Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
,
1
ताः कथ्यन्ते, ईरणं इर्या-गमनं तत्र समितः - उपयुक्तः, असमितो हि प्राणिनो हिंस्यादिति प्रथमा भावना १ तथा सदा-सर्वकाल 'यतः' सम्यगुपयुक्तः सन् 'उवेह' त्ति अवलोक्य भुञ्जीत वाशब्दाद् गृहीत वा पानभोजनं, अयमर्थः- प्रतिगृहं पात्रमध्यपतितः पिण्डचक्षुराद्युपयुक्तेन तत्समुत्थागन्तुकसत्त्वरक्षणार्थं प्रत्यवेक्षणीयः आगत्य च वसतौ पुनः प्रकाशवति प्रदेशे स्थित्वा सुप्रत्यवेक्षितं पानभोजनं विधाय प्रकाशप्रदेशावस्थितेन भोक्तव्यं, अनवलोक्य भुञ्जानस्य हि प्राणिहिंसा सम्भवतीति द्वितीया, २ तथा 'आदाननिक्षेपौ' पात्रादेर्प्रहणमोक्षावागमप्रतिषिद्धौ 'जुगुप्सति' न करोतीति आदाननिक्षेपजुगुप्सकः, आगमानुसारेण प्रत्यवेक्षणप्रमार्जनपूर्वमुपयुक्तः सन्नुपधेरादाननिक्षेपौ करोतीत्यर्थः, अजुगुप्सको हि सत्त्वव्यापादनं विदध्यादिति तृतीया ३ तथा 'संयतः' साधुः 'समाहितः' समाधानपरः सन् ‘संयतते' प्रवर्तयत्यदुष्टं मनो, दुष्टं हि मनः क्रियमाणं कायसंलीनतादिकेऽपि सति कर्मबन्धाय सम्पद्यते श्रूयते हि प्रसन्नचन्द्रो राजर्षिर्मनोगुत्यभाविताऽहिंसाव्रतो हिंसामकुर्वन्नपि सप्तमनरकपृथ्वीयोग्यं कर्म निर्मितवानिति चतुर्थी ४ एवं वाचमप्यदुष्टां प्रवर्तयेत् दुष्टां (हि तां) प्रवर्तयन् जीवान् विनाशयेदिति पञ्चमी ५, तत्त्वार्थे तु अस्याः स्थाने एषणासमितिलक्षणा भावना भणिता, इति प्रथमव्रतभावनाः पञ्च । अथ द्वितीयमहाव्रतभावना भण्यन्ते - अत्र अहास्यात्- हास्यपरिहारात् 'सत्यः' सत्यवाक्, हास्येन ह्यनृतमपि ब्रूयादिति प्रथमा १ तथा 'अनुविचिन्त्य' सम्यग्ज्ञानपूर्वकं पर्यालोच्य 'भाषको' वक्ता, अनालोचितभाषी हि कदाचिन्मृषाऽप्यभिदधीत, ततश्चात्मनो वैरपीडादयः सत्त्वोपघातश्च भवेदिति द्वितीया २ तथा यः क्रोधं लोभं भयमेव वा वर्जयेत् परिहरेत् स एव मुनिर्दीर्घरात्रं - मोक्षं 'समुपेक्षिता' सामीप्येन मोक्षावलोकनशीलः सन् 'सदा' सर्वकालं हु-निश्चयेन 'मोसं'ति अनुस्वारस्यालाक्षणिकत्वान्मृषापरिवर्जकः 'सिया' स्यात्, अयमर्थ:- क्रोधपरवशो हि वक्ता स्वपरनिरपेक्षो यत्किभ्वनभाषी मृषाऽपि भाषेत अतः क्रोधस्य निवृत्तिरनुत्पादो वा श्रेयानिति तृतीया ३ तथा लोभाभिभूतचित्तोऽप्यत्यर्थमर्थकाङ्क्षया कूटसाक्षित्वादिना वितथभाषी भवति, अतः सत्यव्रतमनुपालयता लोभः प्रत्याख्येय इति चतुर्थी ४ तथा भयार्त्तः निजप्राणादिरक्षणेच्छया सत्यवादितां व्यभिभरति ततो निर्भयवासनाऽऽघानमात्मनि विधेयमिति पञ्चमी ५ इति द्वितीयमहाव्रतभावनाः पञ्च । अथ तृतीयमहाव्रतभावनाः प्रोच्यन्ते तत्र स्वयमेव - आत्मनैव न तु परमुखेन साधुः प्रभुं प्रभुसन्दिष्टं वा सम्यक्परिज्ञाय अवग्रहस्य - देवेन्द्रराजगृहपतिशय्यातरसाधर्मिकभेदभिन्नस्य याचने- याच्यायां प्रवर्तते, परमुखेन हि याचनेऽस्वामियाचने च परस्परविरोधेन च अकाण्डघाटनादयोऽदत्त परिभोगादयश्च दोषा इति प्रथमा १ तथा तत्रैवानुज्ञापितावग्रहे तृणादिप्रहणार्थं मतिमान् घटेत—चेष्टेत निशम्य - आकर्ण्यावग्रहप्रदातुस्तृणाद्यनुज्ञावचनं, अन्यथा तददत्तं स्यादिति द्वितीया २ तथा 'सदा' सर्वकालं मिक्षुरवग्रहं स्पष्टमर्यादया याचेत, अयमर्थ:-सकृद्दत्तेऽपि स्वामिनाऽवग्रहे भूयो भूयोऽवग्रहयाचनं