Book Title: Pravachan Saroddhar
Author(s): Jaydarshanvijay
Publisher: Jinagna Prakashan
View full book text
________________
तद्गताः पिपीलिकाप्रभृतयः प्राणिनो व्यापाद्यन्ते तदा संयमविराधना सर्पादिभक्षणे चात्मविराधना ९ । तथा त्रसप्राणवीजरहितं-स्था. वरजङ्गमजन्तुजातवियुक्तं, तद्युक्ते हि स्थण्डिले संज्ञाव्युत्सर्ग कुर्वाणस्य साधोद्वौ दोषौ-संयमविराधना आत्मविराधना च, तत्र त्रसेषु बीजेषु च प्राणव्यपरोपणात् संयमविराधना सुप्रतीता, त्रसेष्वात्मविराधना तेभ्यो भक्षणाद्युपद्रवसम्भवात् , बीजेष्वात्मविराधना अतितीक्ष्णगोक्षुरकादिबीजानां पादेषु लगनतः पादप्रलोठनेन पतनतो वेति १० । अमीषां चानन्तरोदितानां दशानां पदानामेकद्वित्रिचतुःपञ्चषट्सप्ताष्टनवदशकैः संयोगाः कर्तव्याः, तेषु च भङ्गाः सर्वसङ्ख्यया चतुर्विशत्यधिकं सहस्रं, अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ?, उच्यन्ते, इह भङ्गानामानयनार्थमियं करणगाथा-"उभयमुहं रासिद्गं हेछिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते तस्सुवरि गुणित्तु संजोगा ॥ १॥" अस्या अक्षरगमनिका-इह दशानां पदानां व्यादिसंयोगभङ्गा आनेतुमभिप्रेतास्ततस्तावत्प्रमाणौ द्वौ राशी उभयमुखौ स्थाप्येते, किमुक्तं भवति ?-एककादीन दशकपर्यन्तानङ्कान पूर्वानुपूर्योपरि स्थापयित्वा तेषामधस्तात् पश्चानुपूर्व्या भूय एककादयो दशकपर्यन्ता अङ्काः स्थापनीयाः, स्थापना चेयं
१ १० ४५ १२० २१० २५२ २१० १२० ४५ - १० अत्राधस्तनराशिपर्यन्तवर्तिन एककस्योपरि यो दशकस्ते एककसंयोगे दश भङ्गा द्रष्टव्याः, न च तत्र करणगाथाया व्यापारो, व्यादिसंयोगभङ्गानयनायैव तस्याः प्रवृत्तत्वात् , ततोऽधस्तनराशिपर्यन्तवर्तिन एककस्यानन्तरेण द्विकलक्षणेनोपरितनराशौ पश्चानुपूर्त्या प्रथममक दशकरूपं भजेत्-तस्य भागाकारं कुर्यात् , ततो लब्धाः पञ्च, यतो दश द्विधा विभक्ताः पञ्चैव भवन्ति, 'लद्धहरासिविभत्ते'त्ति अधोराशिना द्विकलक्षणेनोपरितने प्रथमे अङ्के दशकलक्षणे विभक्ते सति लब्धेन अङ्केन पञ्चकेन तस्य द्विकलक्षणस्योपरितनमकं नवकलक्षणं गुणयेत्-ताडयेत्, जाताः पञ्चचत्वारिंशत् , इत्थं च गुणयित्वा संयोगाः-संयोगभङ्गा वाच्याः, यथा द्विकसंयोगे भङ्गाः पञ्चचत्वारिंशदिति, ततो भूयोऽपि त्रिकसंयोगभङ्गानयनाय प्रथमपादरहिता करणगाथा व्यापार्यते, यथाऽधस्तनराशिस्थितेन द्विकादनन्तरेण त्रिकेणोपरितनराशिव्यवस्थितं त्रिकोपरितनाष्टकरूपाकापेक्षयाऽऽद्यं पञ्चचत्वारिंशल्लक्षणमंकं भजेत् , ततो लब्धाः पञ्चदश, यतः पश्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तैश्चाधोराशिनोपरितने अङ्के विभक्ते लब्धैः पञ्चदशभिस्त्रिकलक्षणस्याङ्कस्योपरितनमष्टकलक्षणमवं गुणयेत् , गुणिते च सति जातं विंशत्युत्तरं