Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
अभिप्रहद्वारे अभिग्रहाश्चतुर्विधा:-द्रव्याभिग्रहाः क्षेत्रामिग्रहाः कालामिप्रहा भावाभिग्रहाच, तत्र परिहारविशुद्धिकस्यैतेऽमिग्रहा न भवन्ति, यस्मादेतस्य कल्प एव यथोक्तस्वरूपोऽभिग्रहो वर्तते, उक्तं च-"दवाईय अभिग्गह विचित्तरूवा न हुंति पुण केई । एयस्स जाव कप्पो कप्पोच्चियऽभिग्गहो जेणं ॥१॥ एयम्मि गोयराई नियमा नियमेण निरववादा य । तप्पालणं चिय परं एयस्स विसुद्धिठाणं तु ॥२॥" [द्रव्यादिका अमिग्रहा विचित्ररूपा न भवन्ति पुनः केचित् । एतस्य यावत् कल्पः कल्प एव येनामिग्रहः ॥१॥ एतस्मिन् गोचरादिनियमा नियमेन निरपवादाश्च तत्पालनमेव परमेतस्य विशुद्धिस्थानं ॥२॥] ११ । प्रव्रज्याद्वारे नासावन्यं प्रव्राजयति कल्पस्थितिरियमितिकृत्वा, आह च-पवावेइ न एसो अन्नं कप्पटिइत्ति काऊणं। [प्रव्राजयति नैषोऽन्यं कल्प इतिकृत्वा] इति, उपदेशं पुनयथाशक्ति प्रयच्छति १२ । निष्प्रतिकर्मताद्वारे एष महात्मा निष्प्रतिकर्मशरीरोऽक्षिमलादिकमपि न कदाचिदपनयति, न च प्राणान्तिकेऽपि समापतिते व्यसने अपवादपदमासेवते, उक्तं च-"निप्पडिकम्मसरीरो अच्छिमलाईवि नावणेइ सया । पाणंतिएवि य तहा वसणंमि न वट्टए बीए ॥१॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एसत्ति । अहवा सुहभावाओ बहुगंडपेयं चिय इमस्स ॥ २॥" [निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च तथा व्यसने न वर्त्तते द्वितीये ( अपवादे लोचनविषयातीतस्तु भवत्येष इति । अथवा शुभभावात् बहुकमप्येतदेवास्य ॥ २ ॥] १३ । भिक्षाद्वारे पथिद्वारे च मिक्षा विहारक्रमश्चास्य तृतीयस्यां पौरुष्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चास्य स्वल्पा द्रष्टव्या, यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाप्येषोऽविहरन्नपि महाभागो नापवादपदमासेवते, किन्तु तत्रैव यथाकल्पमात्मीयं योगं विदधाति, उक्तं च-"तइयाइ पोरसीए भिक्खाकालो विहारकालो य । सेसासु य उस्सग्गो पायं अप्पा य निहत्ति ॥१॥ जवाबलंमि खीणे अविहरमाणोऽवि न वरमावज्जे । तत्थेव अहाकप्पं कुणइ उ जोगं महाभागो ॥२॥" [तृतीयस्यां पौरुष्यां भिक्षाकालो विहारकालश्च शेषासु चोत्सर्गः प्रायोऽल्पा च निद्रेति ॥ १॥ जवाबले क्षीणे अविहरन्नपि न परं (अपवादं) आपद्यते । तत्रैव यथाकल्पं करोति योगं तु महाभागः ॥२॥] १४, १५ ।। ६९ ॥ इदानीं 'अहालंद'त्ति सप्ततितमं द्वारमाह
