ते भण्यन्ते ये जिनशासनभवाः - प्रतिपन्नपारमेश्वरप्रवचनाः मुनयः - साधवः, तथा शाक्याः सुगतशिष्या - बौद्धा इत्यर्थः, ये च जटिला - जटाधारिणो वनवासिपाखण्डिनस्ते तापसा गीताः - कथिताः, ये धातुरक्तवस्त्रात्रिदण्डिनस्ते तु गैरुकाः परित्राजका इत्यर्थः, तथा ये गोशालक मतमनुसरन्ति भण्यन्ते ते तु आजीवका इति, एते पश्वापि श्रमणत्वेन भुवने प्रसिद्धिं प्राप्ता इति ९४ || ॥ ७३१ ॥ ७३२ ॥ ७३३ ।। इदानीं 'गासेसण 'त्ति पश्ञ्चनवतं द्वारमाह संजोयणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव । उवगरणभत्तपाणे सबाहिरऽन्तरा पढमा ॥ ७३४ ॥ कुक्कुडिअंडयमेत्ता कवला बत्तीस भोयणपमाणे । राएणाऽऽसायंतो संगारं करह सचरितं ॥ ७३५ ॥ भुंजंतो अमणुन्नं दोसेण सधूमगं कुणइ चरणं । वेयणआयंकप्पमुहकारणा छच्च पत्तेयं ॥ ७३६ ॥ वेयण १ वेयावच्चे २ इयरिट्ठाए य ३ संजमट्ठाए ४ । तह पाणवत्तियाए ५ छट्टं पुण धम्मचिंताए ६ ॥ ७३७ || आर्यके १ उवसग्गे २ तितिक्खया बंभचेरगुत्तीसु ३ । पाणिदया ४ तवहेऊ ५ सरीरवोच्छेयणट्ठाए ६ ॥ ७३८ ॥ ' संजोयणे 'ति गाथापूर्वार्ध, संयोजना प्रमाणं अङ्गारो धूमः कारणं चेति पञ्च प्रासैषणादोषाः, प्रासो-भोजनं तद्विषया एषणाशुद्धाशुद्धपर्यालोचनं प्रासैषणा तस्या दोषा प्रासैषणादोषाः, तत्र प्रथमं संयोजनामाह - ' उवगरणेत्यादि उत्तरार्ध 'पढम'त्ति दोषपभ्वकापेक्षया प्रथमा-आद्या संयोजनेत्यर्थः, संयोजनं संयोजना - उत्कर्षतोत्पादनार्थ द्रव्यस्य द्रव्यान्तरेण मीलनं, सा द्विधा भवति - उपकरणविषया भक्तपानविषया च, पुनरेकैका द्विधा - सबाह्याभ्यन्तरा - बाह्याभ्यन्तरभेदयुक्ता, बाह्या अभ्यन्तरा चेत्यर्थः, तत्र उपकरणवि पया बाह्या संयोजना यथा कश्चित्साधुः कुत्रापि गृहे भव्यं चोलपट्टादिकं प्राप्य पुनरन्यत्र विभूषार्थं तदुचितं पटीप्रभृतिकं मार्गयित्वा वसतेर्बहिरेव प्रावृणोतीति, अभ्यन्तरा वसतौ निर्मलं चोलपट्टादिकं परिधाय विभूषानिमित्तं तदनुरूपां निर्मलामेव नर्मादिपटीं परिदधातीति, तथा भिक्षार्थं हिण्डमानः सन् क्षीरादिकमनुकूलद्रव्यैः खण्डादिभिः सह रसगृद्ध्या रसविशेषोत्पादनाय बहिरेव संयोजयतीत्येषा बाह्या भक्तपानविषया संयोजना, अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयतीति, सा च त्रिधा - पात्रकविषया कवलविषया मुखविषया च, तत्र भोजनसमये यत्पायसादि येन खण्डादिना रोचते तद्रसगृद्ध्या तेनैव सहैकस्मिन्नेव पात्रे संयोज्य स्थापयतीति प्रथमा, यदा तु हस्तगतमेव कवलतया उत्पाटितं सुकुमारिकादिकं खण्डादिना सह संयोजयति तदा द्वितीया, यदा पुनर्मण्डकादिकं मुखे प्रक्षिप्य पश्चाद्गुडादिकं प्रक्षिपति तदा तृतीयेति, अपवादश्चात्र - एकैकं साधुसङ्घाटकं प्रति प्रचुरघृतादिप्राप्तौ सत्यां भोजनानन्तरं यदि कथमपि कियदयुद्धरितं भवति तदा तदुद्धरितघृतादि निर्गमनार्थं खण्डादिभिरपि तस्य संयोजनं न दोषाय, उद्धरितं हि घृतादि न खण्डादिकमन्तरेण मण्डकादिभिरपि सह भोक्तुं शक्यते प्रायस्तृप्तत्वात् न च परिष्ठापनं युक्तं घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि पिपीलिकादिप्राणिप्रणाशसम्भवात्, तथा ग्लानभव्यीकरणार्थ यद्वा भक्तारोचकिनः प्रधानाहारलालितस्य सुखोचितस्य राजपुत्रादेर्वा साधूचितेन संयोगरहिताहारेणाद्यापि सम्यगभावितस्य शैक्षकस्य वा निमित्तं रसगृद्ध्यापि संयोजना कल्पत एवेति ॥ ७३४ ॥ इदानीं प्रमाणमाह'कुक्कुड' इत्यादि गाथापूर्वार्ध, कुर्कुट्यण्डकमात्राः कवला द्वात्रिंशद्भोजनप्रमाणे इति, तत्र कुर्कुटी द्विधा - द्रव्यकुर्कुटी भावकुर्कुटी च, तत्र साधोः शरीरमेव कुर्कुटी तन्मुखमण्डकं, तत्राक्षिकपोलौष्ठभ्रुवां विकृतिमनापाद्य यः कवलो मुखे प्रविशति एतत्प्रमाणं कवलस्य, अथवा 142

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310