शतं, एतावन्तस्त्रिकसंयोगे भङ्गाः, पुनश्चाधस्तनराशिस्थितेन त्रिकादनन्तरेण चतुष्ककेणोपरितनराशिस्थितं चतुष्कोपरितनसप्तकरूपाङ्कापेक्षया प्रथमं विंशत्युत्तरशतलक्षणमंकं भजेत्, लब्धा त्रिंशत् , यतो विंशत्युत्तरं शतं चतुर्भिर्भक्तं त्रिंशदेव भवति, तया च त्रिंशता चतुष्कस्योपरि यः सप्तकः स गुण्यते, जाते द्वे शते दशोत्तरे, एतावन्तश्चतुष्ककसंयोगे भङ्गाः, एवं पञ्चकादिसंयोगेष्वपि भङ्गा आनेतव्याः यावद्दशकसंयोगे एको भङ्गः, एवं चैककसंयोगे दश भङ्गाः द्विकसंयोगे पञ्चचत्वारिंशत् त्रिकसंयोगे विंशं शतं चतुष्कसंयोगे द्वे शते दशोत्तरे पञ्चकसंयोगे वे शते द्विपञ्चाशदधिके षट्कसंयोगे द्वे शते दशोत्तरे सप्तकसंयोगे विशं शतं अष्टकसंयोगे पञ्चचत्वारिंशत् नवकसंयोगे दश दशकसंयोगे एकः, सर्वमीलने च त्रयोविंशत्युत्तरं सहस्रमशुद्धभङ्गानां भवति, चतुविशस्तु शुद्धो भङ्गो यद्यपि करणेन नागच्छति तथाप्येतन्मध्ये तं प्रक्षिप्य भङ्गसङ्ख्या पूरणीया, यतः सर्वभङ्गप्रसारे क्रियमाणे पर्यन्ते शुद्धभङ्गस्यागतिः, उक्तं च-"दस पणयाल विसोत्तरसयं च दोसय दसुत्तरा दो य । बावन्न दो दसुत्तर विसुत्तरं पञ्च चत्ता य ।। १ ।। दस एको य कमेणं भङ्गा एगादिचारणाएसुं । सुद्धेण समं मिलिया भङ्गसहस्सं चउव्वीसं ॥२॥" ९१ ॥७१०॥ इदानीं 'पहाणं नामाइं पयसंखासंजुयाई चउदसवित्ति द्विनवतं द्वारमाह
उप्पायं पढमं पुण एक्कारसकोडिपयपमाणेणं । बीयं अग्गाणीयं छन्नउई लक्खपयसंखं ॥ ७११॥ विरियप्पवायपुत्वं सत्तरिपयलक्खलक्खियं तइयं । अत्थियनत्थिपवायं सट्ठीलक्खा चउत्थं तु ॥७१२ ॥ नाणप्पवायनामं एयं एगूणकोडिपयसंखं । सच्चप्पवायपुत्वं छप्पयअहिएगकोडीए ॥७१३ ॥ आयप्पवायपुत्वं पयाण कोडी उ हुँति छत्तीसं। समयप्पवायगवरं असीई लक्ख पयकोडी ॥७१४ ॥ नवमं पञ्चक्खाणं लक्खा चुलसी पयाण परिमाणं । विजप्पवाय पनरस सहस्स एक्कारस उ कोडी ॥७१५ ॥ छवीसं कोडीओ पयाण पुवे अवंझणामंमि । छप्पन्न लक्ख अहिया पयाण कोडी उ पाणाउ॥७१६ ॥ किरियाविसालपुवं नव कोडीओ पयाण तेरसमं । अदत्तरसकोडी चउदसमे बिंदुसारम्मि ॥ ७१७ ॥ पढमं आयारंगं अट्ठारस पयसहस्सपरिमाणं । एवं
सेसंगाणवि दुगुणादुगुणप्पमाणाइं ॥ ७१८ ॥ 'उप्पाये'त्यादिगाथाष्टकं, यत्रोत्पादमङ्गीकृत्य सर्वद्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्व प्रथम, तच्च पदप्रमाणेन-पदसङ्ख्यामाश्रित्यैकादशकोटिप्रमाणं, प्रथमपूर्वे एकादश पदानां कोटय इत्यर्थः, इह यत्रार्थोपलब्धिस्तत्पदमित्यादिपदलक्षणसद्भावेऽपि तथाविधसम्प्रदायाभावात्तस्य प्रमाणं न सम्यगवगम्यत इति, तथा यत्र सर्वेषां द्रव्याणां पर्यायाणां जीवविशेषाणां चाग्रं-परिमाणं वर्ण्यते तदद्मायणीयं द्वितीयं पूर्व,
138

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310