कर्तव्यं, पूर्वलब्धेऽवग्रहे ग्लानाद्यवस्थायां मूत्रपुरीषोत्सर्गपात्र करचरणप्रक्षालनस्थानानि दायकचित्तपीडापरिहारार्थं याचनीयानीति तृतीया ३ तथाऽनुज्ञाप्य गुरुमन्यं वा भुञ्जीत पानभोजनं, अयमर्थः - सूत्रोक्तेन विधिना प्रासुकमेषणीयं लब्धमानीयालोचनापूर्व गुरवे निवेद्य गुरुणाऽनुज्ञातो मण्डल्यामेकको वाऽश्रीयात्, उपलक्षणमेतत्, अन्यदपि यत्किश्विदौधिकौपग्रहिक भेदमुपकरणं धर्मसाधनं तत्सर्वं गुरुणाऽनुज्ञातमेव भोक्तव्यं अन्यथाऽदत्तमेव परिभुक्तं स्यादिति चतुर्थी ४ तथा समानो धर्मः सधर्मस्तेन चरन्तीति साधर्मिकाः - प्रतिपन्नैकशासनाः संविग्नाः साधवः, तेषां पूर्वपरिगृहीतक्षेत्राणामवग्रहं मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपं याचित्वा स्थानादि कार्य, तदनुज्ञातं हि तत्र उपाश्रयादि समस्तं गृह्णीयात्, अन्यथा चौर्य स्यादिति पञ्चमी ५ एतास्तृतीयत्रतभावनाः पश्च । इदानीं चतुर्थव्रतभावनाः प्रतिपाद्यन्ते तत्र आहारे गुप्तः स्यात् न पुनः स्निग्धमतिमात्रं भुञ्जीत, यतो निरन्तरवृष्यस्निग्धमधुररसप्रीणितः प्रधानधातुपरिपोषणेन वेदोदयादब्रह्मापि सेवेत, अतिमात्राहारस्य तु न केवलं ब्रह्मव्रतविलोपविधायित्वाद्वर्जनं कायक्लेशकारित्वादपीति प्रथमा १ तथा अविभूषितात्मा - विभूषाविरहितः, देहनानविलेपनादिविविधविभूषानिरतो हि नितान्तमुद्रिक्तचित्ततया ब्रह्मविराधकः स्यादिति द्वितीया २ तथा स्त्रियं न निरीक्षेत, तदव्यतिरेकात्तदङ्गान्यपि वदनस्तनप्रभृतीनि सस्पृहं न प्रेक्षेत, निरन्तरमनुपमवनितावयवविलोकने हि ब्रह्मबाधासम्भव इति तृतीया ३ तथा स्त्रियं न संस्तुवीतस्त्रीभिः सह परिचयं न कुर्यात् तत्संसक्तवसतितदुपभुक्तशयनासनादि सेवनेन, अन्यथा ब्रह्मव्रतभङ्गः स्यादिति चतुर्थी ४ तथा बुद्ध:-अव गततत्त्वो मुनिः क्षुद्रां- अप्रशस्यां ब्रह्मचर्यप्रस्तावात् स्त्रीविषयां कथां न कुर्यात्, तत्कथाऽऽसक्तस्य हि मानसोन्मादः सम्पद्येत इति पञ्चमी ५ एताभिः पचमिर्भावनाभिर्भावितान्तःकरणो धर्मानुप्रेक्षी - धर्मसेवनतत्परः साधुः सन्धत्ते – सम्यक्पुष्टिं नयति ब्रह्मचर्यमिति चतुर्थमहाव्रतभावनाः । अथ पञ्चमव्रतभावना निगद्यन्ते तत्र यः साधुः शब्दरूपरसगन्धान् आगतान् - इन्द्रियविषयीभूतान्, मकारोऽयमलाक्षणिकः, स्पर्शाश्च सम्प्राप्य - समासाद्य मनोज्ञान- मनोहारिणः पापकान् - विरूपान् इष्टाननिष्टांश्चेत्यर्थः, गृद्धि-अभिष्वङ्गलक्षणां प्रद्वेषं च-अप्रीतिलक्षणं यथाक्रमं न कुर्यात् पण्डितो - विदिततत्त्वः सन् स दान्तो जितेन्द्रियो विरतः - सर्वसावद्ययोगेभ्यो भवत्यकिश्वनः - किश्वन बाह्याभ्यन्तरपरिग्रहभूतं नास्यास्तीतिव्युत्पत्त्या परिप्रहविरतित्रतवानित्यर्थः, अन्यथा शब्दादिषु मूर्च्छादिसद्भावात् पञ्चमव्रतविराधना स्यादिति पञ्चसु विषयेष्वभिष्वङ्गप्रद्वेषवर्जनात् पश्वमव्रतस्य पञ्च भावनाः, मिलितास्तु पञ्चविंशतिरिति एताश्च समवायाङ्गतत्त्वार्थादिषु किश्विदन्यथाऽपि दृश्यन्ते इति ॥ ६३६ ।। ६३७ ।। ६३८ ॥ ६३९ ॥ ६४० ॥७२॥ इदानीं 'असुहाओ पणवीसं' ति त्रिसप्ततितमं
द्वारमाह
कंदष्पदेव १ किचिस २ अभिओगा ३ आसुरी ४ य सम्मोहा ५ । एसा हु अप्पसत्था पंचविहा
119

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310