लंदं तु होइ कालो सो पुण उक्कोस मज्झिम जहन्नो । उदउल्लकरो जाविह सुक्का सो होइ उ जहन्नो ॥ ६११ ॥ उक्कोस पुव्वकोडी मज्झे पुण होति गठाणाई । एत्थ पुण पंचरतं उकोसं होई अहलंदं ॥ ६१२ ॥ जम्हा उ पंचरत्तं चरंति तम्हाउ हुंतिऽहालंदी। पंचेव होइ गच्छो तेसिं उकोसपरिमाणं ॥ ६१३ ॥ जा चेव य जिणकप्पे मेरा सा चेव लंदियाणंपि । नाणत्तं पुण सुत्ते भिक्खायरिमासकप्पे य ॥ ६१४ ॥ अहलंदिआण गच्छे अप्पडिबद्धाण जह जिणाणं तु । नवरं कालविसेसो उउवासे पणग चउमासो ॥ ६१५ ॥ गच्छे पडिबद्धाणं अहलंदीणं तु अह पुण वि. सेसो । उग्गह जो तेसिं तु सो आयरियाण आभवइ ॥ ६१६ ॥ एगवसही पणगं छठवीहीओ य गामि कुव्वंति । दिवसे दिवसे अन्नं अडंति वीहीसु नियमेणं ॥ ६१७ ॥ पडिबद्धा इयरेवि य एकेका ते जिणा य थेरा य । अत्थस्स उ देसम्मि य असमत्ते तेसि पडिबंधो॥ ६१८॥ लग्गाइसु तूरते तो पडिवजितु खित्तवाहिठिया । गिण्हंति जं अगहियं तत्थ य गंतूण आयरिओ
। तर्सि तयं पयच्छा खेतं इंताण तेसिमे दोसा। वंदंतमवंदते लोगंमि यहोहपरिवाओं ॥ ६२० ॥ न तरेन जई गंतुं आयरिओ ताहे एइ सो चेव । अंतरपल्लिं. पडिवसभ गामवहि अण्णवसहिं वा ॥ ६२१ । तीए य अपरिभोगे ते वंदंते न वंदई सो उ । तं घेतु अपडिबद्धा ताहि
जहिच्छाइ विहरंति ॥ ६२२॥ 'लंद' मित्यादिगाथाद्वादशकं, लन्दं तु भवति कालः, समयपरिभाषया लन्दशब्देन कालो भण्यत इत्यर्थः, स पुनः कालत्रेधा-उत्कृष्टो मध्यमो जघन्यश्च, तत्र उदकाकरो यावता कालेन 'इह' सामान्येन लोके शुष्यति तावान् कालविशेषो भवति जघन्यः, अस्य चेह जघ. न्यत्वं प्रत्याख्याननियमविशेषादिषु विशेषत उपयोगित्वात् , अन्यथा अतिसूक्ष्मतरस्यापि समयादिलक्षणस्य सिद्धान्तोक्तस्य कालस्य सम्भवात ॥६११॥ उत्कृष्टः पूर्वकोटीप्रमाणः, अयमपि चारित्रकालमानमाश्रित्य उत्कृष्टः उक्तः, अन्यथा पल्योपमादिरूपस्यापि कालस्य सम्भवात् , मध्ये पुनर्भवन्त्यनेकानि स्थानानि वर्षादिभेदेन कालस्य, अत्र पुनर्यथालन्दकल्पप्रक्रमे पञ्चरात्रं 'यथे'त्यागमानतिक्रमेण लन्दं-काल उत्कृष्टं भवति, तेनैवात्रोपयोगात् ॥ ६१२ ॥ यस्मात्पञ्चरात्रं चरन्ति पेटार्धपेटाद्यन्यतमायां वीभ्यां भैक्षनिमित्तं पश्चरात्रिन्दिवान्यटन्ति तस्माद्धवन्ति यथालन्दिनः, विवक्षितयथालन्दभावात् , तथा पञ्चैव पुरुषा भवन्ति गच्छो-गणस्तेषां-यथालन्दिकानां, पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते इत्युत्कृष्टमेकेकस्य गणस्य पुरुषपरिमाणमेतदिति ॥६१३।। अत्र बहुवक्तव्यत्वानिरवशेषामिधाने प्रन्थगौरवप्रसक्या यथालन्दिककल्पस्यातिदेशमाह-यैव च जिनकल्पे-जिनकल्पविषया मेरा-मर्यादा पञ्चविधतुलनादिरूपा सैव च यथालन्दिकानामपि प्रायशः, नानात्वं -भेदः पुनर्जिनकल्पिकेभ्यो यथालन्दिकानां 'सत्रे' सूत्रविषयं तथा भिक्षाचर्यायां मासकल्पे च, चकारात्प्रमाणविषयं चेति ॥ ६१४ ॥ अथातिदेशपूर्वकमल्पवक्तव्यत्वात्प्रथमं मासकल्पनानात्वमेवाह-यथालन्दिका द्विविधाः-च्छे प्रतिबद्धा अप्रतिबद्धाश्च, गच्छे च प्रतिब
115

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310